ऋग्वेदसन्दर्भे ‘नूनम्’ इति निपातार्थविमर्श: 5/5 (4)

0
68 views

“ऋग्वेदसन्दर्भे ‘नूनम्’ इति निपातार्थविमर्श:”

 

श्याम-सुन्दर-शर्मा

शोधच्छात्र:,

संस्कृत-विभाग:,

दिल्ली-विश्वविद्यालय:,

दिल्ली

9015467296

sssharmasanskrit@gmail.com

 शोधपत्रसार:

निपातानामाविर्भाव: लेखनपरम्पराया: पूर्वमेव अभिव्यक्तेर्परम्परया साकं जात:। तत एतेषामनुप्रयोग: विशिष्टार्थे भवति एव हि। तत्कालत: निपातानभिलक्ष्य वर्गीकरणविषये तथा च अर्थविषये  अनुसन्धानोsपि प्रारब्ध:। निपातसमवाये विशिष्टैक: ‘नूनम्’ इति निपात: प्रारम्भिकग्रन्थ ऋग्वेदे कस्मिञ्चित् स्थले, कमर्थमभिलक्ष्य प्रयुक्त इति ऋग्वेदस्य विविधभाष्यालोके शोधपत्रेsस्मिन् विश्लेषणं मया विवेचितम्  

 प्रस्तावना

पुरा कालत एव भाषाङ्गानां विषये विश्लेषणपरम्परा विद्यत एव तथाहि गोपथब्राह्मणे समुद्भाविता अनेके प्रश्ना: – “को धातु:, किं प्रातिपदिकम्, किं नामाख्यातम्, किं लिङ्गम्, किं वचनम्, का विभक्ति:, क: प्रत्यय:, क: स्वर:, क उपसर्ग:, को निपात:, किं वै व्याकरणम्, को विकार:, को विकारी, कतिमात्र:, कतिवर्ण:, कत्यक्षर:, कतिपद:, क: संयोग:, किं स्थानानुप्रदानकरणम्, शिक्षका: किमुच्चारयन्ति, किं छन्द:, को वर्ण:” इति[1]

भारतीयचिन्तनपरम्परा भाषाविश्लेषणाय पदं विभजति। प्रयोगार्हत्वं पदत्वम्, अप्रयोगार्हत्वं शब्दत्वम्। पदन्नाम – अर्थवानक्षरसमूहो पदमिति ऐन्द्रव्याकरणम्। सविभक्तिकं पदमिति नैयायिका:[2]। सुप्तिङन्तं पदमिति वैयाकरणा:[3]। अत्र ऐन्द्रव्याकरणानुसारं निपाता: अर्थवत्वाद् पदम्। नैयायिकैरुपसर्गनिपाताभ्यां विभक्तेर्लोपस्स्वीक्रियत एतेन निपाता: पदसंज्ञका:।  तथैव वैयाकरणा:। इत्थं प्रकारेण निपाता: लौकिकवैदिकसाहित्ये पदत्वाद् प्रयोगार्हा:।

पदविभाजनपद्धतेरारम्भस्तावत् “चत्वारि वाक्परिमिता पदानि[4]” इति ऋग्वेदीयसूक्तांशाज्जाता। तत आरभ्य ऋक्प्रातिशाख्य[5]– आश्वलायनश्रौतसूत्र[6]– यास्क[7]– दुर्गाचार्य[8]– पतञ्जलि[9]– चाणक्य[10]– स्कन्दस्वामि[11] – उव्वट[12]– सायण[13]– विल्सन- प्रभृतिभि: शब्दशास्त्रावगाहनक्षमै: “नाम-आख्यात-उपसर्ग-निपाता:” इति पदविभागा एवाङ्गीक्रियन्ते। निपातानां ग्रहणं नाम्ना (प्रातिपादिकेन) अपि भवितुमशक्यत तथापि अमीषामर्थवैशिष्ट्येन पृथगुपदेश: शब्दार्थमीमांसकै: कृत:।

लौकिकवैदिकसाहित्ये ‘नूनम्’ इति निपात: सहजतया दृष्टिपथमायाति। तथैव वैयाकरणै: साहित्याचार्यै: मीमांसकादिभिश्च सर्वैरपि प्राच्यविद्याविचारकैरेकेन स्वरेण निगदितं यत् “नूनमस्ति खलु निपात इति” ‘नूनम्’ इति निपातस्यास्तित्त्वे नास्ति वैक्लव्यम् वैक्लव्यं तु तस्यार्थेsवगाहते वैदिकवाङ्मयेsयं बहुप्रयोजनमुद्दिश्य प्रयुक्त:, परञ्च लौकिकवाङ्मयेsस्यार्थे सङ्कुचिता समागता। अत्र सीमितार्थेष्वस्य प्रयोगो दृश्यते श्रूयते च। यथा- वितर्क:, ऊह:, अवश्यम्, अवधारणम्, स्मरणमिति[14]

 वैदिकसन्दर्भे पश्यामश्चेत् तदा ऋग्वेदस्य भाष्यकर्तार: सायणाचार्यवेङ्कटमाधवस्कन्दस्वामिदयानन्द-मेक्डोनलप्रभृतय: तथा च वैदिकशब्दकोशस्य व्याख्यातार: यास्काचार्यदुर्गाचार्यप्रभृतय: विद्वांस: नूनं निपातस्य विविधार्थेsनुरक्ता: तथा च तेषां कुत्रचिन्मतैक्यमपि प्रतिभाति

निपातोsयमृग्वेदे न बहुधा प्रयुक्त: तथापि पञ्चोत्तरशतं सम्यगुध्दृत:[15]। निपातोsयम् ऋग्वेदसम्बन्धिमन्त्राणां समस्तचरणेषु प्रयुक्त:, ततोsपि प्रथमचरणेsस्य प्रयोग: प्राधिक्येन दरीदृश्यते।

ऋग्वेदस्य भारतीय-वैदेशिकभाष्यकारा:

भारतीयभाष्यकारा:[16]

(1)     स्कन्दस्वामी (625 ई.)

(2)     नारायण:  (630 ई.)

(3)     उद्गीथ:   (630 ई.)

(4)     हस्तामलक:  (700 ई.)[17]

(5)     वेंकटमाधव: (11तम: शतकम्)

(6)     भट्टगोविन्द: (1310 ई.)

(7)     लक्ष्मण:  (12 तम: शतकम्)

(8)     धानुष्कयज्वा (13 तम: शतकम्)

(9)     आनन्दतीर्थ: (1255-1335 ई.)

(10)  आत्मानन्द: (13 तम: शतकम्)

(11)  सायण: (1316-1388 ई.)

(12)  रावण :

 

 (13) मुद्गल:  (15 तम: शतकम्)

(14)  चतुर्वेदस्वामी (16 तम: शतकम्)

(15)  भरतस्वामी  (14 तम: शतकम्)

(16)  वरदराज:

(17)  देवस्वामी

(18)  भट्टभास्कर:

(19)  उव्वट:

(20)  हरदत्त:

(21)  सुदर्शनसूरि:

(22) दयानन्द-सरस्वती (1825-1884 ई.)

(23)  महर्षि-अरविन्द:  (1872-1950 ई.)

वैदेशिकभाष्यकारा:[18]

  1. H. Wilson (CE 1786 -1860)

F Max Muller (CE 1823 -1900)

R.T.H. Griffith (CE 1826 -1906)

  1. A. Macdonell (CE 1854 -1930)

निपातलक्षणम्

  1. विविधार्थमभिलक्ष्यैतानि लक्षणानि –

01.01     यास्क: – अथ निपाता उच्चावचेष्वर्थेषु निपतन्ति[19]

(उच्चा इति शब्द: सायणाचार्येण प्रभूतार्थे व्याख्यात:[20])

01.02     दुर्गाचार्य: – अथ निपाता उच्चावचेष्वर्थेषु निपतन्तीति निपाता:[21]

01.03     ऋक्प्रतिशाख्यम् – निपातानामर्थवशान्निपातनादनर्थकानामितरे च सार्थका:[22]

01.04     शौनक: – उच्चावचेषु चार्थेषु निपाता: समुदाहृता:[23]

01.05     माधवभट्ट: – उच्चावचेषु निपततामर्थेष्वेषु यथायथम्[24]

  1. प्रयोगबाहुल्यमभिलक्ष्य –

02.01     सायण: – नितरां पात: निपात:[25]

  1. केचन विद्वांस: स्वीकुर्वन्ति यत् वस्तुतस्तु निपाता: सविभक्तिका आसन् परञ्च कालकुठारेण विभक्तय: विनष्टा: । अर्थात् “यस्मात् विभक्तय: निपतिता: (विनष्टा:) ते निपाता:”[26]

 निपातां वर्गीकरणम्

निपातानामध्ययने आवश्यकं वर्तते तेषां वर्गीकरणम्। तथैव हि आप्राक्कालादाचार्या एतस्मिन् कर्मणि सन्नद्धा: अवदृश्यन्ते ।

  1. 01. यास्केन निपाता: त्रिधा विभज्यन्ते[27]
  2. 01.    उपमार्थका:।
  3. 02. कर्मोपसंग्रहार्थका:।
  4. 03. पदपूरणार्थकाश्च।
  5. 02. शौनकेनापि यास्कसदृशं निपाता: त्रिधा विभज्यन्ते[28]
  6. 01. उपमार्थका:।
  7. 02. कर्मोपसंग्रहार्थका:।
  8. 03. पदपूरणार्थकाश्च।

यास्कशौनकवर्गीकरणे न्यूनता

परञ्च ऋग्वेदीयानां निपातानामस्मिन् वर्गीकरणे समावेशो दुष्कररेव हि। एतस्माद्धेतोरनयोर्वर्गीकरणं दिग्दर्शनमेव। तथैव यास्काचार्य: निगदति “त इमे उपेक्षितव्या:[29]” अयमाशय: वेदेषु निपातार्थ इतोSपि शोधनीय:।

  1. 03. माधवभट्टेन निपाता: स्वराधारेण चतुर्धा विभज्यन्ते[30]
  2. 01. आद्युदात्त:।
  3. 02. अन्तोदात्त:।
  4. 03. सर्वानुदात्त:।
  5. 04. स्वरित:।
  6. 04. माधवभट्टेन अर्थविज्ञानानुसारं निपाता: पञ्चधा विभज्यन्ते[31]
  7. 01. विकल्पार्थक:।
  8. 02. समुच्चयार्थक:।
  9. 03. विनिग्रहार्थक:।
  10. 04. उपमार्थक:।
  11. 05. पादपूरणार्थक:।

माधवभट्टवर्गीकरणे न्यूनता

अत्र निषेधार्थक-निश्चयार्थक-क्षिप्रार्थकादीनां निपातानां समावेश: अशक्य:।

  1. 05. सायणभाष्याधारेण अर्थविज्ञानमनुसृत्य एतद्वर्गीकरणं कर्तुं शक्यम् [32]
  2. 01. अप्यर्थका: – अपि, अथ, अथो, चन।
  3. 02. अवधरणार्थका: – आदु, ओ, सु, चन।
  4. 03. आभिमुख्यार्थका: – अग्रम्, अग्रे, अच्छ, अभि, अर्वाक्, अङ्ग, पुरत:, पुरस्तात्, प्रति, प्रत्यङ्।
  5. उपमार्थका: – न, इव, चित्, नु, इत्, आ, वा, यथा।
  6. 05. क्षिप्रार्थका: – अजिरम्, अङ्ग, अरम्, आत्, आशु, कम्, छु, तु, शीभम्, मक्षु, सद्य:, तृषु,

नु, तूयम्, श्वाञ्यम्, तरणि, शनकै:, द्रवत्, श्वात्रम्।

  1. 06. दिगर्थका: – अभित:, अव, अव:, अवस्तात्, उच्चै:, उर्ध्वम्, उच्चा, उपरि, उर्ध्वा, न्यक्, नीचा, नीचम्, पुर:, पुरस्तात्, प्राङ्।
  2. 07. नित्यार्थक: – सना।
  3. 08. निषेधार्थका: – नूचित्, नेति, नकि:, नकीम्, नहि, नो, माकि:, मो, मा, न।
  4. 09. निश्चयार्थका: – अद्धा, अह, उ, एव, किल, खलु, घ, नूनम्, वै, स्म, स्वित्, ह, हि, हिन।
  5. 10. परिणामार्थका: – आर्ध, अनून, अनीक, अदभ्र, अति, अरम्, कुवित्, उरू, पुरू, नाना, पराके, पुरुधा, भूरि, भूय:, मुहु:, मुहु, शश्वत्, सकृत्।
  6. 11. प्रकर्षार्थका: – परा, परो, प्रप्र।
  7. 12. प्रकार्थका: – अन्यथा, इदम्, इति, इत्था, अथ, एवम्, तादृक्, इत्थम्।
  8. 13. प्रश्नार्थका: – ननु, किम्, कत्, क्वो, कथो, कथम्, कुहया, कदा, कथा, कर्हि, कुत्र, कूचित्।
  9. प्रसिद्ध्यर्थका: – नाम, श्रुत:, तत, अङ्ग, सा, त्यम्।
  10. 1 मनोभावाभिव्यञ्जकार्थका: – बत, हन्त।
  11. 1 वितकार्थकौ – किम्, स्वित्।
  12. 1 विनिग्रहार्थक: – अव।
  13. 18. विविधार्थका: – कम्, कामम्, चिरम्, ज्योक्, पृथक्, प्रप्र।
  14. 19. सत्यार्थका: – अवितथम्, ऋतम्, ऋधक्, श्रत्, बट्, सत्रा, सत्यम्।
  15. 20. समीपार्थका: – अन्ते, अन्तमम्, अन्तर:, अन्तिके, अमा, अन्तमीके, उपाके, उपस्थे, आके,

अस्तमीके, उपमे, अधनि, अन्तिकम्, अर्वाके, अभीके, अव, आरे,

रात्तात्, इह,  उपो, समया।

  1. 21. समुच्चयार्थका:- अथ, अथो, अध, आत्, उत्, उत, उतो, च, चन, चो, वा।
  2. 22. सम्प्रत्यर्थका: – अध, अद्य, इदम्, इदा, इदानीम्, ईम्, नेति।
  3. 23. सम्बोधनार्थक: – उवे।
  4. 24. सम्भावनार्थका: -अपि, कदा, जातु, हन्त।
  5. 25. सहार्थका: – अमा, वृथा, सह, सचा, साकम्, सत्रा, सध्य्रक्, स्मत्।
  6. 26. स्थानसूचकार्थका: – अत्र, अत:, अन्यत्र, अभित:, आरे, इत्र, तत्र, यत्र, विष्वक्, सीम्।
  7. 27. हेत्वर्थका: – अत:, अथ, अध, आत्, इति, कुत:, तत:, तथा, यत:, यदा, यदि, यथा।

 नूनं निपातार्थ:

यास्काचार्य: निरुक्ते ब्रवीति “नूनमिति विचिकित्सार्थीयो भाषायाम्, उभयम् अन्वध्यायम्[33]” अयमाशय: यास्काचार्य एनं सामान्यव्यवहारे विचिकित्सा (निश्चय:) अर्थकम्, वैदिकसाहित्ये च विचिकित्सा (निश्चय:) एवं पादपूरणम् उभयार्थकं स्वीकरोति। निरुक्तस्य टीकाकारः दुर्गाचार्योsपि तथैव ब्रूते[34] यद्यपि यास्काचार्य: नूनं निपातं विचिकित्सार्थकम् एवं पादपूरणार्थकं स्वीकरोति, तथापि ऋग्वेदे सूक्ष्मेक्षिकया दर्शनेन यास्कस्य कथनं समीचीनतां न याति। यतोहि सायणाचार्येण वेङ्कटमाधवेन च ऋग्वेदे केवलमेकस्मिन्नेव स्थले अस्य विचिकित्सार्थत्वं स्वीकृतम्। अन्यत्र भिन्नार्थतैव अङ्गीकृता। तथैव विवध ऋक्भाष्यकारैरेनं सन्दर्भानुसारं विविधार्थे प्रयुञ्जते। तद्यथा-

  1. स्कन्दस्वामी (625 ई.) नूनं निपातस्य पुरा[35], क्षिप्रम्[36], निश्चितम्[37], इदानीम्[38] चार्थम् उत् वा पादपूरणम्[39] अकरोत्
  2. माधवभट्ट एनं मुख्यत अनर्थकं मन्यते तथापि तेनैव अस्य ‘सम्प्रति’ अर्थस्य उल्लेख: कृत:[40]
  3. वेङ्कटमाधवानुसारं (दशमशताब्दी[41]) नूनं निपातस्यार्थ: स्व:[42], क्षिप्रम्[43], इदानीम्[44], खलु[45], समुच्चय:[46], पुरा[47], सम्प्रति[48] , अद्य[49], विचिकित्सा[50] च भवति तेन स्थलद्वये पादपूरणमप्यनूदितं[51] परञ्च तत्रापि प्रखरविवेचनेन सार्थकतास्य नूनं निपातस्य सम्भाव्यते
  4. सायणाचार्येण (1315-1387 ई.) निपातस्यास्य निश्चितम्[52], इदानीम्[53], क्षिप्रम्[54], खलु[55], सत्यं[56] विचिकित्सा[57] तथा च पुरा[58] अर्थ: कृत:। तेन ऋग्वेदे त्रिषु स्थलेषु अस्य निपातस्य प्रयोजनं पादपूरणमपि स्वीकृतम्[59], परञ्च तत्र विवेचनेन नूनं निपातस्य सार्थकतैवावलोक्यते।
  5. मुद्गलेन (पञ्चदश-शताब्दी) नूनं निपातस्यास्य निश्चितम्[60], इदानीम्[61], क्षिप्रम्[62], अवितथम् इत्याद्यर्थ: कृत:।
  6. दयानन्देन (1824-1883 ई.) अस्य सर्वत्र निश्चयमर्थ: व्याख्यात:
  7. राल्फ-थोमस-होचकिन-ग्रिफिथेन (Ralph Thomas Hotchkin Griffith, 1826-1906 ई.) अस्यार्थ: सम्प्रति[63], अवश्यम्[64], अद्य[65] प्रतिपादित:।
  8. आर्थर-एन्थोनी-मैक्डोनलेन (Arthur Anthony Macdonell, 1854-1930 ई.) सविस्तरं नूनं निपातमिदं प्रख्यातम् तेन अस्यार्थ इदानीम्, पुरा, अपरम्, कथयतु, इत्यादिकं कृत:[66]

निष्कर्ष:

वेदे वर्णमात्रमपि ब्रह्मत्वेनाभिधीयते तेन कथमेकस्यापि शब्दस्य वैयर्थ्यं स्यात्? निपाता: यत्र स्फुटार्थम् अभिव्यञ्जयन्ति तत्र अर्थवन्त:, यत्र अस्फुटार्थं (सूक्ष्मार्थम्) अभिव्यञ्जयन्ति तत्र पादपूरणार्थका: आहोस्वित् निरर्थका एवं धिया अद्यावधि व्याख्याता: निपाता:। तथैव शौनकेनोक्तम्  “प्रयोजनवशा ह्येते निपात्यन्ते पदे पदे” (बृहद्देवता 02/95)। एतस्माद्धेतो: निपाता अनर्थका इति निस्तर:। पूर्वोक्तविवरणाधारेणेदं निश्चीयते यत् ऋग्वेदस्य परिप्रेक्ष्ये नूनं निपातोsयं न तावत् पादपूरणार्थक अपित्वयं सार्थकतामेव भजते। नूनमिति निपातस्यार्थस्तावत् निश्चयम्, क्षिप्रम्, इदानीम् इत्येतावत्तु भवत्येव हि

 सन्दर्भ-ग्रन्थ-सूची

  1. A Vedic Concordance of Maurice Bloomfield, Edited by Marcho Franceschini, The Department of Sanskrit and Indian Studies, Harvard University USA and Mimesis Edizioni Milan, Italy, 2007.
  2. The Arthashastra of Kautilya, Edited, Translated and Introduced by L. N. Rangarajan, Penguin Book Ltd., London, 1992.
  3. The Ashtadhyayi of Panini, Edited by Ram Nath Sharma, Munshiram Manohar Lal Publishers New Delhi, 2002.
  4. The Brahad-Devata Attributed to Saunaka, Edited by Arthur Anthony Macdonell, Harvard University, USA, 1904.
  5. The Date of Shri Sankaracharya, Chintamani, Journal of Oriental Research, Madras, 1929
  6. The Gopath Brahman, Edited by Dr. Dieuke Gaastra, Leiden, Netherland, 1919.
  7. The Hymns of Rgveda by Ralth T. H. Griffith, Chaukhamba Sanskrit Series Office Varanasi, fourth Edition, 1963.
  8. The Nyaya Sutra of Gotama, Edited by B.D. Basu, Translated by Satish Chandra Vidyabhusan, Published by The Panini Office Bhuvneshwar Ashram, Bahadurganj, 1913.
  9. Wikipedia
  10. अमरकोश:, अमरसिंह:, सम्पादक:- हरगोविन्द शर्मा, चौखम्बा-संस्कृत-संस्थानम्, वाराणसी, 1983.
  11. आश्वलायनश्रौतसूत्रम् (नारायणकृतवृत्तिसहितम्), महर्षि: आश्वलायन:, आनन्दाश्रम: पुणे, 1917
  12. ऋक्प्रतिशाख्यम्, शौनक:, सम्पादक:- युगलकिशोरदास:, बनारस प्रिन्टिंग प्रेस, 1984.
  13. ऋग्वेद के निपात, राकेशशास्त्री, परिमल प्रकाशन, दिल्ली, 1991
  14. ऋग्वेद:, दयानन्दभाष्यम्, arymantavya.in
  15. ऋग्वेद:, स्कन्दस्वामि-माधवभट्ट-मुद्गलभाष्यसहितम्, विश्ववन्धुना सम्पादितम्, विश्वेश्वरानन्द-वैदिक-शोधसंस्थानम्, होसियारपुरम्, पंजाब:, 1963
  16. ऋग्वेदसायणभाष्यम्, अनुवादक:-रामगोविन्दशास्त्री, चौखम्बा-विद्याभवन-वाराणसी, प्रथमं संस्करणम्,
  17. ऋग्वेदसायणभाष्यम्, सम्पादक:- मैक्समुलर:, ओक्सोर्ड युनिवर्सिटी, लन्दन, इंग्लैण्ड
  18. ऋग्वेदानुक्रमणी, माधवभट्ट:, मद्रास.
  19. निरुक्त:, यास्काचार्य:, सम्पादक:-मुकुन्दशर्मा, चौखम्बा-संस्कृत-प्रतिष्ठानम्, दिल्ली
  20. निरुक्तस्य दुर्गाटीका
  21. भारतीय दर्शन बृहत् कोश, सम्पादिका-बन्दना त्रिपाठी, शारदा पब्लिशिंग हाउस, दिल्ली, 2004.
  22. महाभाष्यम्, पतञ्जलि:, चौखम्बा-संस्कृत-प्रतिष्ठानम्, दिल्ली, 1987
  23. युगलकोश:, जी डी व्यास:, रामनरैनलाल-पुस्तकविक्रेता एवं प्रकाशक:, इलाहाबाद, 1921.
  24. वाचस्पत्यम्, तारानाथ-तर्कवाचस्पति:, राष्ट्रिय-संस्कृत-संस्थानम्, नवदेलही, 2006.
  25. वाजसनेयिप्रातिशाख्यम् (उव्वटभाष्यसहितम्), कात्यायन:, मद्रास-विश्वविद्यालय:, मद्रास:, 1934
  26. वैजयन्तिकोश:,
  27. वैदिक वाङ्मय का इतिहास, भाग-02 (वेदों के भाष्यकार), भगवद्दत्त & सत्यश्रवा, प्रणव प्रकाशन दिल्ली,1976
  28. वैदिक साहित्य एवं संस्कृति, आचार्य बलदेव उपाध्याय, पाँचवा संस्करण, शरदा संस्थान वाराणसी, 2006.
  29. वैदिकपदानुक्रमकोश: (Vedic Concordance), मौरिसब्लूमफील्ड:, सम्पादक:-ओमनाथबिमली, परिमल पब्लिकेशन्स, दिल्ली 2005.
  30. वैदिकपदानुक्रमकोश:, विश्ववन्धु:, विश्वेश्वरानन्द-वैदिक-शोधसंस्थान, होसियारपुर पंजाब, 1977.
  31. वैदिक-व्याकरणम्, मेक्डोनल:, अनुदितम्- सत्यव्रतशास्त्री, मोतीलाल-बनारसीदास, दिल्ली, 1971.
  32. शब्दकल्पद्रुम:, राधाकान्तदेव:, राष्ट्रिय-संस्कृत-संस्थानम्, नवदेलही, 2006.
  33. शब्दस्तोमहानिधि:, तारानाथभट्टाचार्य:, चौखम्बा-संस्कृत-सीरीज-वाराणसी,1967.
  34. हलायुधकोश:, सम्पादक:-जयशंकरजोशी, सरस्वती-भवन-वाराणसी, प्रथमं संस्करणम्,1957.

[1]     गोपथब्राह्मणम् 01/24

[2]     न्यायसूत्रम् 2/2/60

[3]     पाणिनीयाष्टाध्यायी 01/04/14

[4]     ऋग्वेदसंहिता 01/164/45

[5]     नामाख्यातमुपसर्गो निपात: चत्वार्याहु: पदजातानि। ऋक्प्रातिशाख्यम् 12/17

[6]     चत्वारि वाक्परिमितानि पदानि यज्ञेन वाच: पदवीयमायन्। आश्वलायनश्रौतसूत्रम्, 03/08, पृ. 129

[7]     चत्वारि पदजातानि नामाख्याते चोपसर्गनिपाताश्च। निरुक्तम् 1/1/8

[8]     निरुक्तवृत्ति: 1/1/8

[9]     उद्योतपरिवृतप्रदीपप्रकाशितं महाभाष्यम्, पतञ्जलि: 1/1/1 पृ. 40.

[10]   पदसंघात: पदं तच्चतुर्विधं नामाख्यातोपसर्गनिपाताश्चेति। अर्थशास्त्रम्, 2/10/28

[11]   ऋग्वेद:, स्कन्दस्वामिभाष्यम्, 01/164/45

[12]   पदचतुष्टयं वक्ष्यति-नामाख्यातोपसर्गनिपाताश्चेति। उव्वटभाष्यवाजसनेयिप्रातिशाख्यम्, 03/02, पृ. 102

[13]   ऋग्वेदसायणभाष्यम्, 01/164/45

[14]   हलायुधकोश:, पृ. 402

युगलकोश:, पृ. 286

शब्दस्तोमहानिधि:, पृ. 252

वैजयन्तिकोश:, पृ. 216

शब्दकल्पद्रुम:, खण्ड-II,  पृ. 918

वाचस्पत्यम्, खण्ड-V, पृ. 4136

अमरकोश:, 3/3/248, 3/3/250, 3/4/16

http://www.sanskritdictionary.com/?q=नूनम्&lang=sans&iencoding=iast&action=Search

[15]   वैदिकपदानुक्रमकोश:, विश्ववन्धु:

[16]   वैदिक वाङ्मय का इतिहास, भाग-02.

[17]    The Date of Shri Sankaracharya , Chintamani, Journal of Oriental Research, Madras, 1929, PP-39-56.

[18]   Wikipedia

[19]   निरुक्त:, यास्काचार्य:, प्रथमाध्याये द्वितीय: पाद:।

[20]   ऋग्वेदसंहिता सायणभाष्यम् 02/02/10

[21]   निरुक्तस्य दुर्गाटीका 01/04

[22]   ऋक्प्रतिशाख्यम्, शौनक: 12/28

[23]   बृहद्देवता, शौनक:  2/89

[24]   ऋग्वेदानुक्रमणी, 03/01/27

[25]   ऋग्वेदसायणभाष्यम् 04/55/03

[26]   निपातार्थनिर्णय:, हरिश्चन्द्रमणित्रिपाठी, सम्पूर्णानन्द-संस्कृत-विश्वविद्यालय:, वाराणसी, 1990.

[27]   निरुक्त:, प्रथमाध्याये द्वितीय: पाद:

[28]   बृहद्देवता, शौनक: 02/89-90

[29]   निरुक्त:, प्रथमाध्याये तृतीय: पाद:

[30]   ऋग्वेदानुक्रमणिका 3/3/1-12

[31]   ऋग्वेदानुक्रमणिका 3/3/1-12

[32]   ऋग्वेद के निपात, राकेश शास्त्री, परिमल प्रकाशन, दिल्ली, 1991.

[33]   निरुक्त:, यास्काचार्य:, प्रथमाध्याये द्वितीय: पाद:।

[34]   निरुक्तस्य दुर्गाटीका 01/05/12

[35]   ऋग्वेद:, स्कन्दस्वामिभाष्यम् 01/13/06,

[36]   ऋग्वेद:, स्कन्दस्वामिभाष्यम्  01/84/05, 01/101/04

[37]   ऋग्वेद:, स्कन्दस्वामिभाष्यम् 01/82/03

[38]   ऋग्वेद:, स्कन्दस्वामिभाष्यम् 01/113/10, 06/34/01, 06/45/11, 06/48/19

[39]   ऋग्वेद:, स्कन्दस्वामिभाष्यम् 01/24/01, 01/38/01, 01/38/02, 01/39/07, 01/40/05, 01/111/04, 05/58/01, 05/68/14,

[40]   ऋग्वेद:, माधवभट्टभाष्यम् 03/01/14, 03/03/19

[41]   http://hi.wikipedia.org/wiki/चोल_राजवंश

[42]   ऋग्वेद:, वेङ्कटमाधवभाष्यम् 01/13/06,

[43]   ऋग्वेद:, वेङ्कटमाधवभाष्यम् 05/56/06, 07/29/03

[44]   ऋग्वेद:, वेङ्कटमाधवभाष्यम् 01/24/01, 01/40/05,  01/113/10, 01/124/09,  05/76/01, 07/63/04

[45]   ऋग्वेद:, वेङ्कटमाधवभाष्यम् 05/64/03, 08/32/16

[46]   ऋग्वेद:, वेङ्कटमाधवभाष्यम् 10/111/07

[47]   ऋग्वेद:, वेङ्कटमाधवभाष्यम् 01/38/01, 04/30/23, 08/86/02

[48]   ऋग्वेद:, वेङ्कटमाधवभाष्यम् 01/124/19, 01/165/12, 04/33/19

[49]   ऋग्वेद:, वेङ्कटमाधवभाष्यम् 01/174/03

[50]   ऋग्वेद:, वेङ्कटमाधवभाष्यम् 01/170/01

[51]   ऋग्वेद:, वेङ्कटमाधवभाष्यम् 02/11/21, 10/112/08

[52]   ऋग्वेद:, सायणभाष्यम् 01/13/06, 01/38/01, 01/40/05, 01/82/03, 01/111/04, 01/124/19, 01/165/12, 01/174/03,  04/33/19

[53]   ऋग्वेद:, सायणभाष्यम् 01/113/10, 01/189/04 , 02/28/08, 05/96/01

[54]   ऋग्वेद:, सायणभाष्यम्  01/39/07, 01/84/05, 07/104/20,  08/010/01, 08/46/15, 08/46/16, 08/101/01, 10/62/08

[55]   ऋग्वेद:, सायणभाष्यम् 04/30/23

[56]   ऋग्वेद:, सायणभाष्यम् 05/42/01, 08/07/31

[57]   ऋग्वेद:, सायणभाष्यम् 01/170/01

[58]   ऋग्वेद:, सायणभाष्यम् 08/86/02, 08/92/16

[59]   ऋग्वेद:, सायणभाष्यम् 02/38/03, 06/60/02, 08/09/21

[60]   ऋग्वेद:, मुद्गलभाष्यम् 01/13/06, 01/38/01, 01/82/03, 0/40/05, 01/111/04, 01/113/10

[61]  ऋग्वेद:, मुद्गलभाष्यम्  01/38/02, 05/61/14, 05/76/01

[62]   ऋग्वेद:, मुद्गलभाष्यम् 01/39/07, 01/85/05

[63]   ऋग्वेद:, ग्रिफिथभाष्यम् 01/13/06, 01/165/12, 04/30/23

[64]   ऋग्वेद:, ग्रिफिथभाष्यम् 01/111/04

[65]   ऋग्वेद:, ग्रिफिथभाष्यम्  01/174/03

[66]   वैदिक-व्याकरणम्, मेक्डोनल:, अनुदितम्- सत्यव्रतशास्त्री ,पृ. 315, 316

Please rate this Research Paper

Leave a Reply