पालिव्याकरणस्य विकासक्रमः 3.33/5 (3)

0
55 views

 

आनन्दकुमारः

विद्यावारिधिशोधच्छात्रः

विशिष्टसंस्कृताध्यनकेन्द्रम्

जवाहलालनेहरुविश्वविद्यालयः

a.khandade@gmail.com

 

पालिभाषायाः प्रसिद्धिः बुद्धवचनानां भाषात्वेन अस्ति।[1] प्राकृतेषु मागधी प्राकृतं इत्यपि अस्या परिचयः क्रियते।[2] भाषाविज्ञानिनः इमां मध्य-भारतीय-आर्यभाषां प्रवदन्ति।[3] अन्ये च वेदकालीना लोकभाषा विकासक्रमे क्रैस्तपूर्वे सप्तमे शतके यद् रूपं प्राप्नोत् तत् रूपविशेषं प्राचीनपालिनाम्ना परिचिन्वन्ति। इयञ्च भाषा भगवता बुद्धेन उपदेशाय प्रयुक्ता आसीत्। अस्याः स्वरूपं अनुपलब्धप्रायमेव स्वीक्रियते। तदुत्तरं राज्ञा अशोकेन शिलालेखेषु लेखापिता भाषा अशोककालीना पालि बुद्धानन्तरं त्रिषु शतकेषु (270 ई.पू.) विकसिताऽभवत्।[4]

पालिति नाम वस्तुतः भगवतः बुद्धस्य वाचः कृते प्रयुक्तमासीत् इत्यपि केषाञ्चन मतिः।[5] तद्वचनानां भाषा मगधदेशे तत्काले भाष्यमाणा काचिद् भाषा स्यात् इति विद्वांसः भावयन्ति। सा च भाषा प्राचीनप्रकृतानां कोशली मागधीप्रभृतीनां संस्कृतस्य च मिश्रणं भवेदिति तेषां मतम्।[6] सिंहलदेशतः प्राप्ते शिलालेखेऽपि अस्य समर्थनमुप्लभ्यते- पाळिमत्तमिधानीतं नत्थि अठ्ठकथा इधा। अत्र पालिशब्दस्योपयोगः मूलस्य उपदेशस्य कृते एव क्रियते अठ्ठकथायाः कृते पालिसंज्ञा न प्रयुज्यते। इदञ्च तथ्यं पालिवैय्याकरणः कात्यायनः अपि एकेन सूत्रेण प्रमाणयति- ततो बुद्धवचनम्हि इत्यनेन। अठ्ठकथायां बुद्धघोषः उपलब्धपाठात् मूलवचनोक्तपाठस्य भेददर्शनाय पालिशब्दं मूलसिंहलपाठस्यार्थे प्रयुनक्ति- महच्चापीति पालि त्यादिना। राहुल सांकृत्यायनस्य मतेन अपि बुद्धवचनानां भाषायाः नाम पालिः न सत् अन्या भाषा अस्ति, पालिशब्दस्तु अन्यार्थक एव।[7]

तथैव पालिभाषा पैशाचीभाषायाः एव परिस्थितीजन्यं रूपविशेषमिति श्रीधर वेंकटेश केतकरप्रभृतयः प्रतिपादयन्ति।[8] बुद्धस्य मातृभाषा पैशाची एव इति भाषाविद् राजकमल वोरा तर्कयति।[9] एषां मतेन पालिभाषा पैशाची भाषायाः विकसिता स्यात्।  जर्मन् विद्वान् विलियम गाईगर पालिभाषां प्राचीनां जनभाषां मनुते।[10] रीस डेविड च तं समर्थयति।[11] कनाई लाल हजारा पालिं भारतीयभाषासु सर्वाधिकविकसितां भाषां प्रतिपादयति।[12] अथ च बुद्धस्य पश्चात् पालिभाषायां कृत्रिमभाषागत वैष्ट्याणामपि समावेशोऽभूत्।[13] यथा हि संस्कृतशास्त्रेष्वपि इदं दृश्यते प्राचीनाचार्या सरलभाषयाः शास्त्राणि कुर्वन्ति स्म अर्वाचीनैश्च जटिला भाषा आश्रिता।[14] तस्य मतेन आधुनिकविद्वद्भिः एत्द्विषये प्रामाणिकः यत्नः अनुष्ठेयः।[15] नार्मनवर्यः पालिभाषायाः विकासं पार्थक्येन विवृणोति। तन्मतेन बुद्धवचनानां संकलनं भिन्नेषु स्थानेषु भिन्नासु च देशकालपरिस्थितिषु भिन्नजनैः सम्पादितमित्यतः अत्र परिस्थितीनां प्रभावेन संस्कृतीकरणं सञ्जातमस्ति।[16]

भिक्खु बोधिनः मतेन पालिभाषा विस्तृते भारतीयपरिवेशे अन्यान्यबौद्धविदुषां प्रभावेण तत्ततद्विवत्सम्बद्ध प्राकृतानां मिश्रणेन क्रैस्तपूर्वे तृतीये शतके स्थितिं प्राप्ता। अत एव इयं भाषा बौद्धचिन्तनस्य भारतीयसंस्कृतेश्च विस्तृतपरीप्रेक्ष्यस्य प्रतिनिधित्वम् आवहति।[17] किन्तु ए. के. वार्डर, अकीरा हिरकावाप्रभृतयः पालि भाषायाः भुवं मध्यपूर्वभारतं, मध्यभारतं च निर्दिशन्ति। मध्यपूर्वभारते अवन्तिजनपदे स्थविरनिकायस्य स्थितिरवर्तत, तेषां स्थानीयप्राकृते दक्षिणस्थमहासांघिकानां भाषायाः मिश्रणेन पालिभाषायाः निर्मितिर्जाता स्यादिति च तत्र तर्कः।[18] पॉल गॉर्नर इमं तर्कं पश्चिमभारतसन्दर्भेऽपि प्रस्तौति। यतः सौराष्ट्रशिलालेखेन सह असौ त्रिपिटकानां भाषायाः साम्यं पश्यति।[19]

व्युत्पत्तिः- पञ्चधा व्युत्पाद्यते पालिशब्दः।

  • अठ्ठकथायां पालिशब्दः साक्षाद् बुद्धवचनानां कृते एव उपलभ्यते। अतस्तदेव पालिति।
  • त्रिपिटके परियाय इति शब्दः बहूत्र धर्मशब्देन साकं वा स्वतन्त्रोऽपि च पठ्यते- को नाम अर्थ भन्ते धम्म परियायो ति इत्यादिषु। अयं च शद्बः बुद्धवचनार्थः एव। अशोकस्य प्रसिद्धे भाब्रूशिलालेखे पलियाय इति अस्य पाठान्तरं भवति। लेखेऽस्मिन् धर्मराजस्य भिक्षुसंघस्थ भिक्षूणां कृते संबोधितमस्ति यत् हे भिक्षव! बुद्धवचनानाकर्णयथ तेषां च पालनं कुरुथ इति। पालिशब्दोऽत्र पालने रक्षणे वापि अस्ति।
  • भिक्खु सिद्धार्थः इमं शब्दं संस्कृतस्य पाठशब्दाद्व्युत्पादयति। स च क्रमशः पाठ>पाड>पार>पाल>पालि इतिवत् सम्पन्नः। तन्मतेन ब्राह्मणाः पुरा वेदस्य पाठ इत्यर्थे। पाठशब्दं प्रयुञ्जते स्म। ते च माहाशालाः यदा भिक्षुसंघमाच्छन् तदा तै त्रिपिटकमपि पाठ इत्येव संबोधितम्। तस्मादेव पालिति वाक्संज्ञा अभवत्।
  • पं विधुशेखर भट्टाचार्यः पालिं शब्दं पक्तिवाचकं वक्ति। अभिधानप्पदीपिकायां पालिशब्दः बुद्धवचनेऽर्थे उपभ्यते। पालिसाहित्ये अम्बपालि दन्तपालि इत्यदौ च पंक्त्यर्थकः। अतः अयं बुद्धोक्ताः पंक्तयः इत्येनमर्थं बिभर्ति।
  • मैक्स वेलेसर जर्मन् विद्वान् पालिशब्दं पाटलीतिनगरवाचकशब्देन सह अभिसंबध्नाति। पाटलीपुत्रस्य भाषा इत्येनर्थं च साधयति।
  • अन्ये च पल्लि इति ग्रामार्थकाच्छब्दात् पालिशब्दं व्युपाद्य अस्यार्थं ग्रामीणा भाषा इति कल्पयन्ति।
  • तथैव प्राकृतशब्दादपि अस्य व्युत्पत्तिः पाकड>पाअड>पाउड>पाअल>पालि इतिवत् साध्यते।
  • प्रालेयकशद्बात् प्रतिवेशीत्यर्थकात् इत्यपरे वदन्ति।

एषा मतसन्ततिः पालिभाषामधिकृत्य आधारभूतसूचनाः प्रस्तौति। अनया भाषया सह सम्बद्धानि भिनानि तथ्यानि अस्या चरित्रगताः विशेषताः पुरस्कुर्वन्ति।

देशकालौ विकासक्रमश्च- भगवतः बुद्धस्य मागधिकत्वात् तद्वचनानां भाषायाः स्थानं मगधदेशः इति नैकेषां विदुषां स्थापना अस्ति। पुनश्च त्रिपिटस्य अधिकभागस्य विशेषतः सुत्तपिटकविनयपिटकयोः भाषया सह मागधीभाषायाः साम्यमपि एतन्मतं पोषयन्ति। अठ्ठकथाकारः बुद्धघोषः इदं प्रमाणयति एत्था सकनिरूत्ति नाम सम्मासम्बुद्धेन वुत्ताप्पकारो मागधिको वोहारो[20] अनेन च मागधी मूलभाषा इत्यपि उच्यते। किन्तु नाटककारैः अप्रयुक्तत्वात् पालि मागधिभाषायाः प्रकारविषेशः स्यात् इत्यपि केचन तर्कयन्ति। ई. कुहप्रभृतिनां पाश्चात्यविदुषाम् इदं मतमस्ति यत् पालिभाषा मध्यभारतस्य उज्जयिन्याः वा स्यादिति यतः गिरनारशिलालेखस्य भाषया सह अस्या साम्यमस्ति। अथापि सिंहलदेशं गतः भारतीयः बौद्धविद्वान् महिन्दः मध्यदेशवास्तव्य एवासीत् मूरवर्यः प्रतिपादयति।[21] गीयर्सन् पालिभाषां मध्यंभारतसम्भवां स्वीकरोति किन्तु तां पैशाच्याः विकारं वदति। तस्य मतेन पैशाची मध्यभारते विन्ध्यप्रदेशस्य भाषा आसीत्।[22] ओल्डनबर्ग् पालिभाषां कलिङ्गैरभिसंबध्नाति। यतः महिन्दस्य कथा अस्य न सम्मता।[23] ई. मुल्लरश्च तं समर्थयति।[24] राजकमल वोरा पैशाच्या सह पालिभाषायाः सम्बन्धं वक्ति।[25] तदनुसारं पालिभाषायाः चरित्रं धार्मिकम् अस्ति न तु भौगोलिकम्। राहुल सांकृत्यायनः इमां भाषां युगमिति उपमिमीते। भारतस्य भिन्नेषु प्रदेशेषु पालिभाषायाः अन्यतमरूपाणि व्यवहारे आसन्, अथ च तेषामपि कालान्तरेण अन्य भाषासु परिणतिरभूत्।[26]

इत्थंभूतया चर्चया अपि किञ्चित्सार्थकमापादयितुमशक्ताः सन्तः पाश्चात्यविद्वांसः बौद्धवाङ्ग्मयीनप्रमाणान् उरीचक्रुः।[27] यत् पालिभाषायाः मूलं तु मागधी वाक् आसीत् किन्तु साहित्यिकाभाषाः यथा अन्यानामपि सम्बद्धानां भाषाभेदानां प्रतिनिधित्वं कुर्वन्ति साहित्यकविकासक्रमे तथैव पालि भाषाऽपि सम्बद्धप्राकृतानां प्रतिनिधीभाषा भवितुमर्हति।[28]

अथ कोऽस्याः काल इति तु अस्याः भुवमिव अनेकमतसमलङ्कृता महती वचनपरम्परा। विकासक्रमे पालिभाषायाः विकासस्य अनेकानि चरणानि उपलभ्यन्ते। भाषाविज्ञानिनः अस्याः आरम्भं मध्यकालीनभारतीय-आर्यभाषायाः आरम्भेण सहैव स्वीकुर्वन्ति।[29] अस्याः नामानि देशभाषा-मूलभाषा-प्रथमप्राकृतम्-मूलमागधीप्रभृतीनि भारतीयभाषाप्रवृत्तौ अस्याः स्थानं निरूपयन्ति। अस्याः कालः क्रैस्तपूर्वात् षष्ठशतकादारभ्य क्रैस्तपूर्वं प्रथमशतकं यावत् स्वीक्रियते।[30]

पालिभाषायाः साहित्ये अनेकविधाः प्रवृत्तयः समाविष्यन्त। स्थूलतया पालिसहित्यं पिटकसाहित्यम् अनुपिटकञ्चेति द्विधा विकासमाप्नोत्। तच्च पालि (षष्ठशतकात् क्रैस्तपूर्वात् क्रैस्तपूर्वं प्रथमशतकम्) – अनुपालि (क्रैस्तपूर्वात् प्रथमशतकादुत्तरम्) नामभ्यां प्रसिध्यते। विमलाचरण लौने पालिसाहित्यस्य पञ्च चरणान् अन्यप्रकारेण निर्दिशति-

प्रथमकालः : 483 BCE – 283 BCE

द्वितीयकालः: 383 BCE – 665 BCE

तृतीयकालः:  265 BCE – 230 BCE

चतुर्थकालः: 230 BCE – 80 BCE

पञ्चमकालः: 80 BCE – 20 BCE इतिवत्।

साहित्यम्

त्रिपिटकम्- इद साहित्यं पालीति संज्ञया प्रसिद्धम्। नामानुगुणमत्रः त्रयः पिटकाः सन्ति। सुत्तपिटकम्, विनयपिटकम्, अभिधम्मपिटकम् च। एषां पिटकानां सङ्कलनं क्रस्तपूर्वे तृतीयशतके समाप्तिमगत्। तदैव एषां स्वरूपं स्थापितमभावत्। अथ कोऽस्य अंशः बुद्धेनोक्तः कतमश्चान्यैः इति निर्धारणं क्लेशकरमेव। तत्र सुत्तपिट्टकं पञ्च निकायेषु विभाक्तम् अस्ति। दीघनिकायः, मज्झिमनिकायः, संयुत्तनिकायः, अङ्गुत्तरनिकायः खुद्दकनिकायश्चेति। एषु निकायेषु विषयगतानां वचनानां प्रकाशनं विद्यते। खुद्दकनिकाये पञ्चदशग्रन्थाः समाविश्यन्ते। ते च धम्मपदम्, थेरगाथा, थेरीगाथा, जातकम्, बुद्धवंसप्रभृतयः सन्ति। विनयपिटकस्य प्रमुखविषयः बौद्धसंघस्य व्यवस्था भिक्षूणां भिक्षुणिनाञ्च नित्यनैमित्यिककृत्यानां निर्देशः अस्ति। विनयपिटकः त्रिधा विभक्तः अस्ति- सुत्तविभङ्गः, खन्धकः, परिवारश्च। अभिधम्मे तु सप्त ग्रन्थाः समाविश्यन्ते- धम्मसंगणि, विभागः, धातुकथा, पुग्गलपञ्ञत्तिः, कथावत्थुः, यमकः, पट्ठानञ्चेति। एषु बौद्धविद्यायाः विस्तृतं विशिष्टञ्च प्रतिपादनम् अस्ति।

अनुपालि- अनुपालि-अनुपिटकसाहित्यं वा त्रिषु भागेषु विभक्तमस्ति। पूर्वबुद्धघोषयुगम् (100-400 ईसवीयाब्दम्), बुद्धघोषयुगम्, (400-1100 ईसवीयाब्दम्), बुद्धघोषोत्तरं युगम् (1100-अद्ययावत्)। पूर्वबुद्धघोषयुगम्- अस्य युगस्य चत्वास्रः रचनाः अत्यन्तं महत्वपूर्णाः सन्ति। नोतिपकरणम्, पेटकोपदेसः, मिलिन्दपन्हः, दीपवंसः इति च। नेतिपकरणम् सद्धमावबोधास्य कॄते उपयोगी ग्रन्थः अस्ति। तथा च पेटकोपदेसोऽपि। द्वयोरप्यनयो कर्त्ता महाकच्चानः स्वीक्रियते। मिलिन्दन्हः सहित्यिकदार्शनिकदृष्ट्या आदृतो ग्रन्थः स्थविरवादिनाम्। अयं च ग्रन्थः कस्यचित् संस्कृतग्रन्थस्य परिवर्धितोऽनुवाद इत्यपि केषाञ्चित् मतम्।[31] ग्रन्थस्याद्यमध्यायत्रयम् एव मौलिकम् इत्यपि केषाञ्चत् प्रतिपादनम्। ग्रन्थे मिलिन्दः (ग्रीसदेशस्य राजा) भदन्तनागसेनश्चेत्यनयोः वार्तालापस्य माध्यमेन विषयवस्तुः प्रतिपादितोस्ति। अस्य कालः क्रैस्तपूर्वं 150 इत्यस्ति। अस्मिन् बौद्धन्यास्य मूलसिद्धानतानां सरलं विवरणम् उपलभ्यते। दीपवंसे तु सिंहलदेशस्येतिहासः महासेनं यावत् (325-352 ई.) वर्णितः अस्ति।

बुद्धघोषयुगम्- अस्मिन् काले मुख्यतया पालिषु टीकाः अलिख्यन्त। आसां टीकानां नाम अठ्ठकथा। बुद्धदत्तः बुद्धघोषः धम्मपालश्च त्रिपिटकेषु पूर्वतः उपलब्धायाम् अठ्ठकथायां स्वीयाः अठ्ठकथाः प्रणिन्यिरे। एभिः क्रमशः पञ्च, सप्तदश, तथा च सप्त इतिवत् एनत्रंशत् टीकाः प्रणीताः। तत्र बुद्धघोषः स्वकृतिभिरन्यौ अतिशेते। अतः तस्य नाम्नैवास्य युगस्य प्रसिद्धिरस्ति। तत्र पूर्वोक्तौ द्वौ समकालीनौ धम्मपालः तयोरुत्तरः। अन्ये अपि केचन टीकाकाराः तदा अभूवन्।

बुद्धघोषोत्तरं युगम्- उत्तरकालीना टीकापरम्परा अत्र समाविश्यते। तत्र प्रमुखाः ग्रन्थकाराः टीकाकाराश्च एते- सारिपुत्तः, विदेहथेरः, बुद्धिप्पियः, धम्मकित्तिः, मेघंकरः, महाकस्सपः, सारदस्सी, विदुस्रपोल पियतस्सः।

इतरसाहित्यम्- पालिभाषायां अन्यमपि चतुर्विधं साहित्यं प्रणीतमुपलभ्यते। वंससाहित्यम्, काव्यसाहित्यम्, अभिलेखसाहित्यम्, व्याकरणादिकं च शास्त्रसाहित्यम्।

वंससाहित्यम्- इदं इतिहासपरकं साहित्यमस्ति। अस्मिन् दीपवसः, महावंसः, चुल्लवंसः, बुद्धघोसुप्पतिः, महाबोधवंसः, संदेसकथा, संगीतिवंसादयः ग्रन्थाः विशिष्यन्ते।

काव्यसाहित्यम्- अस्य भेदद्वयमुपलभ्यते वर्णनकाव्यानि यथा- अनागतवंस, तेलकटाहगाथा, जिनालंकार, जिनचरितम्, पज्जमधु, सद्धम्मोपायनम्, पञ्चगतिदीपनम्, लोकप्पदीसारश्चेति। अपराणि च काव्य-आख्यानानि यथा रसवावाहिनी, बुद्धालङ्कारः, सहस्सवत्थुप्पकरणम्, राजाधिराजविलासिनी चेति। एषां सर्वेषामपि उपजीव्यं त्रिपिटकमेव। काव्यशास्त्रीयदृष्ट्या एषाम् उत्कृष्टतां न्यूनां वदन्ति विद्वांसः।[32]

अभिलेखसाहित्यम्- पालिसाहित्ये बुद्धवचनादनन्तरम् एषां स्थानमतीव महत्त्वपूर्णमस्ति। न केवलं भारतस्य अपितु विश्वेऽखिलेऽपि साहित्यिकसांस्कृत्योः निधयः स्वीक्रियन्ते एते। अतीव सरलया गिरा शैल्या च उत्कीर्णाः इमे लेखाः जीवनस्य गंभीरान् पक्षान् प्रकाशयन्ति। एषामुत्कीर्णनं क्रैस्तपूर्वात् तृतीयशतकादारभ्य क्रैस्तोत्तरं पञ्चदशशतकं यावदासीत्। एते लेखाविभिन्नस्थानेषु विभिनाकृतिषु चोपलभ्यन्ते। साँच्याम् भरहुतादिषु च अशोकस्य लेखाः उपल्भ्यन्ते। सारनाथे कनिष्कस्याभिलेखाः, मौंगन, मब्जानगरयोः षष्ठशतकीयौ स्वर्णपत्रे उत्कीर्णौ लेखौ (ब्रह्मदेशे), बोबोगी-पागोडास्थ(ब्रह्मदेशे)खण्डिताः पाषणलेखाः पागाने कल्याण्यां च स्थिताः अभिलेखाः तत्र प्रमुखाः सन्ति।

व्याकरणादिकं च शास्त्रसाहित्यम्- साहित्यपालिवैय्याकरणेषु कच्चान-मोग्गलान-अग्गवंसाः प्रसिद्धाः। एभिः क्रमशः कच्चान-मोग्गलान-सद्दनीत्याख्यानि व्याकरणानि विरचितानि। तथा च एषां नामभिरेव तिस्रः वैयाकरणसम्प्रदायाः अपि पालिभाषायाः प्रचलन्ति। अन्यैरपि कश्चिद्वैय्याकरणैः व्याकरणानि प्रणीतानि। छन्दशास्त्रे वुत्तोदयम् काव्यशस्त्रे च प्रसिद्धे स्तः अनयोः कर्त्ता सङ्घरक्खितः स्वीक्रियते।

पालिव्याकरणम्-    व्याकरणं साहित्यिकभाषायै आवश्यकं भवति। तदभावे तत्र निबद्धं साहित्यं परिस्थितिभेदेन लयमियात्। पालिभाषा न अस्य अपवादः। यद्यपि व्याकरणस्य प्रवित्तिः अत्र शनकैः प्ररूढा किन्तु अस्य महत्वं धम्मपदे उल्लिखितम् उपलभ्यते-

वीततण्हो अनादानो निरुत्तिपदकोविदो

अक्खराणां सन्निपातम् जञ्ञा पुब्बपरानिका

सा वे अन्तिमासारीरो महापञ्ञो (महापुरीसो)

ति वुच्चति[33]

अत्र इदं स्पष्टतया प्रतिपादितमस्ति यत् अवैय्याकरणः नार्हति श्रेयः। नेत्तिप्पकरणेऽपि व्याकरणस्य तत्वानामुल्लेखः उपलभ्यते-

भगवा अक्खरेहि संकासेति, पदेहि पकासेति, व्यञ्जनेहि विवरति, आकारेहि विभजति, निरुत्तिहि उत्तानिकरोत, निद्देसेहि पञ्ञापेति; अक्खरेहि च पदेहि च उग्घाटेति, व्यञ्जनेहि च अक्खरेहि च विपञ्चयति, निरुत्तिहि निद्देसेहि च वित्थारेति।[34]

अठ्ठकथाकारैस्तत्र-तत्र पाणिनीयव्याकरणास्य सन्दर्भैः बुद्धवचनानां व्याख्यानं प्रस्तुतम्। सुत्तनिपातव्याख्यानेऽपि अयं प्रसङ्गः दृश्यते सुत्तनिपातव्याख्याने।[35] तत्र निर्दिश्यते- वत्तमानसामीपे वत्तमान[36] वचनमिदं च सन्दर्भयन् व्याख्याकारः पाणिनीयशास्त्रं स्मरन्नाह वचनलक्खण पाणिनि इति। तथैव विसुद्धिमग्गे इन्द्रियसच्चनिद्देसे[37] इदं पठ्यते-

को पन नेसम् इन्द्रियत्थो नामाति? इन्दालिङ्गत्थो इन्द्रियत्थो; इन्दादेसित्थो इन्द्रियत्थो; इन्दादेसितत्थो इन्दियत्थ इन्दाजुट्ठतो इन्द्रियत्थो; सो सब्बो पि इधा यथायोगं युज्जति। भगवा हि सम्मासम्बुद्धो परमिस्सरियभावतो इन्दो, कुसलाकुसलं च कम्मं कम्मेसु कस्सचि इस्सरियभावतो। तेन एवेत्थ कम्मसञ्जानितानि तानिन्द्रियानि कुसलाकुसलकम्मं उल्लिङ्गेन्ति। तेन च सित्थानीति इन्दालिङ्गत्थेन इन्दासित्थात्त्थेन इन्दादित्थात्थेन च इन्द्रियाणि। तेन एव भगवता मुनिन्देन कानिचि गूअरासेवनाय, कानिचि भावनासेवनाय, सेवितानीति इन्दाजुत्थात्थेनापि एतानि इन्द्रियाणि।

अत्र पाठे उक्तानि पदानि पाणिनीयशास्त्रे प्रतिपादितत्वात् एव सार्थकानि भवितुमर्हन्ति।[38]

कोषकारेऽपि अभिधानप्पदीपिकायाः संस्कृतकोषकास्यामरसिंहस्य प्रभावः दृश्यते रचनाशैलीमधिकृत्य।[39] पालिभाषायाः सिंहलशैल्याः अपि अत्र प्रभावः संभवति।[40] सैव च एकाक्खरकोषे, वुत्तोदयादिषु ग्रन्थेष्वपि।

व्याकरणाग्रन्थाः- पालिव्याकरणस्य त्रयः मुख्याः परम्पराः सन्ति। ताश्च कच्चायन-मोग्गलान-सद्दनीतिः। तत्र कचायनः सर्वप्रथमः पालिवैयाकरणः इतिवत् स्मर्यते। अस्य व्याकरणस्य नाम सुसन्धिकप्प आसीत्। अस्य शैकीकातन्त्रव्याकरणसमा अस्ति। इदञ्च व्याकरणं क्रैस्तस्य पञ्चमशतके ब्रह्मदेशं नीतम् इत्यस्ति प्रसिद्धिः। पालिव्याकरणस्य कच्चायनव्याकरणस्य प्रतिनिधिरचनाः – रूपसिद्धिः, बालवतारः इति सप्ताध्यायी धर्मकीर्तिना प्रणीता धर्मारामेण च तट्टीका, महानिरुत्तिः, चुल्लनिरुत्तिः, निरुत्तिपिटक, मञ्जुसतिकाव्याख्या च। रूपसिद्धिटीकां दीपङ्करः प्रणिनाय।[41]

मोग्गलानस्य सम्प्रदायं च पयोगसिद्धिः, मोग्गलानवुत्तिः, पदाधानञ्चेत्येते ग्रन्थाः अनुसरन्ति। पदाधानस्यापरं नाम सद्दत्थरन्तकरः इत्यस्ति अस्मिन् च षड् अध्यायाः सद्द-सन्धि-समास-क्रिया-प्रत्ययोपसर्गरूपाः सन्ति।

सद्देनीतिसम्प्रदायं चुल्लसद्दनीतीति एकैव प्रमुखरचना अनुसरति। सद्दनीतिः ब्रह्मदेशे अद्यापि शास्त्रत्वेनाद्रियते।

पालिव्याकरणे अन्याः रचनाः सबन्धचिन्ता, सद्दसारत्थजालिनी, कच्चायनभेदः, कारिकाकारिकवुत्तिः इत्येताः सन्ति।

 

[1] A dictionary of the Pali Language, Robert Caesar Childers.

[2] In the Buddhas words, Bhikkhu Bodhi, P.10

[3] Pali as a MIA language is different from Sanskrit is not so much with regard to the time of its origin than as to its dialectal base, since a number of its morphological features betray the fact it is not a direct continuation of Rigvedic Sanskrit; rather desents from a dialect (or a number of dialects) which were despite meny similarities, different from Rigvedic. Pali A Grammar of the language of the Theravada Tipitaka. Indian Philosophy and South Asian Studies. Oberilies Thomas, Vol. 5, P. 6

[4]  पालि भाषा और साहित्य, इन्द चन्द्र शास्त्री, वक्तव्य, पृ. 1

[5]  The word Pali however signifies only “text” “sacred text”. If we use this word to designate the language it is merely a convenient abbreviation for Palibhasa. Synonymous with Tantibhasa.  William gyger, Pali literature and language. Introduction P. 1

[6] वाग्विज्ञान (भाषाशास्त्र), आचार्य सीताराम चतुर्वेदी, पृ. 449

[7] आज हम पालि शब्द को भाषा के अर्थ में व्यवहृत् करते हैं और इसमें बौद्ध धर्म के “थेरवाद” का सम्पूर्ण त्रिपिटक एवं अनुपिटक साहित्य प्राप्त है। प्रारम्भ में यह शब्द मूल बुद्धवचन अथवा त्रिपिटक के लिए प्रयुक्त होता रहा और बाद में यह उस भाषा का द्योतक हो गया, जिसमें बुद्ध वचन प्राप्त है। इस प्रकार भाषा के अर्थ में पालि का प्रयोग नवीन ही है, विशेषकर उन्नीसवीं शती से इसका व्यापक प्रचार हो गया है। राहुल सांकृत्यायन, पालि साहित्य का इतिहास, पृ. 3-4

[8] प्राचीन महाराष्ट्र, पृ. 377

[9]  भारत की प्राचीन भाषाएँ, राजकमल वोरा, पालि भाषा. पृ. 20

[10] William gyger, Pali literature and language. Introduction P. 1

[11] Buddhist India, T.W. Rhys Davids, ch. 9

[12] Pali Language And Literature; A systematic survey and historical study, Kanai Lal Hazara, P. 11

[13] William gyger, Pali literature and language. P. 1-44

[14] Pali Language And Literature; A systematic survey and historical study, Kanai Lal Hazara, P. 20

[15] Ibid. P. 29

[16] Pali Litrature, K.R. Norman, P. 1-7

[17] In the Buddhas words, Bhikkhu Bodhi, P.10

[18]  Indian Buddhism, A. K. Warder, P. 284

[19] A History of Indian Buddhism; From Shkyamuni to Early Mahayana, Akira Hirkawa, Paul Groner. P.119

[20] समन्तपासादिका, चुल्लवग्ग, गा. 33/1

[21] Originala Sanskrit Texts, vol. 2, P.356

[22] The Paishachi Language of North Western India, Asiatic Society Monographs, Vol. 8, Cf. William Geiger, Pali Literature and Language, Introduction, P. 4

[23] The Vinaya Pitaka, Vol. 1. p. L

[24] Simplified Grammar of Pali Language, P. 3

[25] पालि भाषा भी पशाची प्राकृत की तरह प्राचीन प्राकृत का रूप है। ऐतिहासिक दृष्टि से पालि हमें पैशाची के बाद का रूप प्रतीत होगा। किन्तु सचाई यह है कि पैशाची का दक्षिणी रूप (सिंहल देश का रूप) पालि है।…. पैशाची प्राकृत का भौगोलिक रूप है पालि प्राकृत का भौगोलिक रूप नहीं है। पालि वाङ्ग्मय प्रधान रूप से बौद्ध धर्म का वाङ्गमय है। पालि धार्मिकभाषा अधिक है। पालि का नामकरण भौगोलिक नहीं। भारत की प्राचीन भाषाएँ, पालि भाषा, पृ. 20

[26] इन्हीं से ही ईसवी सन् के आरम्भ में “पाली काल” में उत्तरी भारत 16 जनपदों में बँटा हुआ था, जिनकी अपनी-अपनी बोलियाँ (पाली भाषाएँ) रही होंगी, जिन का नाम १) अंगिका, २) मागधी, ३) काशिका, ४) कोसली, ५) वृज्जिका, ६) मल्लिका, ७) चेदिका, ८)वात्सी, ९) कौरवी, १०) पाँचाली, ११) मात्सी, १२) शौरसेनी, १३) आश्मकी, १४) आवन्ती, १५) गान्धारी, १६) काम्बोजी था।…ईसा पूर्व काल की 6 शताब्दियों मे ये बोलियाँ जिन जनपदों में बोली जाती थीं उनमें आजकल निम्न बोलियाँ बोली जाती हैं। … राहुल निबन्धावली, हिन्दी की मूल-भाषा कौरवी बोली है, पृ. 63

[27]A. Berriedale Kieth,  Pali, the Language of Southern Buddhist India, Indian Historical Quarterly I 1925, P. 501, P.V.Bapat, the relation Between Pali and Ardhamagadhi, Ibid. IV, 1928, P. 23. Cf. William Geiger, Pali Literature and Language, Introduction,

[28] … and I am also inclined to do the same- according to which Pali Should be regarded as a form of Magadhi, the language in which Buddha himself had preached. This language of Buddha was whoever surely no purely popular dialect, but a language of the higher and cultured classes which had been brought into being already in pre Buddhistic times through the needs of communication in India. For a geographic description. William Geiger, Pali Literature and Language, Introduction, P. 5. see also Rhys Davids, Buddhist India, P. 140

[29] William Geiger, Pali Literature and Language, Introduction, P. 1

[30] राहुल निबन्धावली, हिन्दी की मूल-भाषा कौरवी बोली  है, पृ. 63

[31] पालिभाषा और साहित्य, वक्तव्य

[32] पालिभाषा और साहित्य, वक्तव्य

[33] धम्मपद गा. 352

[34] नेत्तिप्पकरण pp. 8,9

[35] भाग 3, पृ. 23

[36] द्र. वर्तमानसामीप्ये वर्तमानवद्वा, पा.सू. 3/3/131

[37] P.T.S.Edition, pp. 491-492

[38] इन्दियमिन्द्रलिङ्गमिन्द्रदृष्टमिन्द्रजुष्टमिन्द्रियार्थमिति वा । पा सू 5/2/93

[39]Lone,  History of Pali Literature, Pali Grammara, P. 621

[40] तदेव

[41] तदेव

Please rate this Research Paper

Leave a Reply