धनुश्शास्त्रीया चित्रवेधपरम्परा 3/5 (1)

0
52 views

धनुर्वेदः

धनुर्वेदस्य मूलसाहित्यं यद्यपि विनष्टमभवत् तथाप्यनेकेषु ग्रन्थेषु अस्योद्धरणानि प्राप्यन्ते । एतेष्वुद्धरणेषु धनुश्शास्त्रस्य अत्यन्तप्राचीना समृद्धा च परम्परा सम्मुखी भवति । अस्याः ज्ञानपरम्परायाः उद्भवः विकासश्च केषुचित् अर्वाचीनग्रन्थेषु समुपलभ्यते । उपलब्धेषु एतेषु ग्रन्थेषु शास्त्रोऽयं चतुर्धा विभक्तोऽस्ति –

१. दीक्षा-प्रकारः

२. संग्रहः

३. सिद्धप्रयोगाः

४. प्रयोगविधयः

धनुषः प्राधान्याद् वेधस्त्वस्ति महत्त्वपूर्णः विषयः धनुर्वेदस्य । विचित्राणां लक्ष्याणां वेधः चित्रवेधः कथ्यते । अनया वेधविचित्रतया वेधोऽयं चित्रवेधतामाप्नोति । मानसोल्लासे चित्रस्य परिभाषा एवं प्रदत्ता अस्ति – ‘चित्रं कुतुहलकरं प्रेक्षकाणां मनोहरम्’[1]

अयं चित्रवेधः उपर्युक्तेषु भागेषु चतुर्थे पादे स्वीकर्तव्योऽस्ति । यतः चित्रवेधे प्राचीनाः कृताः प्रयोगास्तु गण्यन्त एव नावीन्यमपि महेष्वासैः सर्वदान्विष्यते । अस्य चित्रताकारणाद् नायं युद्धे प्रयोगार्हः अपित्वनुरञ्जनं लोकानामनेन सिध्यते । अतः प्रतियोगितासु तथा स्वयंवरादिष्वयं बहुधा प्रयुज्यते । एवञ्च राज्ञैः राजकुमारादिभिश्च स्वपत्नी-प्रेमिकादीनां समक्षेऽपि चित्रवेधानां प्रदर्शनं क्रियते । अयं चित्रवेधः बहुरूचिकरः किन्तु कष्टसाध्यः भवति ।

चित्रवेधः धनुश्शास्त्रे बहुधा वर्णितोऽस्ति । अस्य प्रमुखाः पञ्चप्रकाराः वाशिष्ठधनुर्वेदे इत्थं वर्णितास्सन्ति –

१. बाणभङ्गः           –

बाणभङ्गे बाणेन एव अपरस्य बाणस्य भङ्गः विधीयते । अत्र येन बाणेन भज्यते सः द्विफलयुक्तः भवति, अनेन द्विफलयुक्तेन बाणेन लक्ष्यस्थाने स्थितः बाणः यदा कर्त्यते तदोच्यते बाणभङ्गचित्रवेधः ।

लक्ष्यस्थाने धृतं काण्डं सम्मुखं छेदयेत्ततः ।

किञ्चिद् सृष्टिं विधाय स्वां तिर्यग् द्विफलकेषुणा ॥[2]

 

२. करावर्त्तः            –

अन्येन धन्विना मुञ्चितं बाणं स्वयं किञ्चिद् विक्रीभूय आकाश एव यदा धन्वी कर्तयति, तदोच्यते करावर्त्तः । योऽयं साधयति सः बाणच्छेदी उच्यते ।

 

सम्मुखं बाणमायान्तं तिर्यग् बाणं न सञ्चरेत् ।

प्राज्ञः शरेण यश्छिन्द्याद् बाणच्छेदी स उच्यते ॥ [3]

 

३. काष्ठभेदनम्         –

काष्ठभेदनं द्विधा कथितमस्ति । काष्ठखण्डस्याग्रभागे अश्वकेशेन बद्धां अन्येन जनेन भ्राम्यमाणां वराटिकाम् यदा वेध्यते अयमेकः प्रकारः काष्ठभेदस्य उच्यते । येन च धन्विना अयं वेधः साध्यते सः धनुर्धरः उच्यते । यथा वर्णितम् शास्त्रे –

काष्ठे अश्वकेशं संयम्य तत्र बध्वा वराटिकाम् ।

हस्तेन भ्राम्यमाणं च यो हन्ति सो धनुर्धरः ॥[4]

 

अपरमपि एकं काष्ठभेदनं कथ्यते, यस्मिन् लक्ष्यस्थाने गोपुच्छाकृतिम् आर्द्रकाष्ठं संस्थाप्य क्षुरप्रेण इषुणा कृतः तस्य वेधः काष्ठभेदनाम्ना ज्ञायते, तथा सः धन्वी ‘काष्ठभेदी’ उच्यते ।

 

लक्ष्यस्थाने न्यसेत्काष्ठं सार्द्रं गोपुच्छसन्निभम् ।

यश्छिन्द्यात्तत् क्षुरप्रेण ‘काष्ठभेदी’ स जायते ॥[5]

 

४. बिन्दुकम्  –      

लक्ष्यस्थाने बन्धूकपुष्पसदृशं शुभ्रं बिन्दुं संस्थाप्य तं बिन्दुं यः वेधयति सः ‘चित्रयोधा’ उच्यते, तदा तद् वेधनमुच्यते ‘बिन्दुकम्’ ।

 

लक्ष्ये बिन्दुं न्यसेच्छुभ्रं शुभ्रबन्धूकपुष्पवत् ।

हन्ति तं बिन्दुकं यस्तु चित्रयोधा स उच्यते ॥[6]

 

५. गोलकयुग्मम्      –

यदा कोऽपि जनः दूरे समीपे वा भूत्वा काष्ठयुग्मं आकाशे क्षेपयति, तदा धन्वी द्वाभ्यां शीघ्रसन्धायिताभ्यां बाणाभ्यां तयोः क्षिप्तयोः काष्ठयोः वेधः करोति, अथवा एकेनैव गोपुच्छबाणेन उभयोः वेधनं करोति, तदा उच्यते ‘गोलकयुग्मम्’ चित्रवेधः । एषः चित्रवेधकः सर्वैः पार्थिवैः पूजनीयः भवति, इत्युक्तम् शास्त्रे ।

काष्ठगोलयुग्मं क्षिप्रं दूरमूर्ध्वं पुरा स्थितैः ।

असम्प्राप्तं शरं पृष्ठे तद्गोपुच्छमुखेन हि ॥

यो हन्ति शरयुग्मेन शीघ्रसन्धानयोगतः ।

स स्याद्धनुर्भृतां श्रेष्ठः पूजितः सर्वपार्थिवैः ॥[7]

 

एतेषां विधीनामतिरिक्तं मानसोल्लासे अन्येऽपि विधयः वर्णिताः सन्ति । एते विधयः वशिष्ठधनुर्वेदे वर्णितेभ्यः विधिभ्यः भिन्नाः अधोकविचित्राश्च सन्ति । एतेषां विस्तृतं वर्णनम् इत्थम् अस्ति –

 

१. राधावेधः  –

राधावेधस्य प्रयोगः द्रौपदीस्वयंवरे कृतम् आसीत् । द्रौपद्याः राधा अपि संज्ञा महाभारते उक्ता अस्ति । अतः संभवतः तस्माद् कारणादयं ‘राधावेधः’ इति नाम्ना प्रसिद्धोऽभवत् । वेधेऽस्मिन् एकस्मिन् स्तम्भे भ्रमितं चक्रयन्त्रं स्थाप्य तस्मिन् चक्रे च मत्स्यं संयोज्यते । अस्य अधः भूमौ स्थापिते जलपात्रे दृष्ट्वा मत्स्याक्षवेधनं करणीयं भवति । अयं वेधः राधावेध उच्यते । अर्जुनेन एनं वेधं वेधयित्वा द्रौपद्याः पाणिग्रहणं कृतम् ।

स्तम्भस्योपरि विन्यस्तचक्रयन्त्रे सुकीलितम् ।

वायुप्रेरितपत्रैस्तु भ्राम्यमाणं द्रुतं झषम् ॥

पात्रमध्ये स्थिते तोये वीक्ष्य विध्यन् विलोचने ।

प्रत्यालीढस्थितो राजा राधावेधं प्रदर्शयेत् ॥[8]

 

२. खर्जूरीवेधः

खर्जूरीवेधे काष्ठस्य एकं वृक्षनिर्माणं क्रियते । अस्य वृक्षस्य आकृतिः खर्जूरी सदृशी भवति ।

खर्जूरीवत् काष्ठस्य तरुं निर्माय तस्य काष्ठवृक्षस्य वेधनं नाराचैः एवं क्रियते येन बाणैः तस्य खर्जूरस्य पत्राणां फलानाञ्च प्रतीतिः भवेत् । अयमुच्यते खर्जूरीवेधः, यस्य प्रदर्शनं राज्ञा प्रेयसीनां समक्षे क्रियते ।

खर्जूरी सदृशकारं कृत्वा दारुमयं तरुम् ।

नाराचैः शतशो विध्येत् स्थाने कण्टकपत्रयोः ॥[9]

 

३. पत्रवेधः / पत्रच्छेदः –

कमपि शूद्रं सम्मुखीकृत्य तस्य वक्षभागे स्थापितं पत्रं राजा बाणेन एव उत्थापयेद्, एषः वेधः पत्रवेध उच्यते । अनेन पत्रवेधेन तस्मिन् काले शूद्राणां स्थितिरपि स्पष्टा भवति । एतेषां राज्ञानां कृते शूद्राः कथं क्रीडनकसदृशा आसन्, इत्यस्यास्ति निदर्शनोऽयं वेधः ।

वृषलं सम्मुखं कृत्वा पत्रं वक्षसि विन्यसेद् ।

तदेव तिर्यग्मोक्षणेन बाणपुङ्खेन धारयेत् ॥

पत्रच्छेदमिदं चित्रं चित्तभ्रान्तिकरं नृणाम् ।

रसं विस्मयमातन्वन् दर्शयेद् वेधमुत्तमम् ॥[10]

 

४. यमलार्जुनवेधः    –

सकृदेव सन्धिताभ्यां बाणाभ्यां लक्ष्ययुग्मकम् यदा वेधयेत् सः वेधः उच्यते यमलार्जुनवेधः । द्वयाणां लक्ष्याणाम् सकृदेव वेधकारणाद् अयं यमलवेध उच्यते ।

एकसन्धान युक्ताभ्यां बाणाभ्यां लक्ष्ययुग्मकम् ।

विध्यन् प्रदर्शयेच्चित्रं यमलार्जुनसंज्ञकम् ॥[11]

५. विकटार्जुनवेधः    –

सकृदैव मुञ्चिताभ्यां बाणाभ्यां उपरिस्थितस्य तथा अधः स्थितस्य च लक्ष्यस्य वेधनं विकटार्जुनवेधः उच्यते । अस्मिन् वेधे उभाभ्यां लक्ष्याभ्यां वेधः एकदैव सन्धारिताभ्यां बाणाभ्यां भवति, न तु पृथक् –पृथक् ।

अत ऊर्ध्वं स्थितं लक्ष्यमेकमोक्षणयोः बाणयोः ।

विकटार्जुनकं चित्रं नृपो विध्यन् विनोदयेत् ॥ [12]

 

६. अर्धचन्द्राह्वय वेधः       –

अंगुष्ठेन तथा तर्जन्या गृहीतं चतुरङ्गुलपरिमाणात्मकं तृणं राजा एवं वेधयति येन हस्ते, अङ्गुल्याम्, अङ्गुष्ठे वा आघातः न भवति, अपितु तृणच्छेदनमात्रं भवति । इत्युच्यते अर्धचन्द्राह्वयवेधः । अस्य वेधनस्य प्रदर्श्नं राजा सभासदां समक्षे कुर्याद् इति निर्देशः ।

अर्धचन्द्राकृती कृत्वा तर्जन्यङ्गुष्टकौ ततः ।

तृणकाण्डं तयोरग्रे धारितं चतुरङ्गुलम् ॥

अङ्गुल्यनुपपातेन तद् विध्यन् पृथिवीपतिः ।

अर्धचन्द्राह्वयं चित्रं दर्शयेच्च सभासदाम् ॥[13]

 

७.  मालाविद्याधरः वेधः     –

एकस्य बाणस्याग्रे अन्यमेकं बाणं संयुज्य, उभाभ्यां बाणाभ्यां दूरे स्थितं, समीपे च स्थितं लक्ष्यं राजा वेधयति । इति मालाविद्याधर उच्यते । वेधोऽयं दुःसाध्यः यतोहि उभयोः इषवोः लक्ष्यमेकमेव भवति, तथा बाणस्य आकारे द्विगुणतापि सञ्जायते येन धनुषि स्थापनं दुष्करं भवति ।

सन्धतः सायकस्त्वेको द्वितीयः सम्मुखः स्थितः ।

द्वावेतौ मोक्षेण पुरः पश्चाच्च गच्छतः ॥

पूर्वापरस्थितं लक्ष्यं प्रविध्यन्नवनिपतिः ।

मालाविद्याधरं चित्रं दर्शयेच्चत्रवेष्टितम् ॥[14]

 

शब्दवेधित्वम्      –

        शब्दवेधः यद्यपि पृथक्तया धनुश्शास्त्रे वर्णितमस्ति, तथापि अस्य स्वरूपेण अयमपि चित्रवेधः इति वक्तुं शक्यते । अस्मिन् वेधे न लक्ष्यं दृश्यते अपितु ध्वनिमात्रं धन्विना श्रूयते । ध्वनिना एव लक्ष्यं चिन्तयित्वा वेध्यते । शब्दवेधस्योदाहरणन्तु रामायणे श्रवणवधप्रसंगे वर्णितमस्ति यत्र राज्ञा दशरथेन श्रवणः जलभरणकाले घटकृतशब्दं बालहस्तिनः अनुमान्य हतः । अनेनैव निर्दोषवधेन दशरथस्य पुत्रवियोगमरणं श्रवणपित्रा शापितम् । अस्य शब्दवेधस्याभ्यासः धनुश्शास्त्रे इत्थं वर्णितमस्ति     –

यत्रलक्ष्यं स्थापितं भवति तस्माद् हस्तद्वयान्तरे कांस्यपात्रं स्थापयेद्, तत्रैव स्थित्वा अन्यः जनः तं कांस्यपात्रं लक्ष्यीकृत्य शर्करादिभिः ताडयेत् । तेन ताडनेन यः शब्दः जायते, तं श्रुत्वा धन्वी तत्रैव स्वचित्तं स्थापयेद् । कर्णेन्द्रियस्य तथा मनसः योगं कृत्वा लक्ष्यानुमानं कुर्यात् तथा शरेण लक्ष्यं वेधयेत् । अनयैव विधिना वारं वारम् अभ्यासं कृत्वा शब्दवेधस्य सिद्धिर्जायते । यदा हस्तद्वयानतरे स्थितेन काँस्यपात्रेण लक्ष्यानुमानं निश्चितं भवेत् तदा ततः दूरे-दूरे लक्ष्यं संस्थाप्य अभ्यासं कुर्यात् । अनेनाभ्यासेन शब्दवेधं सिध्यते ।

 

लक्ष्यस्थाने न्यसेत् कांस्यपात्रं हस्तद्वयान्तरे ।

ताडयेच्छर्करादिभिस्तच्छब्दः सञ्जायते यदा ॥

यत्र चैवोद्यते शब्दस्तं सम्यक् तत्र चिन्तयेत् ।

कर्णेन्द्रियमनोयोगाल्लक्ष्यं निश्चीयतां नयेत् ॥

पुनः शर्करया तच्च ताडयेच्छब्दहेतवे ।

पुनर्निश्चीयतां नेयं शब्दस्थानानुसारतः ॥[15]

 

उपसंहारः   –      

सामान्यतया दर्शनेन प्रतीयते यत् चित्रवेधानामुद्देश्यं मनोरञ्जनमात्रमेवास्ति । किन्तु एतेषाम् केचन विशेषप्रभावा अपि भवन्ति ।

१. एभिः बालकानां शस्त्राभ्यासे रूचिरेधते । यतोहि पुनः पुनः एकेनेव लक्ष्याभ्यासेन अभ्यासकार्ये रुचिः समाप्यते । एतादृशैः लक्ष्याभ्यासैः अभ्यासकार्ये रमणीयता जायते ।

२. एभिः धनुश्शास्त्रस्य लोकरूपता सिध्यते । शास्त्रस्य परमं प्रमाणं लोकमेव, लोकानुरूपतया च शास्त्रस्य दीर्घसूत्रता सिध्यते । एतादृशैः चित्रवेधैः धनुश्शास्त्रं लोकप्रचलितं भवति ।

३. चित्रवेधानाम् आधुनिकसमयेऽपि प्रासंगिकता दृश्यत एव । एभिः प्रतियोगितादय आयोक्तुं शक्यन्ते । एतासु प्रतियोगितासु प्रतिभागिनः स्व-स्व चित्रवेधकौशलं प्रदर्श्य सम्मानं पुरस्कारञ्च प्राप्तुं शक्नुवन्ति ।

उपसंहारे कथयितुं शक्यते यत् आधुनिकसंस्कृतशोधक्षेत्रे धनुश्शास्त्रस्य स्थानं नगण्यमेव दृश्यते । अतः भारतस्य प्राचीना तथा समृद्धा एषा परम्परा विलुप्तिं गच्छति । मूलग्रन्थानां प्राप्तिर्तु नैव भवति, यदुपलभ्यते तस्यापि पठनं पाठनं नैव भवति । शास्त्रस्यास्य ग्रहणं यदि आधुनिक संस्कृतशिक्षणे भवेत् तदैवास्य महत्त्वं, वार्तमानिकं च उपयोगं जनानां  समक्षे आगच्छेत् ।

 

इति

[1] प्. ८५

[2] वशिष्ठधनुर्वेदसंहिता २/५३. संपा. शास्त्री, द्वारकाप्रसाद. पृ. ३३.

[3] तत्रैव, २/५४

[4] वशिष्ठधनुर्वेदसंहिता २/५५. संपा. शास्त्री, द्वारकाप्रसाद. पृ. ३३

[5] तत्रैव, २/५६.

[6] वशिष्ठधनुर्वेदसंहिता २/५७. संपा. शास्त्री, द्वारकाप्रसाद. पृ. ३४

[7] तत्रैव, २/५८-५९.

[8] धनुर्वेदः, आचार्य, देवव्रत, पृ. ८४.

[9] तत्रैव, पृ.८६.

[10] तत्रैव.

[11] तत्रैव.

[12] तत्रैव.

[13] तत्रैव.

[14] तत्रैव

[15] वशिष्ठधनुर्वेदसंहिता, २/६५-६६-६७. संपा. शास्त्री, द्वारकाप्रसाद. पृ. ३५-३६.

Please rate this Research Paper

Leave a Reply