भारतीयसंस्कृतौ पर्यावरणचिन्तनम् 5/5 (3)

0
90 views

भारतीयसंस्कृतौ पर्यावरणचिन्तनम्

डा. धनञ्जयवासुदेवद्विवेदी
सहायकप्रोफेसरः, संस्कृतविभागस्य,
राँची कालेजस्य राँचीविश्वविद्यालयस्य,
राँचीस्थस्य, झारखण्डस्य
फोन-09431590113,
Email-dvd74@rediffmail.com

विश्वस्य प्रचीनतमसंस्कृतिषु भारतीयसंस्कृतिः अन्यतमा वर्तते। अस्याः वैशिष्ट्यमनन्यसाधारणमस्ति। संस्कृतिस्तावत् केति सर्वेषां प्रबुद्धजनानां जिज्ञासा। तत्र समासेनेदं कथितुं शक्यते यत् संस्कृतिः कस्यापि देशस्य दर्पणो भवति। ‘सम्’ उपसर्गपूर्वकात् ‘कृ’ धातोः क्तिन् प्रत्ययात् निष्पद्यते ‘संस्कृतिः’ शब्दः। सम्यक् कृतिः संस्कृतिः। अर्थात् यत्र परिष्कृता आचारा व्यवहारा भवन्ति तत्र संस्कृतिः।भारतीयसंस्कृतिः परमपरिष्कृता सुतरां सम्पन्ना भूयिष्ठं परिपुष्टा लोककल्याणविधायिनी आस्ते।आध्यात्मिकी भावना, धर्मप्राधान्यं, पारलौकिकीभावना, सदाचारपालनम्, आत्मसंयमः, कर्मवादः, विचारसहिष्णुता, यज्ञविधानं, सत्यपरिपालनम्, अहिंसापालनम्, त्यागः, मातृपितृगुरुभक्तिः प्रभृतयः भारतीयसंस्कृतेः विशेषता।
अधुना देशे विदेशे सर्वत्र पर्यावरणस्य भूयिष्ठं चर्चा चलति। प्रायः सर्वे एकमत्या तथ्यमिदम् अङ्गीकुर्वन्ति यत् मानवजीवने पर्य‌ावरणस्य महत्त्वं सर्वाधिकम् अस्ति। मनुष्याणां वनस्पतीनां पशुपक्षीणां च अभिवृध्यर्थम् अस्माकं समीपस्थानि सर्वत्र वर्तमानानि पञ्चमहाभूतानि परमावश्यकानि वर्तन्ते। भौतिकोन्नतिः भवेत् आध्यात्मिकी सिद्धिर्वा स्यात् एतत्सर्वस्य कृते स्वच्छजलस्य, स्वस्थवनस्पतेः, वृक्षाणां संरक्षणस्य परिष्कृतवायुमण्डलस्य, वसुधापरिरक्षणस्य, निर्दुष्टपरिवेशस्य, संस्कारसम्पन्नस्य अनुशासितस्य च समाजस्य आवश्यकता भवति। एतत् सर्वं मिलित्वा पर्यावरणं कथ्यते। संक्षेपेण कथितुं शक्यते यत् येन आवरणेन जीवा सर्वदा आवृताः तिष्ठन्ति तद् एव आवरणं पर्यावरणं कथ्यते।
पर्यावरणं यदि परिशुद्धम् अस्ति तर्हि सर्वत्र सुखसमृद्धिरनामयं च भविष्यति। स्वल्पभौतिकसाधनैरपि जीवने शान्तिः आनन्दानुभूतिश्च भविष्यति। प्रदूषिते पर्यावरणे मानवजीवनं विविधव्याधिसंपीडितं स्थास्यति। अस्मिन् अवसरे अस्य तथ्यस्य स्थापना करणीया अस्ति यत् सुसमृद्धे विस्तृते च संस्कृतसाहित्ये पर्यावरणसम्बन्धे कीदृशाः विचाराः विराजन्ते। वेदेभ्यः आरभ्य इदानीं पर्यन्तं संस्कृतसाहित्ये पर्यावरणसम्बन्धिनी संचेतना बाहुल्येन राजते।
भारतीयसंस्कृतौ महर्षिभिः पर्यावरणसंरक्षणस्य कृते बहवः उप‌ायाः परिकल्पिताः। पर्यावरणस्य सर्वे अवयवाः सन्तुलिताः सुव्यवस्थिताश्च भवेयुः इति तथ्यं प्रदर्शयति अथर्ववेदस्यायं मन्त्रः-
यस्यां समुद्रा उत सिन्धुरापो यस्यामन्नं कृष्टयः सम्बभूवुः।
यस्यामिदं जिन्वति प्राणदेजत् सा नो भूमिः पूर्वपेये दधातु।।
पर्यावरणं द्विविधम्-प्राकृतिकपर्यावरणं सांस्कृतिकपर्यावरणञ्च। प्राकृतिकपर्यावरणस्य अन्तर्गते पञ्चमहाभूतानि वनस्पतयः, जीवजन्तवश्च समाहिताः सन्ति। सांस्कृतिकपर्यावरणस्य अन्तर्गते मानसिक-बौद्धिक-आध्यात्मिकप्रभृतितत्त्वानि आगच्छन्ति।
संस्कृतसाहित्ये प्राकृतिकपर्यावरणं प्रति समादरस्य संरक्षणस्य च महती परम्परा विद्यते। प्राकृतिकपर्यावरणेऽपि वृक्षाणां महत्त्वं संरक्षणञ्च प्रति चेतना धर्म-दर्शन-साहित्य-व्याकरण-कलासु च चिरकालादेव परिलक्षिता। अस्माकं संस्कृतौ पर्यावरणसंरक्षणार्थं वनस्पतिलोकस्य सुरक्षा परमावश्यकी। तत्त्वद्रष्टारो ऋषयः सर्वप्रथमं वनस्पतिनां यथार्थं ज्ञानं प्राप्तवन्तः। तत्पश्चात् ते कथयन्ति स्म-गृहस्थानां, मुनीनां, तपस्विनां, गुरुकुलानाम्, आश्रमवासिणां, साधकानां, कवीनां, दार्शनिकाणां, गवेषकाणां, चिकित्सकानां, परिशुद्धवातावरणस्य च कृते वनस्पतयो महोपयोगिनः भवन्ति। वनस्पतीनां महत्त्वातिरेकं विलोक्य मनीषिभिः तेषां भूयिष्ठं धार्मिकं महत्त्वं निरूपितम्।
न केवलं वैदिकसाहित्ये अपितु लौकिकसंस्कृतवाङ्मये अपि अस्माकं पूर्वजैः मनीषिभिः च पुरातनकालादेव वृक्षाणां महत्त्वं प्रामुख्येन प्रतिपादितम्।अतएव संस्कृतसाहित्ये वृक्षाः अस्माकं धर्मस्य, विभिन्नसंस्काराणां सामाजिक-सांस्कृतिक-क्रियाकलापनाञ्च धार्मिकास्थायाः प्रतीकरूपे वर्णिताः। वैदिककालादेव अश्वत्थ-उदुम्बर-प्लक्ष-न्यग्रोध-आम्रवृक्षाणां पल्लवाः धार्मिकमाङ्गलिककृत्येषु च शोभना अभिमता। यथा अग्निसोमसू्र्यादीनां देवत्वं वेदेषु स्वीकृतं तथैव वृक्षाणाम् अपि देवत्वं स्वीकृत्य स्थाने-स्थाने वृक्षाणां स्तवनं कृतम् ऋषिभिः। यथा-‘नमो वृक्षेभ्यः’ , ‘वृक्षाणां पतये नमः ’, ‘नमो वन्याय च ’।
ऋग्वेदे तु एकं सम्पूर्णं सूक्तं वनदेवतायै प्रस्तुतं यत्र प्रभूतान्नयुता अरण्यानी सर्वेषां जन्तूनां मातृरूपेण वर्णिता।मन्त्रद्रष्टारः ऋषयः तथ्यमिदं सम्यग् रूपेण जानन्ति यत् वृक्षाः लताश्च न केवलं पुष्पैः फलैः काष्ठादिभिश्च विश्वं समृद्धं कुर्वन्ति अपितु प्राणदायकवायुना पर्यावरणमपि माधुर्यमयं कुर्वन्ति। अत एव वृक्षाः सर्वथा संरक्षणीयाः। न केवलं संरक्षणीयाः अपितु नूतनवृक्षाः अप्यारोपणीया।
वृक्षाणां संरक्षणार्थं संस्कृतसाहित्ये वृक्षाः मनुष्यस्य पुत्रवद् वर्णिता। मत्स्यपुराणे कथितम् अस्ति-‘दशपुत्रसमो द्रुमः’। ज्ञानिनः सदैव वृक्षैः सह पुत्रवद् व्यवहरन्ति। सानुरागं तेषां रोपणं, संरक्षणं, पोषणं, विकासं विस्तारं च कुर्वन्ति। महाभारते एतत्सम्बन्धे स्पष्टनिर्देशाः प्राप्यन्ते-
वृक्षादयः पुत्रवद्रक्ष्या वृक्षास्तारयन्ति परत्र च।
तस्मात्तडागे सद्वृक्षा रोप्याः श्रेयार्थिना सदा॥
पुत्रवत्परिपाल्याश्च पुत्रास्ते धर्मतः स्मृताः।
यथा पुत्रः ‘पुम्’ नामकनरकात् स्वपितरं तारयति तथैव वृक्षोऽपि स्वरोपयितारं त्रायते महतोभयात्। श्रीमद्भागवतमहापुराणं प्रतिपादयति यत् यो नरः एकम् अश्वत्थम्, एकं पिचुन्दम्, एकं न्यग्रोधं, दशचिञ्चिणीं, त्रयं कपित्थबिल्वामलकं, पञ्चाम्रवृक्षान् आरोपयति स कदापि नरकं न याति-
अश्वत्थमेकं पिचुन्दमेकं न्यग्रोधमेकं दशचिञ्चिणीम्।
कपित्थबिल्व‌ामलकं त्रयं च पञ्चाम्रवापी नरकं न गच्छेत्॥
पर्यावरणप्रदूषणनिवारणाय वृक्षारोपणस्य महती आवश्यकता वर्तते तथ्यमिदं वैज्ञानिकाः अपि स्वीकुर्वन्ति। अत एव वैदिकः ऋषिः वदति-‘वनस्पतिं वन आस्थापयध्वम्’ । चाणक्यनीतिदर्पणे साधुप्रतिपादितं यत् एकेनैव सुवृक्षेण सम्पूर्णं वनं पर्यावरणञ्च आनन्दमयं सुवासितं च विधीयते। भारतीयपरम्परानुसारं शास्त्रानुसारञ्च वृक्षाः मानवजीवनस्य आधाराः सन्ति। व्यवहारेणापि सिध्यति तथ्यमिदम्। पर्यावरणप्रदूषणेऽस्मिन् जगति पर्यावरणसंरक्षणं सर्वेषामेव चिन्ताकरः विषयः वर्तते। अत्र वृक्षाः पर्यावरणस्य महत्त्वपूर्णसंरक्षकाः वर्तन्ते। पर्यावरणस्य संतुलनार्थं नियमितरूपेण वृष्ट्यर्थं जलवायुनियमनार्थं भूमिक्षरण-निवारणार्थं च वृक्षाणां संरक्षणं संस्कृतसाहित्ये सुतरां प्रतिपादितम्। अस्मिन् साहित्ये वृक्षच्छेदनं निषिद्धम्। यजुर्वेदे पर्यावरणशुद्धिम् अभिलक्ष्यैव औषधीनां हिंसा निषिद्धा-‘मोषधीर्हिंसी’ ।
जैवसंरक्षणस्य कृतेऽपि संस्कृतसाहित्ये विपुलसन्दर्भाणि प्राप्यन्ते। यजुर्वेदस्य एकस्मिन् मन्त्रे ऋषिः प्रार्थयति-‘यजमानस्य पशून् पाहि’ । अथर्ववेदे तु कथितमस्ति यत् वन्यपशवः तु रुद्रस्य संरक्षणे सन्ति। यदि एषा वार्ता अस्ति तर्हि वन्यपशूनां संरक्षणम् आवश्यकम्। अभिज्ञानशाकुन्तलमपि कथयति-‘आश्रममृगोऽयं न हन्तव्यो न हन्तव्यः’।
बादरायणश्रीकृष्णद्वैपायनव्यासेन पर्यावरणसन्तुलनाय वनानां जन्तूनाञ्च महत्त्वं प्रतिपादयति महाभारतस्य उद्योगपर्वणि-
निर्वनो वध्यते व्याघ्रो निर्व्याघ्रः छिद्यते वनम्।
तस्माद् व्याघ्रो वनं रक्षेद् वनं व्याघ्रं च पालयेत्॥
आकाशतत्त्वं पर्यावरणस्य प्रधानत्त्वरूपेण विराजते। वेदेषु आकाशस्य वर्णनम् अन्तरिक्षरूपेण प्राप्यते। पितृरूपेण आकाशतत्त्वस्य चर्चा पदे पदे विराजते। पितरं प्रति यथा आचरणीयं तथैव आकाशतत्त्वं प्रति अपि। यजुर्वेदे ‘द्यौशान्तिरन्तरिक्षं शान्तिः’ इति मन्त्रे पर्यावरणसन्तुलनाय तस्य रक्षणाय चोद्घोषः प्राप्यते। सम्प्रति जनाधिक्याद् विविधवैज्ञानिककोपकरणप्रयोगाद् ध्वनिविस्तारकयन्त्रस्थप्रचुरयोगाच्च ध्वनिप्रदूषणेन आकाशं प्रदूष्टम्। ध्वनिप्रदूषणनिराकरणाय निम्नलिखितो निरुक्तोद्धृतः ऋग्वेदीयो मन्त्रः विशेषरूपेण द्रष्टव्योऽस्ति-
भद्रं वद दक्षिणतो भद्रमुत्तरतो वद।
भद्रं पुरस्तान्नो वद भद्रं पश्चात्कपिञ्जलः॥
कदाचिज्जनाः परस्परं सम्भाषणे आसुरीवाचमश्रित्य कोपाग्निशुष्कैः संतापकारिभिः शब्दैः पर्यावरणं दूषयन्ति। तदा वाग्जन्यं दोषमपाकर्तुं शुद्धा एव वाचः प्रयोक्तव्याः। यथा चोक्तं वेदे-
इयं या परमेष्ठिनी वाग्देवी ब्रह्मसंशिता।
ययैव संसृजे घोरं तथैव शान्तिरस्तु नः।।
सम्प्रति वायुतत्त्वम्।शुद्धेन वायुना लोके प्राणिनश्चिरं जीवनं धारयन्ति। अत एव दुर्गन्धविकारयुक्तो वायुः सर्वदा शोधनम् अपेक्ष्यते। महाकविकालिदास्तु ‘यया प्राणिनः प्राणवन्तः’ इति उदीर्य वायोर्जीवने कियान् महिमा विद्यत इति प्रतिपादितवान्।वेदेषु बहुशो वायोः अनाविलत्वम् अभ्यर्थमानः ऋषिः कथयति यत् समन्तात् निर्दोषाः सगन्धाः वाताः वान्तु। लोके शुद्धः प्रवहन् गन्धवहः सर्वरोगहरो भवति। शुद्धवायुः पितेव अस्मान् पाति, भ्रातेव संभरणं करोति, मातेव निर्माति तनोति च जीवनवृद्धिं लोके चिरं स्थातुं प्रेरयति। जीवनपीयूषनिधिरूपा वायवः सर्वप्राणिनां प्राण‌ाधाराः। यथा-
‘वात आ वातु भेषजं शम्भु मयोभु नो हृदे।प्र ण आयूँषि तारिषत्॥
उत वात पितासि न उत भ्रातोत नः सखा।स नो जीवातवे कृधि॥
यददो वात ते गृहेऽमृतस्य निधिर्हितः।ततो नो देहि जीवसे॥‘
अयं वायौ अन्तर्हितः अमृतस्य निधिः प्राणवायुः वर्तते। अयमेव शारीरिक-मलानि विनाशयति प्राणांश्च प्रयच्छति। वेदमन्त्रैः इदमपि संसूच्यते यत् प्रदूषिते व‌ायौ श्वासग्रहणेन मनुष्यः अल्पजीवी शुद्धे वाते च श्वासग्रहणेन भवति दीर्घजीवी। वेदमन्त्राः निर्दिशन्ति-
द्वाविमौ वातौ वात आ सिन्धोरा परावतः।दक्षं ते अन्य आ वातु परान्यो वातु यद्रपः॥
आ वात वाहि भेषजं वि वात वाहि यद्रपः।त्वं हि विश्वभेषजो देवानां दूत ईयसे॥
आ त्वमागमं शान्तातिभिरथो अरिष्टतातिभिः। दक्षं ते भद्रमाभार्षं परा यक्ष्मं सुवामि ते॥
अग्नितत्त्वम्। अग्निरियं पञ्चतत्त्वेषु एकः तेजसः प्रतीकः। सृष्टेः नियमनार्थं अग्नितत्त्वस्य सन्तुलनम् आवश्यकम्।यजुर्वेदः कथयति यद् अग्निः जीवनं पावयति। ऋग्वेदानुसारम् अग्निः दूषितान् पदार्थान् विनाशयति।
मानवजीवने जलस्य महत्त्वं सर्वातिशायि वर्तते। अत एव अथर्ववेदस्य द्वादशतमे काण्डे ऋषिः कथयति यत् अस्मच्छरीरपुष्ट्यर्थं शुद्धाः आपः प्रस्रवन्तु अप्रियाणि स्वादशून्यानि अस्वास्थ्यकराणि च जलानि दूरं गच्छन्तु। वेदेषु अपवित्रेण जलेन पवित्रजलमेलनं निषिद्धम्। जलप्रदूषणं निषेधयन् वैदिक ऋषिः वदति-‘माऽपो हिंसी’। जलं प्रति आदरस्य भावना प्रसरेद् अस्मदर्थम् अथर्ववेदे तथ्यमिदं स्थापितमस्ति यत् जले ईश्वरीयशक्तेः निवासः वर्तते-‘यासु देवीष्वधि देव आसीत्’। जलप्रदूषणस्य समस्या चिन्तायाः कारणं वर्तते। प्रदूषितजलपानेन मनुष्याः, पशवः, वृक्षाश्च रोगपीडिताः भवन्ति।संस्कृतसाहित्ये जलं देवस्वरूपेण वर्णितमस्ति। अस्मिन् साहित्ये नद्याः पूजायाः विधानम् अस्ति। गङ्गायाः सम्बन्धे उक्तमस्ति-‘गङ्गे तव दर्शनान्मुक्तिः’। पद्मपुराणं तु गङ्गादिपवित्रनदीनां प्रदूषणं परमभयावहम् अक्षम्यपापं मन्यते-
‘मूत्रं वाथ पुरीषं वा गङ्गातीरे करोति यः।
न दृष्टा निष्कृतिस्तस्य कल्पकोटिशतैरपि॥
श्लेष्माणं वापि निष्ठीवं दूषिकाङ्गं वाऽश्रु वा मलम्।
गङ्गातीरे त्यजेद् यस्तु स नूनं नारकी भवेत्॥‘
सम्प्रति पृथिवीतत्त्वम्। पृथिवी तु प्राणिनां कृते आधारभूता। अन्नादिभोज्यपदार्थां गवादिसम्पदां च धारयित्री पृथिवी वर्तते। ऋषिः कथयति-‘सा नो भूमिर्गोष्वप्यन्ने दधातु’।पृथिवीतत्त्वस्य प्रदूषणं प्रलयंकारि एव भविष्यति। प्रदूषणस्यास्य निरोधार्थम् एव वैदिक ऋषिः वदति-‘मा ते विमृग्वरि मा ते हृदयमर्पिपम्’। पृथिवीतत्त्वस्य संरक्षणाय एव पृथिवी मातृरूपेण प्रकल्पिता। अथर्ववेदे ऋषिः कथयति-‘माता भूमिः पुत्रोऽहं पृथिव्याः’।
संस्कृतसाहित्ये पर्यावरणस्य शुद्ध्यर्थं यज्ञस्य महनीयं महत्त्वम् अङ्गीकृतम्। भारतीयसंस्कृतौ यज्ञानुष्ठास्य महत्त्वम् अत्यधिकं विद्यते। वेदवेदाङ्गेषु यज्ञनिष्पादनस्य सविस्तरं विधयः वर्णिताः सन्ति। यदा तु घृतमिश्रिता आहुतयो यज्ञकुण्डे प्रदीयन्ते तदा तदुत्थितो धूमः वायुम्, आकाशम्, पृथिवीं सकलञ्च वातावरणं शोधयति सुगन्धितञ्च विदधाति। अत एव पर्यावरणसंरक्षणार्थम् अग्निहोत्रस्यापि महत्त्वं सर्वैरपि ऋषिभिः स्वीक्रियते। वेदेषु परमात्मना प्रतिपदं यज्ञादेशो दत्तः। पर्यावरणं शोधयितुं वेदेषु यज्ञानां भृशं विधानं लभ्यते। संस्कृतसाहित्ये यज्ञस्य महत्त्वं वर्णयद्भिः प्रोक्तमस्ति-‘यज्ञो वै श्रेष्ठतमं कर्म’।
वैदिककाले अस्माकं शास्त्रकारैः ऋषिभिश्च पर्यावरणस्य संरक्षणार्थं परिष्करणार्थञ्च अतीव उत्तमा प्रक्रिया आविष्कृता। विभिन्नगुणयुक्तानां सुगन्धितपदार्थानां होनान् आविर्भूतः यज्ञीयधूमः पर्यावरणस्य रक्षणं करोति। यज्ञानुष्ठानद्व‌ारा सर्वासां समस्यानां समाधानं सञ्जायते।पर्यावरणसंरक्षरणार्थं यज्ञानां महत्त्वं विद्वद्भिः स्वीकृतम्। आधुनिकाः वैज्ञानिकाः अपि दृढं विश्वसन्ति यत् वायुमण्डले विद्यमानविषाक्तगैसीयपदार्थानां विभिन्नरोगजीवाणुनां च विनाशाय यज्ञीयवह्नयः एव समर्थाः सन्ति। वस्तुतः यज्ञे प्रयुक्तपदार्थानां विविधरासायनिकपरिवर्तनं भवति। साधारणतया यज्ञाग्नेः तापः पञ्चाशदधिकस्य द्विशतस्य षट्शतस्य च डिग्रीसेल्सयस्य च मध्ये तिष्ठति। यज्ञे प्रज्वलितपदार्थानां तापे द्वादशशतस्य त्रयोदशशतस्य डिग्रीसेल्सियसस्य च मध्ये वृद्धिः जायते। पदार्थेषु उपस्थितहाईड्रोजनः वायुमण्डलस्य आक्सीजनेन सह संयुज्य अधिकमात्रायां वाष्पस्य सर्जनं करोति। वसायुक्तत्वाद् यज्ञीयघृतं यज्ञीयानाम् इन्धनानां सेल्यूलोजस्य तीव्रदहने सहायकं भवति। अस्याः अभिक्रियायाः प्रादुर्भूतस्य हाईड्रोकार्बनस्यापि शनैः शनैः दहनं भवति यत्फलस्वरूपं मिथाईलस्य इथाइलस्य, अल्कोहलस्य, फार्मिकाम्लस्य एसिटिकाम्लस्य च निर्माणं भवति। अस्यां प्रक्रियायां सुगन्धितपदार्थाः वाष्पीकृताः भूत्वा वायुना सह प्रसरन्ति विस्तृतक्षेत्रं च सुरभयन्ति। तदनन्तरं सूर्यस्य प्रकाशे रासायनिकक्रिया आरभ्यते।सुगन्धितानां धूमयुक्तानां पदार्थानां रासायनिकं संगुणनम् उपचयनं अपचयनं च भवति। अपचयनक्रियाद्वारा वायुमण्डले ऋणविद्युतीयावेशस्य आधिक्यं सञ्जायते। तदनु या वृष्टिः भवति तस्याः जलं सुतरां शुद्धं स्वास्थ्यप्रदं कीटाणुनाशकं च भवति। अनेन वारिणा सम्पूर्णवनस्पतिजगतः हरित्वं परिवर्धते।
सांस्कृतिकपर्यावरणस्य संरक्षणार्थं संस्कृतसाहित्ये पर्याप्तसङ्केताः विराजन्ते। भोगस्य प्रवृत्तिरेव सांस्कृतिकप्रदूषणस्य मूलकारणम्। भोगसंस्कृतिः त्याज्या ऋषीणां मते। अत एव ईशोपनिषदि कथितम् अस्ति-
‘ईशावास्यमिदं सर्वं यत्किञ्च जगत्यां जगत्।
तेन त्यक्तेन भुञ्जीथा मा गृधः कस्य स्विद्धनम्॥‘
त्यागभावेन भोक्तव्यम्। परकीयवस्तून् प्रति न कदापि लोभः कर्तव्यः। संस्कृतसाहित्ये धर्मत्त्वस्य स्थापना वर्तते। धर्मातिक्रमेण लब्धा अपि सिद्धिः न चिराय भवति। धर्मस्यान्तर्गते यानि तत्त्वानि सन्ति तेषां यदि आचरणं सम्यक्रूपेण भवति तदा धार्मिकपर्यावरणं संरक्षितं भविष्यति। ‘धर्मं चर’ इति उपनिषद्वाक्यं तु वर्तते एव। सत्यं तु साक्षाद्धर्मरूपः। सत्यस्य सम्बन्धे अथर्ववेदे उक्तमस्ति-‘तपनो अस्मि पिशाचानाम्’ अर्थात् सत्यरूपः अग्निः राक्षसान् किंवा वैचारिकप्रदूषकतत्त्वानि अपाकरोति। वेदाः सदाचारपालनस्य शिक्षां ददति। सदाचरणशीलाः जनाः अनाचारयुक्तं पर्यावरणं दूरीकुर्वन्ति। आसक्तिः सर्वविधपर्यावरणप्रदूषणस्य मूले आस्ते। अत एव वेदाः उपदिशन्ति-मनुष्येण सदा अनासक्तिभावनया कर्म कार्यमिति। वेदवाक्यमस्ति-
कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः। एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे॥
बौद्धिकपर्यावरणस्य संरक्षणार्थाय वैदिक ऋषिः वदति-‘याश्च पश्चामि यांश्च न तेषु मा सुमतिं कृधि’। साम्प्रतं मनसः प्रदूषणं दरीदृश्यते। यस्य मनः प्रदूषितं सञ्जायते स श्रेयं परित्यज्य प्रेयं प्रति धावति। अस्मात् कारणादेव विभिन्नप्रदूषणानि भवन्ति। यदि मनसः प्रदूषणस्योपरि नियन्त्रणं भविष्यति तदा तु पर्यावरणसंरक्षणं स्वयमेव भविष्यति। मानसिकपर्यावरणस्य संरक्षणाय ऋषिः वदति-‘तन्मे मनः शिवसङ्कल्पस्तु’। शिवसङ्कल्पना हि भारतीयसंस्कृतेः मूलतत्त्वेषु अन्यतमा। ‘सहृदयं सौमनस्यम्’ प्रभृतयः मन्त्राः पारिवारिकपर्यावरणस्य संरक्षणाय आवश्यकाः। ‘सं गच्छध्वं सं वदध्वं..’ प्रभृतयः मन्त्राः सामाजिकपर्यावरणस्य संरक्षणार्थाय आवश्यकाः।
स्पष्टं यत् अस्माकं संस्कृतसाहित्ये पर्यावरणस्य सर्वाणि अङ्गानि वर्णितानि तेषां महत्त्वं जनकल्याणाय विश्वकल्याणाय च उद्घाटितम् अस्ति।पर्यावरणप्रदूषणमुक्तये साधनानि अपि संस्कृतसाहित्ये वर्णितानि सन्ति।
वस्तुतः भारतीयसंस्कृतौ सर्वविधपर्यावरणस्य संरक्षणार्थं सुदृढा उपायाः निर्दिष्टाः सन्ति। अस्यां संस्कृतौ सर्वत्र ईश्वरस्य अस्तित्वं स्वीक्रियते-‘ईशावास्यमिदं सर्वं यत् किञ्च जगत्यां जगत्’। अतः सर्वं पूज्यम्-पृथिवी पूज्या, आकाशः पूज्यः, जलं पूज्यं, वायुः पूज्यः, सूर्यचन्द्रादयः पूज्याः। वृक्षादयः अपि पूज्या।

Please rate this Research Paper

Leave a Reply