पाणिनीयशास्त्रे भाषिकप्रवृत्तय 5/5 (2)

0
49 views

 

आनन्दकुमारः

विद्यावारिधिशोधच्छात्रः

विशिष्टसंस्कृताध्यनकेन्द्रम्

जवाहलालनेहरुविश्वविद्यालयः

a.khandade@gmail.com

 

व्याकरणं नाम शब्दानुशासनम्। तच्च लोके वेदे च प्रयुज्यमानशब्दानां प्रकृतिप्रत्ययात्मकोपदेशपरं शास्त्रम्। अस्य शास्त्रस्य महनीयता माधवीयधातुवृत्तौ दर्शिता—

व्याकरणात् पदसिद्धि: पदसिद्धेरर्थनिर्णयो भवति।

अर्थात्तत्वज्ञानं तत्त्वज्ञानात् परं श्रेय:॥[1]

महाभारतेऽपि व्याकरणमहनीयता गीयते-

सर्वार्थानां व्याकरणाद् वैयाकरण उच्यते।

तन्मूलतो व्याकरणं व्याकरोतीति तत्तथा॥[2]

भर्तृहरिरप्युक्तार्थमेव पोषयति। अत एवोक्तं तेन वाक्यपदीये-

अर्थप्रवृत्तितत्त्वानां शब्दा एव निबन्धनम्।

तत्त्वावबोध: शब्दानां नास्ति व्याकरणादृते॥[3]

भर्तृहरिर्व्याकरणं मोक्षदायकशास्त्रमपि मन्यते। अत एवोक्तं तेन वाक्यपदीये—

इदमाद्यं पदस्थानं सिद्धिसोपानपर्वणाम्।

इयं सा मोक्षमाणानामजिह्मा राजपद्धति:॥[4]

जगति सर्व एव नि:श्रेयसमिच्छन्ति। नि:श्रेयसाधिगमस्तत्त्वज्ञानाद् भवति। तत्त्वज्ञानं पदपदार्थज्ञानाधीनम्, पदपदार्थज्ञानं च लाघवेन शब्दानुशासनाधीनम्। अतो लाघवेन शब्दानां शब्दार्थानां च बोधाय व्याकरणाध्ययनमावश्यकम्।

पाणिनीयाऽष्टाध्यायी

पाणिनेः अष्टाध्यायी संस्कृतवैयाकरणानां मार्गदर्शिका। अस्याः विधानानां अनन्यथाभावात् लाघवात् उपायेषु कौशलाच्च इयं सर्वानपि त्रिकालोद्भवान् वैय्याकरणान् अतिशेते। उपलब्धभाषिकोपाय-सूत्रग्रन्थेषु अयं प्राचीनतमः सूत्रग्रन्थः।

पाणिनेः कालविषये स्थापितेषु मतेषु सामान्यपूर्वं पञ्चमं शतकमिति मतं अधिकस्वीकृतम् अस्ति।

अष्टानध्यायान् बिभ्रदयं ग्रन्थः व्याकरणस्य विभिन्नप्रकरणानि विवृणोति। तत्र च प्रत्यध्यायं चत्वारः पादाः सन्ति सूत्राणि च ३९७८ सन्ति। सूत्रसंख्यामधिकृत्य मतान्तराणि सन्ति। वैदिकाः अपि अष्टाध्याय्याः पाठं कुर्वन्ति तेच ३९९४ सूत्राणि मन्वते। ते हि १४ वर्णसूत्राण्यपि सुत्रेषु गणयन्ति। तेषु इमा उक्तिरस्ति-

त्रीणिसूत्रसहस्राणि ततः नवशतानि च।

चतुर्नवति सूत्राणि पाणिनिः कृतवान् स्वयम्॥

पादेषु सूत्राणां संख्या तत्तत्प्रतिपादितप्रकराणानाम् आवश्यकतामनुसरति। एकस्मिन् पादे न्यूनतमा सूत्रसंख्या ३८ अधिकतमा च २२३ अस्ति।

सपादसप्ताध्यायी त्रिपादी चेति अष्टाध्याय्याः भागद्वयं प्राकृतिकमस्ति। प्रथमभागः सिद्धान्तकाण्डः उच्यते। अपरश्च असिद्धान्तकाण्डः। पाणिनीयाः विधिभागः विधिशेषभागः इत्यपि द्विधा विभजन्ति अष्टाध्यायीम्। तृतीयचतुर्थपञ्चमाध्यायाः विधिभागः अस्ति शिष्टं च शास्त्रम् विधिशेषः। Faddegon नीताः एके विद्वांसः analytical (विवरणात्मकम्/विधायकम्) synthetic (कृत्रिमम्) इति विभजन्ति शास्त्रम्। प्रथमभागः आदिमः पञ्च अध्यायात्मकः अपरश्च शिष्टः।

पाणिनिः स्वीयं शास्त्रं प्रकरणशः न ग्रथयति अपितु अनुवृत्तिः[5] विप्रतिषेधः[6] इति सिद्धान्तेन ग्रथनम् अस्य शास्त्रस्य अद्वितीयः सिद्धान्तः।

अध्यायः सूत्राणां संख्या प्रकरणानि सूत्राणि
प्रथमः ३५१ प्रत्याहाराणि
संज्ञाः अनियन्त्रता(scattered)
परिभाषाः अनियन्त्रिता
अशिष्यप्रकरणम्[7] १/२/५१-१/२/५७
एकशेषप्रकरणम् १/२/६४-१/२/७३
अनुबन्धप्रकरणम्(इत्संज्ञाप्रकरणम्) १/३/२-१/३/९
वाच्यप्रकरणम्-
कर्तृवाच्यम् १/३/१२-१/३/७७
कर्मवाच्यम् १/३/७८-१/३/९३
वाक्य(रचना)(syntax) १/४/२३-१/४/५५
Particals कर्म्मप्रवचनीयम् गतिश्च १/४/५६-१/४/९६
द्वितीयः २६८ समासप्रकरणम् २//१/१-२/२/३८
विभक्तिप्रकरणम् २/३/१-२/३/७३
समासानां गणनायाः लिङ्गविधानम् २/४/१-२/४/३१
क्रिया(प्रत्यय)विधानम्(verb morphology) २/४/३५-२/४/५७
वर्णलोपप्रकरणम्(elision) २/२/५८-२/४/८४
तृतीयः ६३१ सनाद्यन्ताः (secondary verbal roots) 3/1/5-3/1/32
विकरणप्रकरणम् ३/१/३३-३/१/९०
प्राथमिक-प्रत्यविधानानि-
१.    कालिकप्रत्त्ययानि प्रेरणाश्च (tenses and moods) अनियन्त्रितानि
२.    नामधातुप्रकरणम् (gerundive) ३/१/९१-३/१/१३२
३.    तृजादिप्रत्ययाः ३/१/१३३-३/४/७६
क्रियागत विकाराः (verbal inflection) ३/४/७७-३/४/११७
चतुर्थपञ्चमौ ६३५+५५५ सुपः (विभक्तयः) ४/१/२
स्त्रीप्रत्ययाः ४/१/३-४/१/८१
तद्धितप्रत्ययाः समासान्ताश्च (secondary derivatives) ४/१/७६-५/४/१६०
षष्ठः ७३६ ध्वनिसम्बन्धीनि विधानानि(general phonological process) स्वराणां(vocalic) सन्धयश्च ६/१/१-६/१/१५७
स्वरविधानानि/बलाघाताः (accentuation) ६/१/१५८-६/२/१९९
समासान्तप्रत्ययाः, विभक्तीनाम् अलोपप्रकरणम्, पुंवद्भावः[8] ६/३
सप्तमः ४३८ प्रत्ययेषु परिवर्तनानि (अङ्गाधिकारः) ७/१-७/४
वृद्धिप्रकरणम् ७/२/१-७/२/७

७/२/११४-७/३/३५

इडागम ७/२/८-७/२/७८
अष्टमः ३६९ द्वित्त्वप्रकरणम् (reduplication) ८/१/१-८/१/१५
वाक्ये स्वरविधानानि/बलाघाताः (sentence accent) ८/१/८-८/१/७४
असिद्धप्रकरणम्(वाक्यसंयोजनम्, व्यञ्जनसन्धिः) ८/२-८/४

 

 

पाणिनीयव्याकरणस्य वैशिष्ट्यम्

पाणिनीयव्याकरणस्य वैशिष्ट्यं मुख्यरूपेण पञ्चसु भागेषु विभक्तुं शक्यते-

सूत्राणां लघूकरणम्, सूत्राणां विशिष्टो रचनाप्रकार:, भाषावैज्ञानिकता, लोकप्रामाण्यम्, प्रकृतिप्रत्ययविभागकल्पनं चेति।

सूत्राणां लघूकरणम्-

पाणिने: सर्वोत्तमा कृतिरष्टाध्यायी। कृतिरियं सूत्रप्रणाल्यां निर्मिता। अत्रत्यानि सूत्राणि संक्षिप्ततमानि। सूत्राणां लघूकरणे प्रत्याहारसूत्राणाम्, संज्ञापरिभाषाधिकारसूत्राणाम्, गणपाठस्य, अनुबन्धानां च महत्त्वपूर्णं स्थानम्।

पाणिनिना अष्टाध्याय्या आरम्भे चतुर्दश सूत्राणि पठितानि। इमानि सूत्राणि ‘प्रत्याहारसूत्राणि’ इति नाम्ना ख्यातानि। अत्र स्वरा व्यञ्जनानि च वैज्ञानिकक्रमेण विन्यस्तानि। इमानि प्रत्याहारसूत्राणि ‘अण्, अक, अच्, हल् इत्यादीनामनेकासां संज्ञानां विधानं कुर्वन्ति। एता: संज्ञा: स्वीयेन संक्षिप्ततमरूपेण तत्तद्वर्णानां बोधिका भवन्ति। इमा: संक्षिप्तरूपा: संज्ञास्तत्तद्विधिसूत्रेषु प्रयुज्यन्ते, येन विधिसूत्राणां रूपं लघु जायते। यथा- ‘इको यणचि’ इति सूत्रे त्रय: प्रत्याहारा: प्रयुक्ता: सन्ति। अत्र ‘इक्’ इति संज्ञया ‘इ उ ऋ लृ’ इति चतुर्णां वर्णानां बोधो जायते, ‘यण्’ इति संज्ञया ‘य् व् र् ल्’ इति चतुर्णां वर्णानाम्, ‘अच्’ इति संज्ञाया च, ‘अ इ उ ऋ लृ ए ओ ऐ औ’ इति नवानां वर्णानां बोधो जायते। तदेवमत्र तत्तद्वर्णानामुच्चारणं विनैव इगादिसंज्ञाभिस्तेषां बोधो जायते, येन विधिसूत्रं लघुरूपं भवति।

पाणिनीयव्याकरणे संज्ञापरिभाषाविधिनियमातिदेशाधिकाररूपाणि षड्विधसूत्राण्युपलभ्यन्ते। तदुक्तं कैश्चिद् विद्वद्भि:–

संज्ञा च परिभाषा च विधिर्नियम एव च।

अतिदेशोऽधिकारश्च षड्विधं सूत्रमुच्यते॥

सूत्राणामिदं विभाजनं कार्यपरकम्। एतेषु संज्ञापरिभाषाधिकारसूत्राणि सूत्राणां लघूकरणे विशेषसहायकानि।

पाणिनिना स्वव्याकरणे ‘गुण-वृद्धि-लोप-उपसर्ग-गति-निपात-टि-घु’ आदिसंज्ञाविधायकसूत्राणि विन्यस्तानि। एते गुणादिसंज्ञा वर्णविशेषाणां बोधिका भवन्ति विधिसूत्रेषु च प्रयुज्यन्ते, येन विधिसूत्राणां रूपं लघु जायते। यथा- अदेङ् गुण: इति संज्ञासूत्रेण पूर्वम् ‘अ ए ओ’ इति वर्णत्रयस्य गुणसंज्ञा विधीयते, तदनन्तरं चायं गुणशब्द: आद्गुण: इति विधिसूत्रे प्रयुज्यते, येनैकेनैव गुणशब्दप्रयोगेण ‘अ ए ओ’ इति वर्णत्रयस्य बोधो जायते। अत एव संज्ञाशब्दानां शक्तिनियामकत्वमुच्यते।

पाणिनीयव्याकरणे इको गुणवृद्धी, अचश्च, आद्यन्तौ टकितौ इत्यादिपरिभाषासूत्राणि पठितानि सन्ति। एतानि सूत्राणि विधिसूत्रेण सहैकवाक्यतया स्वीयमर्थं बोधयन्ति, येनोच्चारणं विनैव विधिसूत्राणामर्थविशेषो जायते, विधिसूत्रं च लघुरूपं भवति। यथा- इको यणचि इति सूत्रमचि परे इको यणादेशं निर्दिशति। सुधी+उपास्य इत्यत्र यणादेशप्रसङ्गे नात्र ज्ञायते यत् कस्मिन्नचि कस्य इकश्च यणादेशो विधेय:। अत्राचि परेऽनेकेषामिकां दर्शनात्। अत: इको यणचि इति सूत्रे तस्मिन्निति निर्दिष्टे पूर्वस्य इति परिभाषासूत्रमुपस्थितं भवति। तेनास्य सूत्रस्यायमर्थो जायते—‘अचि परेऽव्यवहितपूर्वस्येको यण्भवति’ इति। अत एव सुधी+उपास्य इत्यत्र धकारोत्तरवर्त्तिन ईकारस्यैव यण्भवति। तदेवमत्राव्यवहितपूर्वशब्दोच्चारणं विनापि तदर्थबोधो भवति।

पाणिनीयव्याकरणे पूर्वत्राऽसिद्धम्, कारके, अनभिहिते इत्यादीन्यधिकारसूत्राणि पठितानि सन्ति। यद्यप्यधिकारसूत्राणां स्वस्मिन् न किमपि फलं भवति, तथाप्येतानि प्रकरणविशेषं यावदनुवर्त्तन्ते। येन तत्तत्सूत्रेषु तेषामुच्चारणं विनापि तदर्थबोधो जायते। यथा- कारके इत्यधिकारसूत्रं वर्त्तते। अस्याधिकारक्षेत्रं सम्पूर्णं कारकप्रकरणम्। अत्रापादानादिसंज्ञाविधायकसूत्रेषु कारकशब्दोऽनुवर्त्तते अतस्तत्तत्संज्ञाविधायकसूत्रेषु कारकशब्दपाठं विनापि तदर्थबोधो जायते।

क्रमेणैकत्र पठितो धातूनां प्रातिपदिकानां वा समूहो गणपाठ उच्यते। सूत्राणां लघूकरणे गणपाठस्य महत्त्वपूर्णं स्थानम्। यदा केचन धातव: शब्दा वा स्वरूपेण परस्परं भिन्ना अपि, तेषु कस्मिंचिदपि कार्यविशेषे समानता दृश्यते, तदा लाघवेन तेषां समानरूपकार्यविधानाय पूर्वं गणपाठ विधीयते, तदनन्तरं च गणपाठनिर्दिष्ट: संज्ञाशब्द: विधिसूत्रेषु प्रयुज्यते। येन विधिसूत्रे लाघवं जायते। यथा-

पाणिनिना समस्तधातवो दशसु गणेषु विभक्ता:। अयं गणविभागो धातुभ्यो विकरणप्रत्ययसमानतामभिलक्ष्यैव जात:। पाणिनिना येभ्यो धातुभ्य: समानरूपविकरणप्रत्ययो  दृष्टेस्ते धातवस्तेन पूर्वमेकस्मिन्नेव गणे निर्दिष्टास्तदनन्तरं च तत्तद्विकरणप्रत्ययविधायकसूत्रेषु तत्तद्गणसंज्ञशब्दा निर्दिष्टा:। येन विकरणप्रत्ययविधायकसूत्राणां रूपं लघु जातम्। यथा- दीव्यति, नृत्यति, दीयते इत्यत्र सर्वत्र ‘दिव्, नृत्, दीड्’ इति धातुभ्य: श्यन्रूपविकरणप्रत्ययो दृश्यते। अत: पाणिनिना पूर्वं ‘दिव्, नृत्, दीङ्’ इति धातव इति पठितास्तेषां च दिवादिसंज्ञा कृता, तदनन्तरं च दिवादिसंज्ञाशब्द: श्यन्विकरणप्रत्ययविधायके दिवादिभ्य: श्यन् इति सूत्रे निर्दिष्टे। येन दिवादिगणपठितसमस्तधातुभ्य: श्यन्-प्रत्ययो जायते।

पाणिनिना स्वव्याकरणेऽनेके प्रातिपदिकगणा: पठिता:। यथा- सर्वादिगण:, स्वरादिगण:, चादिगणश्च। तत्र पाणिनिना सर्वादिगणे त एव शब्दा: पठिता:, येषां कासाञ्चिद् विभक्तीनां स्थाने समानरूपं सर्वनामकार्यं जायते। सर्वादिशब्दानां ‘जस् ङे ङसि ङि’ इति विभक्तीनां स्थाने क्रमश: ‘शी स्मै स्मात् स्मिन्’ इत्यादिकं शब्दसमूहं क्रमेणैकत्र पठति, तस्य च सर्वनामसंज्ञां करोति,तदनन्तरं च ‘सर्वनाम’ इति संज्ञाशब्दं सर्वनाम्न: स्मै इत्यादिविधिसूत्रेषु प्रयुङ्क्ते। अत्र पठितेन ‘सर्वनाम’ इति शब्देन सर्वादिगणपठिता: सर्वे शब्दा ज्ञायन्ते।

सूत्राणां लघूकरणाय पाणिनिना धातव: प्रत्ययाश्च सानुबन्धा: पठिता:। अनुबन्धा इत्संज्ञका: भवन्ति, इत्संज्ञकैरनुबन्धैश्चात्मनेपदपरस्मैपद- इडागम-गुण-वृद्धि-सम्प्रसारणादीनि विविधकार्याणि जायन्ते। पाणिनिरनुबन्धकार्यविधायकसूत्रेषु धातुप्रत्यययोर्निदेशं विनैव अनुबन्धस्वरूपमेव निर्दिशति। येनानुबन्धप्रयुक्तकार्यविधायकसूत्रं लघु जायते। यथा- एधादय: षट्त्रिंशद् धातवो धातुपाठेऽनुदात्तेद्रूपेण पठिता लभ्यन्ते। अत: पाणिन: अनुदात्तङित आत्मनेपदम् इत्यत्रानुदात्तेद्धातूनामात्मनेपदसंज्ञाविधानार्थम् ‘अनुदात्तेद्’ इति शब्दमेव पठति। तेन सर्वेषामेवानुदात्तेद्धातूनां बोधो जायते।

पाणिनीयसूत्राणां लघुतां वीक्ष्यैव वैयाकरणेष्वियमुक्ति: प्राचलत्- ‘अर्धमात्रालाघवेन पुत्रोत्सवं मन्यन्ते वैयाकरणा:’ इति। तदुक्तमष्टाध्याय्याम्- सूत्रं प्रतिष्णातम् (८.३.९०) इति। पाणिनेरुक्तविधं सूत्रकौशलं वीक्ष्य वैयाकरणेष्विदं सूत्रलक्षणं प्राचलत्-

अल्पाक्षरमसन्दिग्धं सारवद् विश्वतो मुखम्।

अस्तोभनवद्यं च सूत्रं सूत्रविदो विदु:॥

अस्य सारगर्भितसूत्राण्यवलोक्य भगवान् पतञ्जलि: प्रावोचत्- प्रमाणभूत आचार्यो दर्भपवित्रपाणि: शुचाववकाशे प्राङ्मुख उपविश्य महता प्रयत्नेन सूत्राणि प्रणयति स्म, तत्राशक्यं वर्णेनाप्यनर्थकेन भवितुम्, किं पुनरियता सूत्रेण[9] इति। अत एव काशिकाकारो मुक्तकण्ठेन तं प्राशंसत्- महती सूक्ष्मेक्षिका वर्त्तते सूत्रकारस्य’[10] इति।

सूत्राणां विशिष्टो रचनाप्रकार:-

पाणिने: षड्विधसूत्रेषु विधिसूत्रं प्रधानम्। विधिसूत्रं त्रिविधम्- उत्सर्गविधि:, अपवादविधि:, निपातनविधिश्चेति। तत्र सामान्येनोत्सर्गविधिर्भवति, विशेषेण चापवाद:। निपातनं तु रूढ्यर्थे भवति। कर्मण्यन्(३.२.१), आतोऽनुपसर्गे क:(३.२.३, अवद्यपण्यवर्या गर्ह्यपणितव्यानिरोधेषु(३.१.१०१) इति सूत्राण्युक्तार्थे प्रमाणभूतानि। अनया रीत्या महतोऽपि महान् शब्दराशिरनायासेनावगन्तुं शक्यते। निपातनविधिविषयेऽनेकभ्रान्तधारणा विद्यन्ते। अतोऽत्र तत्स्वरूपस्य प्रयोजनस्य च निरूपणं प्रस्तूयते।

निपातनविधे: स्वरूपम्

आचार्याणां विशिष्टशब्दप्रयोगो निपातनपदवाच्यो भवति। सूत्रेणानुपन्नोऽप्याचार्येण सूत्रादिषु व्यवह्रियमाणशब्दो निपातनात् भवति। तदुक्तं काशिकायाम्- ‘यदिह लक्षणेनानुपन्नं निपातनम्’ निपातनं च रूढ्यर्थमपि’[11] बाधकान्येव हि निपातनानि भवन्ति[12] निपातनस्य सर्वापवादत्वम्’ इत्यादिवचनानि निपातनविधिविषये व्याकरणनये प्रसिद्धानि जातानि।

निपातनविधे: कार्याणि

निपातनात् त्रिविधकार्यं सम्पद्यते- अप्राप्ते: प्रापणम्,प्राप्तेर्वारणम्, अधिकार्थविवक्षा च। अत एवोक्तं केनचिद् विदुषा-

अप्राप्ते: प्रापणं चापि प्राप्तेर्वारणमेव वा।

अधिकार्थविवक्षा च त्रयमेतन्निपातनम्॥[13]

कदाचिद् विकल्पार्थेऽपि निपातनं भवति। अत एवोक्तं काशिकायाम्- ‘विकल्पार्थं निपातनम्’[14] इति। अस्य संक्षिप्तविवरणमुपरिष्टात् प्रस्तूयते-

पाणिनेरनुसारेण अतिपूर्वकात् शीङ्धातोर्ल्युटि ‘अतिशयनम्’ इति रूपेण भाव्यम्, परञ्च अतिशायने तमबिष्ठनौ (५.३.५५) इति सूत्रे तेन स्वयमेव ‘अतिशयनम्’ इति शब्दस्थाने’अतिशायनम्’ इति शब्द: प्रयुक्त:। अत एवात्र ‘अतिशायनम्’ इति शब्दो निपातनाद् दीर्घत्वेन साध्यते। अत्र प्रमाणं भाष्यकारादीनामिदं वचनमेव- ‘देश्या: सूत्रनिबन्धा: क्रियन्ते, अतिशयनमतिशायनम्,प्रकर्ष:, निपातनाद् दीर्घ:’[15]इति। अत्र केनापि सूत्रेणाप्राप्तौ दीर्घो निपातनाद् विधीयते।

निपातनं शब्दनियामकमर्थनियामकञ्चोभयमेव भवति। ‘अवद्यम्’ इति पदम् अवद्यपण्यवर्या गर्ह्यपणितव्यानिरोधेषु इति सूत्रेण निपातितं भवति। अत्र वद: सुपि क्यप् च (३.१.१०६) इति सूत्रेण यत्-क्यपोरुभयोरेव प्राप्तयोर्निपातनात् यदेव भवति, सोऽपि गर्हायामेव। तदुक्तं दीक्षितेन-‘वदेर्नञ्युपपदे: वद: सुपीति यत्-क्यपो: प्राप्तयोर्यदेव, सोऽपि गर्हायामेवेत्युभयार्थं निपातनम्’[16] इति।

यत्र प्रत्ययानुसारेण निपातितशब्दार्थो न घटते, तत्र निपातनबलेन तदर्थाभ्युपगमो भवति। यथा- अध्यारूढशब्दात् अधिकम् (५.२.७३) इति सूत्रेण निपातनात् कानि उत्तरपदलोपे च ‘अधिकम्’ इति शब्दो निष्पद्यते। अध्यारूढशब्द: कर्तु: कर्मणो वा वाचक:। अतस्तत्स्थाने निपातित्नोऽधिकशब्दोऽपि तदर्थक एव। स चार्थ: ‘अधिको द्रोण: खार्याम्, अधिका खारी द्रोणेन’ इत्यादि- प्रयोगेषु परिलक्ष्यते। अयमर्थावगमोऽपि विषयभेदे भवति न तु समानार्थे। यदि पुनरधिशब्दात् ससाधनक्रियावचनात् कन्-निपात्यते, तदा कर्तृकर्मणोरन्यतरस्यैवाभिधानं प्राप्नोति। अध्यारूढशब्दस्तूभयार्थ इति तस्यैवेदमङ्गीकृतसाधनभेदं निपातनमुचितम्। तदुक्तं कैयटेन- लौकिक प्रयोगे अधिकशब्देन विषयभेदेन कर्तृकर्मणोरभिधानदर्शनादनङ्गीकृतसाधनभेदमध्यारूढस्येदं निपातनं, स चोभयार्थ इति न कश्चिद् दोषावसर:’[17]इति। तदेवमत्र निपातनबलेनार्थद्वयस्यावगमो भवति- कर्तु: कर्मणश्च ‘व्युत्पादनमात्रमिदम्, शुद्धरूढ एवायमिति बोध्यम्’[18] इति वासुदेवदीक्षितवचनम् ‘अधिकम्’ इति शब्दस्य शुद्धरूढतां दर्शयति।

निपातनविधे: प्रयोजनम्

निपातनाद् विभिन्नकार्याणां सम्पादनं भवति। तदुक्तं प्रदीपे- ‘अनेकप्रयोजनसम्पत्तिर्निपातनाद् भवति’[19] इति। निपातनात् शब्दनिष्पत्तौ सूत्रीयशब्देषु च लाघवं जायते। ‘समाने अहनि’ इत्यर्थे सद्य: परुत्. इति सूत्रेण निपातनात् समानस्य सभावो द्यश्च प्रत्ययो भवति।[20] निपातनाभावे तु समानस्य सभावो द्यश्चाहनि इति सूत्रनिर्देश आवश्यक:। निपातनादल्पप्रयत्नेनाप्यधिकार्थलाभो भवतीति ‘अधिकम्’ इति शब्दनिपातने दर्शितमेव।

विधिनिपातनयोर्भेद:

विधिसूत्रेषु प्रकृतिप्रत्ययादीनां निर्देशो भवति, निपातनेषु च सिद्धशब्दानाम्। तदुक्तं प्रदीपे- ‘विधिनिपातनयोश्चायं श्रूयतेऽवयवाश्चानुमीयन्ते तन्निपातनम्’[21]इति। यद्यपि निपातितशब्दा अपि प्रकृतिप्रत्ययात्मका भवन्ति, तथापि न ज्ञायते तत्र कियानंश: प्रकृते: कियांश्च प्रत्ययस्य। अत एवोक्तं भाष्ये-‘इमे विंशत्यादय: सप्रकृतिका: सप्रत्ययाश्च निपात्यन्ते, तत्र न ज्ञायते, का प्रकृति:, क: प्रत्यय:, क: प्रत्ययार्थ इति। तत्र वक्तव्यमियं प्रकृतिरियं प्रत्ययोऽयं प्रत्ययार्थ इति’[22]इति। अत एव विंशतिशब्दस्य प्रकृतिप्रत्ययविषये सन्देहेऽपि वैयाकरणा द्वौ दशतौ परिमाणमस्येत्यर्थे निपातनाद् द्वयोर्दशतोर्विन्भावं स्वार्थे शतिच्-प्रत्ययं च विधाय तस्यान्वाख्यानं प्रदर्शयन्ति।

 भाषावैज्ञानिकता

पाणिनीयव्याकरणे या भाषावैज्ञानिकता दृश्यते तत्र प्राक्पाणिनीयग्रन्थानां महत्त्वपूर्णं योगदानम्। अत एवात्र तद्योगदनपूर्वकमेव पाणिनीयव्याकरणस्य भाषावैज्ञानिकता प्रस्तूयते।

जगति भाषाविश्लेषणं सर्वप्रथमं संस्कृतभाषायामेव जातम्। अत्रानेकवैदिकमन्त्रेषु शब्दव्युत्पत्तिर्लभ्यते। अत्र शब्दस्य प्रकृतेस्तदर्थस्य च सकारणं निर्देशो लभ्यते। ‘यज्ञेन यज्ञमयजन्त देवा:’[23],धान्यमसि धिनुहि देवान्[24], येन देवा: पवित्रेणात्मानं पुनते सदा,’[25] तीर्थैस्तरन्ति’[26] इति मन्त्रेषु क्रमशो ‘यज्ञ-धान्य-पवित्र-तीर्थ’ इति शब्दानां व्युत्पत्तय: प्रदर्शिता: सन्ति। आभिर्व्युत्पत्तिभिरिदं ज्ञायते यद् यजनकर्म यज्ञ:, धिवनकर्म धान्यम्, पवनसाधनं पवित्रम्, तरणसाधनं च तीर्थमित्युच्यते। पूजनार्थकयज्-धातोर्यज्ञ:, प्रीणनार्थकधिविधातोर्धान्यम्, पवनार्थकपूञ्धातो: पवित्रम्, तरणार्थकस्तॄधातोस्तीर्थं निष्पद्यते। ‘उदानिषुर्महीरिति तस्मादुदकमुच्यते’[27] इत्यत्र प्रदर्शिता उदकशब्दव्युत्पत्तिर्भाषावैज्ञानिकी।

सर्वप्रथममिन्द्रेण पदं प्रकृतिप्रत्ययोर्विभक्तमिति तैत्तिरीयसंहितया ज्ञायते।[28]

संहितानामनन्तरं ब्राह्मण-ग्रन्थेषु पदार्थबोधाय प्रयासो दृश्यते। अत्र संहिताग्रन्थानां तुलने व्युत्पत्तीनां बाहुल्यं दृश्यते। तत्रापि शतपथं ताण्ड्यं च निर्वचननिधिरूपे। ताण्ड्यब्राह्मणमाज्यशब्दव्युत्पत्तिमाख्यानपूर्वकं प्रदर्शयति- ‘यदाजिमायन् तदाज्यानामाज्यत्वम्’[29] इति।

शाकल्यकृत: पदपाठो भाषावैज्ञानिकाध्ययनस्याधारभूमि:। अत्र संहितापाठ: पदपाठे विभक्तोऽस्ति। अत्र स्वराणां, सन्धे:, समासविच्छेदस्य च नियमानां निर्धारणं जातम्।

भाषाविश्लेषणे प्रातिशाख्यानां विशिष्टं स्थानम्। अत्र प्रतिशाखं वर्णोच्चारणसम्बन्धिनियमानामध्ययनं जातम्। अत्र संस्कृतध्वनीनां वर्गीकरणं प्राञ्जलरूपेण जातं पदानि च ‘नाम-आख्यात-उपसर्ग-निपात’ इति चतुर्षु भागेषु विभक्तानि। प्रातिशाख्यानामनन्तरं निघण्टुनाम्नी रचनोपलभ्यते। रचनेयं रूपविज्ञानस्य प्रथमा कृति:। इमामेव कृतिमाश्रित्य यास्केन निरुक्तं विरचितम्। रचनेयमर्थविज्ञानस्य सर्वोत्तमा कृति:। अत्र निघण्टो: प्रत्येकं शब्दस्य व्युत्पत्तेरर्थस्य चाध्ययनं जातम्।

तदेवं पाणिने: पूर्वमपि भाषाविश्लेषणं जातं, तथापि पाणिनिरेव विश्वस्य सर्वोत्तमभाषावैज्ञानिक:। अत्र प्रमाणं भाषाविज्ञानक्षेत्रे कृतं तत्कार्यमेव। अस्य सर्वोत्तमा कृतिरष्टाध्यायी। रचनेयं ध्वनि-पद-वाक्य-अर्थविज्ञानानां चरमसीमानमञ्चति। अत्र प्रत्याहारसूत्रस्थ:स्वर-व्यञ्जनक्रमो वैज्ञानिक:। अत्र ध्वनीनां वर्गीकरणं स्थानानुरोधेन प्रयत्नानुरोधेन च जातम्। अत्र सन्धिनियमानां व्याजेन ध्वन्यात्मकं विश्लेषणमुपलभ्यते। कार्यमिदं ध्वनिविज्ञानदृष्ट्या महत्त्वपूर्णम्।

कृतिरियं पदविज्ञानमर्थविज्ञानं च विस्तरेण प्रस्तौति। अत्र यथा पदं प्रकृतिप्रत्यययोर्विभक्तं तथैवात्र प्रकृत्यर्थोऽपि दर्शित: प्रत्ययार्थोऽपि च। अत्र वैदिकलौकिकसंस्कृतयोरपि तुलनात्मकं विश्लेषणमुपलभ्यते।

अत्रत्यं कारकप्रकरणं वाक्यविज्ञानस्य श्रेष्ठतमं निदर्शनम्। अत्र वाक्यरचनासम्बन्धिनियमानां वर्णनं जातम्। कारकप्रकरणानुसारेण वाक्ये विभक्तिनिर्देश: शब्दव्यापारानुसारं जातम्। कारकप्रकरणानुसारेण वाक्ये विभक्तिनिर्देश: शब्दव्यापारानुसारं भवति। यदा वाक्ये कर्तु: प्राधान्यं भवति, तदा कर्तरि प्रथमा विभक्तिर्भवति, यदा कर्मण: प्राधान्यं भवति, तदा कर्तरि तृतीया कर्मणि च प्रथमा। ‘बालक: पुस्तकं पठति, बालकेन पुस्तकं पठ्यते’ इति वाक्ययोरयमेव भेद:।

भाषाविज्ञानक्षेत्रे यत्कार्यं योरोपदेशे १९ तम्यां शताब्द्यां जातं तत्कार्यं पाणिनिना ई.पू. ५००-६०० पञ्चम्यां षष्ठ्यां च शताब्द्यां सम्पादितम्। अत एव भूयांसो वैज्ञानिकसिद्धान्ता: संस्कृतभाषां पाणिनीयव्याकरणं चाश्रित्यैव निर्धारिता अभवन्।

लोकप्रामाण्यम्

पाणिनीयव्याकरणानुसारेण शब्दोऽर्थश्च नित्यौ,अनयोश्च ज्ञानं लोकाधीनम्। अत्र प्रमाणं सिद्धे शब्दार्थसम्बन्धे इति कात्यायनीयम् वार्त्तिकम्। भाष्यकारोऽपि शब्दार्थौ नित्याविति मत्वा तयोर्ज्ञानं लोकत एव दर्शयति। अत एवोक्तं तेन भाष्ये- कथं पुनर्ज्ञायते सिद्ध: शब्दोऽर्थ: सम्बन्धश्चेति? लोकत:। यल्लोकेऽर्थमर्थमुपादाय शब्दान् प्रयुञ्जते। नैषां निर्वृत्तौ यत्नं कुर्वन्ति[30] इति। काशिकावृत्तिरपि भाष्योक्तमतं समर्थयते- ‘अन्य इति शास्त्रापेक्ष्या लोको व्यपदिश्यते, शब्दौरर्थाभिधानं स्वाभाविकं, न पारिभाषिकमशक्यत्वात्। लोकत एवार्थावगते:’[31] इति।

तदेवं शब्दज्ञानमर्थज्ञानं च सर्वमेव लोकाधीनम्। शास्त्रं तु केवलं साधुशब्दबोधकं धर्मनियामकं च। तदुक्तं महाभाष्ये-

लोकतोऽर्थप्रयुक्ते शब्दप्रयोगे शास्त्रेण धर्मनियम:’[32] इति। भर्तृहरिरपि भाष्यवचनं द्रढयति- ‘साधुत्वज्ञानविषया सैषा व्याकरणस्मृति:’[33] इति। ‘लक्ष्यपरतन्त्रत्वाल्लक्षणस्य’[34] इति कैय्यटवचनमपि भाष्यार्थं ब्रूते।

प्रकृतिप्रत्ययविभागकल्पनम्

व्याकरणं प्रकृतिप्रत्ययात्मकं प्रकृत्यर्थप्रत्ययार्थात्मकं च भवति। व्याकरणभेदात् क्वचित् प्रकृतिप्रत्यययो: प्रकृत्यर्थप्रत्ययार्थयोश्च भेदोऽपि जायते। अतोऽत्र तद्विवेचनपुरस्सरमेव पाणिनीयं प्रकृतिप्रत्ययविभागकल्पनं प्रस्तूयते।

प्रकृतिप्रत्ययविभागस्याधार: काल्पनिकता च

अनन्तो हि शब्दराशि:। प्रतिपदपाठेन तज्ज्ञानं सर्वथा न सम्भवति।‘बृहस्पतिरिन्द्राय दिव्यं वर्षसहस्त्रं प्रतिपदोक्तानां शब्दानां शब्दपारायणं प्रोवाच नान्तं जगाम’ इति महाभाष्योक्त: प्राचीनसंवाद एवात्र प्रमाणम्। अनन्तशब्दराशिज्ञानाय सर्वोत्तमो लघूपायो व्याकरणम्। अत्रोत्सर्गापवादरूपं लक्षणमाश्रीयते, पदं च प्रकृतिप्रत्यययोर्विभज्यते। किञ्चात्र प्रकृतिप्रत्ययाभ्यां सह तदर्थोऽपि निरूप्यते। तदुक्तं महाभाष्ये-‘लघ्वर्थं चाध्येयं व्याकरणम्, कथं तर्हीमे शब्दा: प्रतिपत्त्वया:? किञ्चित् सामान्यविशेषवल्लक्षणं प्रवर्त्यम्, येनाल्पेन यत्नेन महतो महत: शब्दौघान् प्रतिपद्येरन्’ इति। प्रकृतिप्रत्ययविभागपूर्वकेण शब्दान्वाख्यानेन शब्दार्थबोधे लाघवं जायते। अत्र प्रमाणं नागेशभट्टस्येदं वचनम्- ‘तत्र प्रतिवाक्यं संकेतग्रहासम्भवात्, तदन्वाख्यानस्य लघूपायेनाशक्यत्वाच्च, कल्पनया पदानि विभज्य, पदे प्रकृतिप्रत्ययविभागकल्पनेन कल्पिताभ्यामन्वयव्यतिरेकाभ्यां तत्तदर्थविभागं शास्त्रमात्रविषयं परिकल्पयन्ति स्माचार्या:[35] इति। कुमारिलभट्टोऽपि लक्षणपूर्वकेण प्रकृतिप्रत्यय-विभागेन शब्दार्थज्ञाने लाघवं दर्शयति। अत एवोक्तं तेन तन्त्रवार्तिके-

प्रकृतिप्रत्ययानन्त्याद् यावन्त: पदराशय:।

लक्षणेनानुगम्यते कस्तानध्येतुमर्हति॥[36]

अयं प्रकृतिप्रत्ययविभागस्तदर्थविभागश्च सर्व एव कल्पित: शास्त्रगम्यश्च। अत्र प्रमाणं पूर्वोक्तं नागेशवचनमेव।

प्रकृतिप्रत्ययविभागकल्पने वैयाकरणानां स्वातन्त्र्यम्

प्रकृतिप्रत्ययविभागस्य तदर्थविभागस्य च काल्पनिकत्वात् क्वचिद् व्याकरणभेदात् प्रक्रियाभेदोऽपि भवति। आचार्या: स्वशास्त्रानुरूपं प्रकृतिप्रत्यय-स्वरूपकल्पने तदर्थकल्पने च स्वतन्त्रा भवन्ति। तदुक्तं वाक्यपदीये-

उपादायापि ये हेयास्तानुपायान् प्रचक्षते।

उपायानां च नियमो नावश्यमवतिष्ठते॥[37]

कौण्डभट्टोऽप्यस्मिन् विषये वाक्यपदीयवचनं समर्थयते। तदुक्तं वैयाकरणभूषणसारे-‘उपेयप्रतिपत्त्यर्था उपाया अव्यवस्थिता:’ इति। अस्यान्वाख्यानस्य काल्पनिकत्वेऽपि साधुशब्दज्ञानाय तस्योपयोगिता वर्त्तत एव। अत एवोक्तं भर्तृहरिणा-

उपाया: शिक्षमाणानां बालानामुपलालना:।

असत्ये वर्त्मनि स्थित्वा तत: सत्यं समीहते॥[38]

शब्दानामन्वाख्याअने द्विविधो भेदो भवितुमर्थति- प्रकृतिप्रत्ययस्वरूपविषयक: प्रकृत्यर्थप्रत्ययार्थविषयकश्च। अस्य संक्षिप्तपरिचय उपरिष्टात् प्रस्तूयते-

प्रकृतिप्रत्ययस्वरूपविषयको भेद:

क्वचिद् व्याकरणभेदात् प्रकृतिप्रत्यययो: स्वरूपे भेदोऽपि दृश्यते। यथा-‘अस्ति,स्त:,सन्ति’ इत्यादितिङन्तप्रयोगाणां साधने पाणिनीयव्याकरणमापिशलिव्याकरणं च भिन्नसरणिमेवानुसरत:। तत्र पाणिनीया ‘अस्’ धातोरेतान् प्रायोगान् साधयन्ति, आपिशलीयाश्च ‘स’ धातो:।[39] एक एव रोमशब्द: षड्धातुभ्यो निष्पादयितुं शक्यत इति केषाञ्चिन्मतम्। तदुक्तमुणादिवृतौ-

रुहे रुचेश्च रौतेश्च रुदिरुध्योरुषेरपि।

षण्णामेव च धातूनां रोमशब्दं निपातयेत्॥[40]

पाणिनीयव्याकरणस्य तिङन्तप्रक्रिया लादेशरूपा सारस्वतव्याकरणस्य च तिबादिरूपा। अत्र तिबादिप्रत्ययानामेव लडादिसंज्ञा क्रियते।[41] दुर्गाचार्योऽपि निरुक्तव्याक्यायामुक्तप्रकारकं वैषम्यं दर्शयति।[42]

पाणिनीय यच्छब्दात् वतुप्-प्रत्ययविधानेन ‘यावत्’ इति प्रयोगं साधयन्ति, पूर्वाचार्यास्तु डावतुप्रत्ययेन। तदुक्तं प्रदीपे-‘पूर्वाचार्यास्तु डावतुं विदधिरे’[43] इति।

प्रकृतिप्रत्यययोरयं स्वरूपभेद: क्वचिद् वैचित्र्यमपि लभते। पाणिनीयैर्यस्य शब्दस्य प्रकृति: प्रातिपदिकरूपेण दर्शिता प्रत्ययश्च तद्धितरूपेण, कैश्चित् पूर्वाचार्यैस्तस्यैव शब्दस्य प्रकृतिर्धातुरूपेण दर्शिता प्रत्ययश्च कृदूपेण। पाणिनीया अन्तिकशब्दात्ताद्धितमिष्ठन्-प्रत्ययं प्रकृतेश्च नेदादेशं विधाय नेदिष्ठशब्दं साधयन्ति,पूर्वाचार्यास्तु नेद्-धातो: कृत्संज्ञकमिष्ठन्प्रत्ययं विधाय नेदिष्ठशब्दं निष्पादयन्ति। तदुक्तं क्षीरतरङ्गिण्याम्-‘काल्पनिके हि प्रकृतिप्रत्ययविभागे द्राघिमादय: कस्मिंश्चिद् व्याकरणे धातोरेव साधिता:। एवं नेदिष्ठादयोऽपि नेदित्यादे:’।[44]

प्रकृत्यर्थप्रत्ययार्थविषयको भेद:

क्वचिद् व्याकरणभेदात् प्रकृत्यर्थे प्रत्ययार्थे च भेदोऽपि जायते। कस्यचिन्मतेन संख्या प्रातिपदिकार्थो भवति, कर्मादयश्च प्रत्ययार्था:। केषाञ्चिन्मतेन संख्या प्रत्ययार्थो भवति, कर्मादयश्च प्रातिपदिकार्था:। केषाञ्चिद् वैयाकरणानां मतेन संख्यार्थ: कर्माद्यर्थाश्च प्रातिपदिकार्था एव। तदुक्तं वाक्यपदीयस्य हरिटीकायाम्-

केषाञ्चित् संख्या प्रत्ययेनाभिधीयते कर्मादय: प्रातिपदिकेन। अपरेषां कर्मादय: प्रत्ययेन संख्या तु प्रातिपदिकेन। अपरेषामुभयं प्रातिपदिकेन। क्रियासाधनकालादयोऽपि कैश्चित् कथंचिदभिधीयत्वेन प्रविभक्ता:[45]इति।

पाणिनीयव्याकरणे प्रकृतिप्रत्ययकल्पनम्-

पाणिनीयव्याकरणे प्रत्ययात् पूर्वं प्रयुज्यमान: पदांश: प्रकृतिशब्दवाच्यो भवति। प्रकृते: परश्च प्रयुज्यमान: पदांश: प्रत्ययशब्दवाच्य:। प्रकृते:,परश्च इति सूत्रद्वयमेवात्र प्रमाणम्। प्रकृतिर्द्विदा भवति- नामविभक्तिराख्यातविभक्तिश्च। तत्र नामविभक्ते: कारकं संख्या चेत्यर्थ: प्रतीयते, आख्यातविभक्तेश्च काल:,पुरुष: संख्या चेत्यर्थ:। पाणिनिर्लाघवेन सौकर्येण वा शास्त्रप्रवृत्तये सुव्यक्तमल्पाक्षरं बहुप्रयुक्तं ध्वनिं ध्वनिसमूहं वा प्रायेण प्रकृतित्वेन परिकल्पयति। अत एव तेन अभूत्, भूति:, भूतम् इत्यत्र बहुप्रयुक्त: स्वल्पाक्षरश्च ‘भू’ इति ध्वनि: प्रकृतित्वेन कल्पित:, भवति, भवितव्यम् इत्यत्राल्पप्रयुक्ता बह्वक्षरा ‘भव्’ इति प्रकृतिश्च गुणादिना प्रदर्शिता। प्रत्ययकल्पनेऽपि तेनेयमेव सरणिरनुसृता।

 

[1] मा.,धा.वृ.भूमिका

[2] महा.,उद्यो.४३.६१

[3] वा.,१.१३

[4] वा.,१.१६

[5] १/<१

[6] २/<१

[7]  टेबल में १

[8] ८ टेबल में

[9] म.१.१.१

[10] काशिका ४/२/७४

[11] काशिका ३/१/१२३

[12] सि.कौ.,तत्त्व.,सूत्रां.३८१७,पा.३/१/११४

[13] डा.रामशंकरभट्टाचार्य,पा.व्या.अनु.,पृ.१०३

[14] काशि.,७/२/२७

[15] म.,एवं काशि.,५.३.५५

[16] सि.कौ.,सूत्रां.३७९७

[17] म.,प्र.५/२/७३

[18] सि.कौ.,बाल.सूत्रां.१८७२.पा.५/२.७३

[19] म.,प्र.६/२/२

[20] सि.कौ.,सूत्रां२६७३

[21] म.,प्र.५/१/५९

[22] म.,५/१/५१

[23] ऋ.सं.१/१६४/५०

[24] यजु.१/२०

[25] साम.,२/६५२

[26] अथर्व.,१८/४/७

[27] अथर्व.,३/१३/४

[28] तै.सं.,६/४/७/३

[29] ता.ब्रा.७/२/१

[30] म.,पस्पशा.पृ.३२

[31] काशि.,१/२/५६

[32] म.,पस्पशा.पृ.३३

[33] वा.,१/१४२

[34] म.,प्र.५/१/८०

[35] प.ल.मं.,शक्तिनिरूपणे

[36] तं.वा.,(आनन्दाश्रमसंस्क.)पृ.२७९

[37] वा.,२/३८

[38] वा.,२/२४०

[39] न्या.१/३/२२- ‘अस्तिं सकारमातिष्ठते’ इति सकारमात्रमस्तिं धातुमापिशलिराचार्य: प्रतिजानीते। तथाहि- न तस्य पाणिनेरेव ‘असभुवि इति गणपाठ:, किं तर्हि? स भुवि’ इति स पठति।

[40] उ.वृ.,पृ.१८४,पा.व्या.अनु.नाम्नि ग्रन्थ उद्धृतम्।

[41] भ्वाअ.प्र.

[42] निरु.,दुर्ग.१/१३

[43] म.,प्र.५/२/३९

[44] क्षीर.,१/८०

[45] वा.,हरि.१/२६

Please rate this Research Paper

Leave a Reply