मेघदूतस्य प्रकृतिवर्णनम् 5/5 (2)

0
76 views

डा० धनञ्जय वासुदेव द्विवेदी

सहायक प्रोफेसर, संस्कृत विभाग, राँची कालेज,

राँची, झारखण्ड-834008

दूरभाष-09431590113

संस्कृतसाहित्ये कालिदासस्य स्थानं सर्वातिशायित्वेन विलसति। महाकविकालिदासस्य अद्भुतया विलक्षणया प्रतिभया सम्पूर्णमपि विश्वमाश्चर्यचकितं विहितम्। महाकविकालिदासस्य काव्येषु काव्यस्य वर्णनशैलीं नाटकेषु नाट्यकलां गीतिकाव्येषु च सरसं हृदयोद्गारं च वीक्ष्य सहृदयस्य चेतो प्रमुदितं जायते।

स्वकीयकाव्यचमत्कृत्या महा‌कविकालिदासो निखिलेऽपि संसारे ख्यातिम् अवाप। कालिदासस्य काव्येषु विचारगाम्भीर्यमस्ति, संसारस्यानुभवोऽस्ति, बहुमूल्याः सिद्धान्ताः सन्ति। तत्काव्येषु प्रसादगुणस्य अगाधता, माधुर्यगुणस्य मधुरः सन्निवेशः, कोमलक‌ान्तपदानां प्राचुर्यम्, उपमालङ्कारस्याऽपूर्वत्वम्, अलङ्काराणां रमणीयत्वम्, छन्दसां मनोहरत्वम्, भावसौष्ठवञ्चचैतानि पर्याप्तरूपेण विद्यन्ते। यया दृष्ट्या दृश्यते कालिदासकाव्यानि तयैव दृष्ट्या कालिदासकाव्यकलायाः कमनीयत्वमवलोक्यते। तत्काव्येषु विद्यमाना सरससरलसुबोधशब्दाः भावसाम्राज्यञ्चैतेगुणा न केवलं सहृदयानामपितु सामान्यजनानामपि मनांसि मुग्धीकुर्वन्ति। व्यङ्यार्थप्रतिपादनस्य विलक्षणशैली, रसप्रकर्षस्योत्तमं प्रकाशनम्, विस्तृतविषयस्य संक्षेपेण वर्णनम्, वर्ण्यविषयस्य मनोहरक्रमेण स्थापनं तद्रोचकत्वनिष्पादनं स्वाभाविकभावेन लोकोत्तरानन्दप्रदानपद्धतिप्रभृतयोऽनेके विशिष्टाः गुणाः कालिदासकाव्येषु राजन्ते।

कालिदासस्य काव्येषु पदलालित्य-रचनाचातुर्य-कल्पन‌ाशक्ति-प्रकृतिवर्णन-चरित्रचित्रणादीन्यधीत्य विश्वस्यैकैकः पाठकः प्रफुल्लितो जायते।  विश्वविख्यातस्य गीतिकाव्यस्य प्रणेत्रा पीयूषवर्षिणा कविना जयदेवेन कालिदासः कविताकामिन्या विलासत्वेन मन्यमानेन सः ‘कविकुलगुरुः’ इत्युपाधिविभूषितः। महाकविना बाणभट्टेन स्वकीये हर्षचरिते कालिदासप्रणीतकाव्यविषये स्वीयसद्भावं प्रकटयतोक्तम्-

निर्गतासु न वा कस्य कालिदासस्य सूक्तिषु।

प्रीतिर्मधुरसान्द्रासु मञ्जरीष्विव जायते॥[1]

दृश्यश्रव्यभेदेन काव्यानां द्वैविध्यम् अलङ्कारशास्त्रे प्रसिद्धम्। महाकवेः कालिदासस्य अमरकृतिषु दृश्यं काव्यम् अभिज्ञानशाकुन्तलं श्रव्यं च मेघदूतं देशेऽस्मिन् विदेशेषु च महतीं प्रथाम् अलभेताम्। मेघदूतं नाम काव्यं संस्कृतसाहित्यस्य प्रस्फुरत्प्रभरत्नमस्ति। वस्तुतः संस्कृतसाहित्यनभसि उज्ज्वलप्रभावसहितं विराजम‌नेन भानुकल्पेन कालिदासेन सङ्ग्रथितः ‘मेघदूतम्’ सन्देशकाव्येषु प्रथमोद्भूतः प्रथमस्थानीयश्च भवतीति निर्विवादोऽयं विषयः।  काव्यमर्मज्ञस्य सहृदयपाठकस्य दृष्टौ मेघदूतकाव्यं परमाह्लादजनकं लोकोत्तरसन्तुष्टिप्रदायकं च अस्ति। कविकलाधरस्य कालिदासस्य सर्वेषां काव्यानाम् अध्ययनं कृत्वा आधुनिकसमीक्षकशिरोमणिः आचार्यरामचन्द्रशुक्लो भणति यत् कविकुलगुरोः यादृशी एव कीर्तिः तस्य सप्तकाव्यरचनाकारणाद् विद्यते तादृशी एव कीर्तिः तदापि स्यात् यदि तेन अन्यान्यकाव्यरचनां विहाय केवलं मेघदूतस्यैव रचना कृता भवेत्।एतेन मेघदूतस्य सर्वातिशायि महत्त्वमभिव्यज्यते। दूतकाव्यमिदं काव्यकलायाः चूडान्तनिदर्शनम्। अस्मिन् हि जगद्गुरोः भारतस्य सुभव्या सभ्यता संस्कृतिः, विशाला सुखसमृद्धिः, विश्वमङ्गलविधायकं भारतीयजीवनदर्शनम्, देशस्य भौगोलिकम्, ऐतिहासिकं सामाजिकं राजनैतिकं च वैशिष्ट्यं विशदरूपेण चित्रितमास्ते। देशस्य एकतायाः अखण्डतायाश्चापि आकलनं अवलोकनं च कर्तुं शक्यते अत्र।

मेघदूतं नाम प्रकृतिप्रधानं खण्डकाव्यम्। काव्यस्यास्य सौन्दर्यमस्ति प्रकृतिसुषमायाश्चारुतया चित्रणम्। आदितोऽन्तं यावत् काव्यमिदं प्रियाया प्रकृतेरनवद्यानि अवदातानि च विविधानि बहुलानि दृश्यानि प्रस्तवीति कविः। वस्तुतः काव्यमेतत् प्रकृतेरेव काव्यमस्ति। तत्राभ्यन्तरीया बाह्या च प्रकृतिरन्योन्यं गाढमालिङ्गन्ती वीक्ष्यते।चेतनाचेतनयोर्मधुरं संयोगं कारयित्वा तयोरैक्यश्रियञ्च जगतः पुरो वितत्य कविर्यमुपकारं मनोज्ञं जगतश्चकार तदर्थं तत् सर्वथैव कविम्प्रति कृतज्ञतां  वहति। यस्मिन् काव्ये प्रकृति-पुरुषो मेघः स्वयं सन्देशहरः स्यात् मार्गश्च यस्य मेघस्य रहस्यावहज्योतिःपुञ्जपावनं गगनं स्यात् अलकां गन्तुं मेघस्य तरणीया नाना सानुमत्सरित्-कान्तारादिपदार्थाः स्युस्तस्मिन् काव्ये क्वाप्येतादृशं कथं द्रष्टुं शक्यं भवेत् यन्न स्यात् प्रकृतिपेशलम्।

मेघदूते क्वचित् स्निग्धच्छायातरुलसितः पुण्योदकपूतो रामगिर्याश्रमः, क्वचित् कुटजकुसुमान‌ां सौरभम्, क्वचिद् बल‌ाकानां पङ्क्तिः, क्वचिच्चातकानां निवहः, क्वचिदुच्छिलीन्ध्राया वसुधायाः सुन्दरता, क्वचित् स्रोतसां हृदयहारिणी तरलता, क्वचिच्छक्रशरासनस्यच्छटा, क्वचित् सद्यः सीरोत्कषणसुरभिक्षेत्राणां हसन्ती श्रीः, क्वचिच्च मधुकरगुञ्जितकुञ्जानाञ्च लक्ष्मीः दिव्यानेव विभ्रमान् प्रवर्षन्ती लक्ष्यते। वस्तुतः काव्यमिदं प्रकृतेरनुपमा रङ्गशालेव भाति। यथा प्रेक्षागृहे उपविष्टो दर्शको रङ्गमञ्चे विविधानि विचित्र-विचित्राणि दृश्यानि पश्यति तथैवास्य काव्यस्य पाठकोऽपि स्वसम्मुखे मनोहराणि प्रकृतेर्बहूनि रूपाणि नवनवानि प्रेक्षते। विन्ध्यादिकानां महीधराणां कमनीयता कदाप्युपस्थिता भूत्वास्मान् नन्दयति, कदापि स्फुटकमलामोदमैत्रीकषायः क्षिप्रावातोऽस्मान् संस्पृश्य प्रसादयति  कदापि पण्यस्त्रीरतिपरिमलोद्गारीणि शिलावेश्मान्यस्मदीयां कामवासनां जागरयन्ति;  कदापि कनकनिकषस्निग्धा सौदामिनी अस्मान् रञ्जयति; कदापि सगरतनयस्वर्गसोपानपङ्क्तिर्मन्दाकिनी नः पुनाति। ज्ञायते अस्मिन् काव्ये हि वेधसः सकला अपि प्रकृतिः कविना शब्दब्रह्मरूपे परिवर्त्य सम्प्रतिष्ठापितास्ति।

मेघकुलं वर्णयन् यक्षः वदति-हे मेघ! अहं त्वां जगत्प्रसिद्धे पुष्करावर्तकानां कुले प्रसूतं कामरूपिणमिनद्रस्य प्रधानपुरुषत्वेन वेद्मि। अतो भाग्यवशाद्वियुक्तपत्नीकोऽहं त्वयि याचकत्वेनोपस्थितः। सः कथयति यत् अधिकगुणे पुंसि याचना निष्फलाऽपि ईषत्प्रिया, एतद्वैपरीत्येन अधमे सा सफला सत्यपि ईषदि न प्रिया-

जातं वंशे भुवनविदिते पुष्करावर्तकानां

जानामि त्वं प्रकृतिपुरुषं कामरूपं मघोनः।

तेनार्थित्वं त्वयि विधिवशाद् दूर्बन्धुर्गतोऽहं

याच्ञा मोघा वरमधि गुणे नाधमे लब्धकामा।।[2]

कदाचिद् इन्द्रधनुषखण्डमणिप्रभासमन्वितो मेघः उज्ज्वलकान्तिसम्पन्नेन चित्रविचित्रेण बर्हेण गोपवेषो भगवान् विष्णुरिव प्रतीयते। इन्द्रायुधस्य शोभा दर्शनीया भवति। मेघं सम्बोधयन् यक्षः कथयति- हे मेघ! पद्मरागाऽऽदिमणीनां संमिश्रणमिव मनोहरमेतदिन्द्रायुधं परतो वाल्मीकविवराद् दृष्टिग्राह्यं भवति, येनोज्ज्वलकान्तिसम्पन्नेन पिच्छेन गोपवेषस्य कृष्णस्येव त्वदीयं श्यामं शरीरं शोभाऽतिशयसम्पन्नं भविष्यति-

रत्नछायाऽऽव्यतिकर इव प्रेक्ष्यमेतत्पुरस्ता-

द्वल्मीकाग्रात्प्रभवति धनुष्खण्डमाखण्डलस्य।

येन श्यामं वपुरतितरां कान्तिमापत्स्यते ते

बर्हेणेव स्फुररिरुचिना गोपवेषस्य विष्णोः।।[3]

दशार्णदेशस्य प्राकृतिकशोभा अतीव दर्शनीया वर्तते। मेघं सम्बोधयन् यक्षः वदति-हे मेघ! त्वयि निकटवर्तिनि सति दशार्णदेशोपवनानि केतकीपुष्पैर्हरितवर्णप्राचीरयुक्तानि गामररथ्यावृक्षाश्च काकाऽऽदिग्रामपक्षिणां कुलायनिर्माणैः सङ्कीर्णा जम्बूवनानि च परिपक्वफलैः श्यामानि भविष्यन्ति। एषं च तत्र हंसा वर्षाऽऽरम्भकालं वीक्ष्य कतिपयदिनानि यावत् स्थास्यन्ति-

पाण्डुच्छायायोपवनवृतयः केतकैः सूचिभिन्नै-

र्नीडारम्भैर्गृहबलिभुजामाकुलग्रामचैत्याः।

त्वय्यासन्ने परिणतफलश्यामजम्बूवनान्ताः

सम्पत्स्यन्ते कतिपयदिनस्थायिहंसा दशार्णाः।।[4]

महाकविना कालिदासेन मेघदूते उद्दीपनऽऽलम्बनेति द्विविधायाः प्रकृतेर्वर्णनं विहितम्। तत्र वन-पर्वत-नद्यादयः सन्त्याधारा आलम्बनात्मिकायाः प्रकृतेः। एकतस्तु कालिद‌ासो ‘धूमज्योतिः सलिलमरुतां सन्निपातः क्व मेघः’ इत्युक्त्वा मेघं धूमाग्निजलवायूनां समुदायरूपं मनुते, अन्यतश्च सः मेघं वियोगोद्दीपकत्वेन वर्णयति। तथा हि-

तस्य स्थित्वा कथमपि पुरः कौतिकाधानहेतोः

अन्तर्वाष्पश्चिरमनुचरो राजराजस्य दध्यौ।

मेघालोके भवति सुखिनोऽप्यन्यथावृत्ति चेतः

कण्ठाश्लेषप्रणयिनि जने किं पुनर्दूरसंस्थे।।[5]

अत्र कथितमस्ति यत् यक्षो वाष्पवृत्तिं निरुध्याऽभिलाषोत्पत्तिकारणस्य मेघस्याग्रे कष्टाऽतिशयेन स्थित्वा चिरं चिन्तयामास। मेघदर्शने कान्त‌ासहितस्यापि जनस्य चित्तमन्यप्रकारं वर्तते, कण्ठालिङ्गनप्रणयिन्यां प्रियतमायां पुनः किं कथनीयम्।

यद्यपि स यक्षोऽष्टौ मासान् रामगिर्याश्रमेषु यापितवान् किन्तु आषाढस्य प्रथमदिवसे यदा सः आश्लिष्टसानुं मेघं ददर्श तदा तत्प्रियावियोगजन्यं दुःखमत्यधिकमुद्दीप्तं जातम्। तथा चाभिलाषोत्पत्तिकारणस्य तस्य पुरः कथमपि किञ्चित्कालं स्थित्वाऽन्तर्वाष्पं दधान। यक्षस्य हृद्येवमासीत् यत् मेघो यथा मामुद्दीपयति तथैव यदि मम प्रियामप्युद्दीपयेत्तदाऽवश्यमेव सा न भविष्यतीति वनिता जीवितालम्बनार्थी सः स्वपत्नीं प्रति स्वकुशलवृत्तं तदाश्वासनवचनं वा प्रेषयितुमतीवोत्सुकः सञ्जातः। सः कामार्तः सन् चेतनाचेतनविवेकशून्यो जातः, अत एव सन्देशप्रेषणार्थं मेघमुक्तवान्-‘सन्देशं मे हर धनपतिक्रोधविश्लेषितस्य’ इति। मेघो न स्याच्चेत् यक्षवियोगिद्दीपनम्, सन्देशार्थं प्रार्थना मेघस्य दौत्यं किमपि न स्यात्, अतः मेघस्योद्दीपनविलास इति वक्तुं युज्यते।

उत्तरमेघे उद्धीपनात्मिकायाः प्रकृतेः प्रभूततरा सामग्री दृश्यते। चन्द्रिकाकल्पप्रसून-कमल-कुन्द-लोध्र-कुरबक-शिरीष-नीपादीनि पुष्पा‌णि उद्दीपनात्मिकायाः प्रकृतेः प्रातिनिध्यं कुर्वन्ति। अलकापुरी सततं शङ्करशिरःस्थितचन्द्रचन्द्रिकाचमत्कृता अस्ति। चन्द्रिका विषागार एव भवतीति सर्वथा प्रसिद्धमस्ति।

अलकापुर्याः प्राकृतिकसुषमायाः वर्णनं कृत्वा यक्षः कथयति-

हस्ते लीलाकमलमलके बालकुन्दानिविद्धं

नीता लोध्रप्रसवरजसा पाण्डुतामानने श्रीः।

चूडापाशे नवकुरबकं चारू कर्णे शिरीषं

सीमन्ते च त्वदुपगमजं यत्र नीपं वधूनाम्।।[6]

अत्र वर्णितमस्ति यत् अलकायां कामिनीनां करे कमलं, चूर्णकुन्तलेषु माघ्यपुष्पगुम्फनम्, मुखशोभा लोध्रपुष्परागेण पाण्डुः, केशपाशे वासन्तं नवकुरबकपुष्पं श्रोत्रे सुन्दरं शिरीषपुष्पं, केशसीम्नि च त्वदाभिर्भावजनितं कदम्बपुष्पं वर्तते।

अलकापुर्याः प्राकृतिकसुषमायाः वर्णनं कृत्वा मेघः कथयति-अलकापुर्यां पादपाः सर्वदा कुसुमयुक्ताः मदोन्मत्तभ्रमरैः शब्दायमानाः दृश्यन्ते। कमलिन्योऽनवरतकमलाः हंसश्रेणिपरिवेष्टिताः,  गृहमयूराः सततोज्ज्वलबर्हा, रजन्यश्च नित्यचन्द्रिकोज्ज्वला अवलोक्यन्ते। अलकापुर्यां सूर्योदये सति गतिवशाद् चूर्णकुन्तलस्रस्तैः मन्दारपुष्पैः स्वर्णलताखण्डैः, श्रोत्रपतितैः स्वर्णपद्मैः शिरःस्थितैर्मौक्तिकसरैः स्तनत्रुटिततन्तुभिः हारैश्चाभिसारिकाणां रात्रिमार्गः सङ्केतितो भवति।

यक्षपत्न्यास्तु गृहाङ्गणे एव मरकतबद्धसोपानमार्गा वापी वर्तते, तत्तीरे च वर्षामेघप्रियो मयूरो नृत्यति। तत्र कुरबकवृक्षावरणस्य माधवीलतामण्डपस्य समीपे वर्तमानो रक्ताशोकः कान्तः केसरश्चापि किमपि अधिकमेवोद्दीपकतां सम्पादयतः।

मेघदूते वर्णिताः रेवा-वेत्रवती-निर्विन्ध्या-शिप्रा-गम्भीरा-चर्मण्वती-गङ्गादिनद्यः सन्ति आलम्बनात्मिकायाः प्रकृतेः प्रतिनिधिभूताः। मेघदूते एतासु नदीषु निर्विन्ध्या-गम्भीरादिभिर्नदीभिः सह मेघस्य सम्बन्धस्तथैच वर्णितोऽस्ति यथा नायिकाभिः सह न‌ायकस्य जायते। मेघो वेत्रवत्याः नद्याः जलं तथैव पिबति यथा कश्चिन्नायकः कस्याश्चिन्नायिकायाः सभ्रूभङ्गं मुखं पिबति, कामुकस्त्वस्याऽविकलं फलं च लभते। तथाहि-

तेषां दिक्षु प्रथितविदिशालक्षणां राजधानीं

गत्वा सद्यः फलमविकलं कामुकत्वस्य लब्ध्वा।

तीरोपान्तस्तनितसुभगं पास्यसि स्वादु यस्मात्

सभ्रूभङ्गं मुखमिव पयो वेत्रवत्याश्चलोर्मि।।[7]

यक्षः पुनः कथयति- हे मेघ! तरङ्गचलनेन शब्दायमानाः पक्षिणो रसनागुणा इव वर्तन्ते उपलस्खलनेन मनोहरं यथा तथा प्रवहन्त्या नाभिसदृशं जलभ्रमं दर्शयन्त्याः कामिनीसदृश्यास्तस्या निर्विन्ध्यायास्त्वं पथि रसमनुभवः यतः कामिनीनां कान्तेषु विलासप्रदर्शनमेव प्राथमिकं प्रार्थनावाक्यं भवति। तथा हि-

वीचिक्षोभस्तनितविहगश्रेणिकाञ्चीगुणायाः

संसर्पन्त्याः स्खलितसुभगं दर्शितावर्तनाभेः।

निर्विन्ध्यायाः पथि भव रसाभ्यन्तरः सन्निपत्य

स्त्रीणामाद्यं प्रणयवचनं विभ्रमो हि प्रियेषु।।[8]

परिणतफलशोभाभिः वनाम्रैश्छन्नोप‌ान्तः आम्रकूटपर्वतः कृष्णवर्णे मेघे आरूढे सति पृथिवीरूपिण्याः नायिकायाः स्तन इव शोभते यो मध्ये श्यामः शेषविस्त‌ारे च पाण्डुवर्णो भवति-

छन्नोपान्तः परिणतफलशोभाभिः क‌ाननाम्रैस्त्वय्यारूढे शिखरमचलः स्निग्धवेणीसवर्णे।

नूनं यास्यत्यमरमिथुनप्रेक्षणीयामवस्थायां मध्ये श्यामः स्तन इव भुवः शेषविस्तारपाण्डुः।।[9]

गम्भीरायाः नद्याः जलं तथैव निर्मलमस्ति यथा उदात्तनायिकायाश्चेतः प्रसन्नं स्यात्। तथा च तत्र चञ्चलमीनोल्लुण्ठनावलोकनानि कुमुदधवलानि सन्ति। तथा हि-

गम्भीरायाः पयसि सरितश्चेतसीव प्रसन्ने

छायात्मापि प्रकृतिसुभगो लप्स्यते ते प्रवेशम्।

तस्मादस्याः कुमुदविशदान्यर्हसि त्वं न धैर्या-

न्मोघीकर्तुं चटुलशफरोद्वर्तनप्रेक्षितानि।।[10]

निष्कर्षतः कथितुं शक्यते यत् मेघदूतं का‌व्यं अस्माकं समक्षे प्रकृतिदेव्याः नयनाभिरामां छविं प्रस्तौति।

[1] हर्षचरिते

[2] पूर्वमेघदूते-6

[3] तत्रैव-15

[4] तत्रैव-23

[5] तत्रैव-3

[6] उत्तरमेघे-2

[7] पूर्वमेघे-24

[8] तत्रैव-28

[9] तत्रैव-18

[10] तत्रैव-40

Please rate this Research Paper

Leave a Reply