वैदिकवाङ्मये वर्णितानि काव्यतत्त्वानि 5/5 (3)

0
60 views

वैदिकवाङ्मये वर्णितानि काव्यतत्त्वानि

डा०धनञ्जयवासुदेवद्विवेदी

सहायकप्रोफेसरः, संस्कृतविभागस्य, राँचीकालेजस्य

झारखण्डस्थस्य-834008

Email-dvd74@rediffmail.com

दूरभाषसङ्केत-9431590113

 

नमोऽस्तु तस्यै श्रुतये यां दुहन्ति पदे पदे।

ऋषयः शास्त्रकाराश्च कवयश्च यथामतिः।।

एतद्देशस्य भारतस्य महत्सौभाग्यम् आस्ते यत् अत्र विश्वस्य प्राचीनतमम् अतिविपुलं सुसमृद्धं संसारस्य अज्ञानान्धकारापहं विश्वकल्याणविधायकं वैदिकवाङ्मयं विद्यते। वाङ्मयेऽस्मिन् मुख्यतः चत्वारो वेदाः, शताधिकम् उपनिषदः, अनेके ब्राह्मणग्रन्थाः, आरण्यकग्रन्थाः, निरुक्तव्याकरणकल्पशिक्षाज्योतिषप्रभृतिवेदाङ्गग्रन्थाश्च। वाङ्मयमिदं सर्वविधशास्त्राणां पुराणानाम् इतिहासस्य सुविस्तृतकाव्यसाहित्यस्य च अक्षयं स्रोतं वर्तते। अथाभ्युदयनिःश्रेयससिद्धिहेतुकस्य धर्मस्य परमार्थभूतसिद्धान्तनिचयावगतेः साधनभूता जगतामैहिकामुष्मिकपरममङ्गलसम्पदानाय भगवता करुणावरुणालयेनाविर्भावं प्रापिता भगवन्तो वेदा एवास्माकं धर्मसर्वस्वमिति केषां शास्त्रज्ञानजुषां विदुषां नावगतम्? वेदो नाम तत्त्वदर्शिनामृषीणां चिरन्तनतपसः साधनायाश्च प्रतिफलम्। अप्रतिमं निदर्शनमेतदार्यमनीषायाः।

सुविदितमेव तथ्यं यत् मानवसमाजस्य सर्वविधकल्याणमुद्दीश्य काव्यसृष्टिः प्रकल्पिता नैसर्गिकप्रतिभाशालिभिः लोकोत्तरवर्णनानिपुणैः कविभिः। कविभणितिः अत्यन्तप्रभावकारिणी भवति। रामायणादिकाव्यं पठित्वा तत्क्षणमेव सहृदयाः लोकोत्तराह्लादस्य अनुभवं कुर्वन्ति।काव्यस्यैवैष महिमा वर्तते यदिदं समस्तेषु शास्त्रेषु समादृतं दृश्यते। काव्यस्य मूलं वेदाः एव। काव्यशास्त्रीयसिद्धान्तानां मूलमपि वेदाः। काव्यनिर्माणस्य प्रेरणा तस्य प्रयोजनञ्च वेदे निर्दिष्टमस्ति। काव्यशब्दस्य कविशब्दस्य च चर्चा वैदिकवाङ्मये प्राप्यते। ऋग्वेदः कथयति- यो अध्वराय पारिणीयते कविः[1],   अग्निर्होता कविक्रतुः[2], अग्निर्विश्वानि काव्यानि विद्वान्[3], आपेवानामभव केतुरग्ने मन्द्रो विश्वानि काव्यानि विद्वान्[4], ब्रह्मा देवानां पदवीः कवीनाम्।[5]

काव्यस्य बाह्यतत्त्वम् अन्तस्तत्त्वम् इति तत्त्वद्वयमपि सुष्ठु विवेद वैदिकः कविः। सत्यप्यन्तस्तत्त्वस्य उत मनस्तत्त्वस्यो उताहो हृत्तत्त्वस्य प्राधान्ये बाह्यतत्त्वस्य नादरूपस्य महत्त्वं कथमपि न हीयते। वस्तुतस्तूभयोः पृथक्करणमपि न सम्भवति। भावप्राबल्यानुरूपं रसानुकूलञ्च नादसौन्दर्यमपि समवायसम्बन्धेनोद्भवति प्रतिभानवतः कवेः। ऋग्वेदे बहु बहुशश्च प्रतिपादितं यद् यथा कोऽपि तक्षा दारुं तष्ट्वा रथं निर्माति तथैवाहं सूक्तं करोमि- अहं तष्टेव बन्धुरं पर्यचामि हृदा मतिम्।[6]  ततश्चैव तक्षन्व्यासकीरिप्रभृतयश्शब्दा रूपकरूपेण कविपर्यायवाचिनः प्रयुक्ताः ऋग्वेदे। नव्य-भद्र-सुकृत-स्वया-अतक्षम् इत्यादीनि पदानि वैदिककाव्यसमीक्षाप्रसङ्गेऽतीव महत्त्वपूर्णानि सन्ति। वेदानुशीलनेन भूयसां प्राचीनानामर्वाचीनानाञ्च कवीनां निर्देशस्स्फुटं परिचीयते। कविताया वैशिष्ट्यञ्च तदीया मौलिकतां मेनिरे वैदिकर्षयः। सुहोत्रो भारद्वाजस्स्वकीयां ऋचमपूर्व्यां जुघोष।[7] बार्हस्पत्यस्य भरद्वाजस्य कविता ‘नव्यसी’,’शुचिः’ चास्ति।[8] रेजुर्वैश्वा-मित्रस्स्वकवितायां सममेव नवीनतां पवित्रतां व्यापकतामद्वितीयताञ्च निर्दिशन्नाह-‘समानमस्या अनपावृदर्चक्ष्मया दिवो असमं ब्रह्म नव्यम्’[9] इति। ‘सूर्यस्य दुहितुः’ कल्पना  ‘सरस्वत्याः’ कल्पना चापि वैदिककवेः काव्यीयचेतनामाविष्करोति।

क्रान्तदर्शिणो हि कथ्यन्ते कवयः। निरुक्तकारः कथयति यत् कववतीति कविः कवृ वर्णने इत्यस्मात्’।,अर्थात् यः खलु कवयति स कविः। वेदभाष्यकाराः कविशब्दं क्रान्तिकर्मा क्रान्तदर्शी क्रान्तप्रज्ञश्चेत्याद्यर्थान्तरेषु प्रयुञ्जाना दृश्यन्ते।

काव्ये दोषाभावः अपेक्षितः। इत्थं विचार्य कथितम‌स्ति-

सक्तुमिव तितिउना पुनन्तो यत्र धीरा मनसा वाचमक्रत।

अत्रा सखायः सख्यानि जानते भद्रैषां लक्ष्मी निर्हिताऽधिवाचि।।

विविधकाव्यतत्त्वानां दृष्ट्या वेदानां आमूलचूलाध्ययनमावश्यकमेवेति मन्ये। काव्यस्य तत्त्वानि एतादृशानि सन्ति येषां सन्निवेशेन काव्यसृष्टौ लोकरञ्जकगुणाः स्वतः प्रादुर्भवन्ति तस्मात् काव्यं सर्वग्राह्यम्। तानि च इम‌ानि प्रमुखतत्त्वानि अलङ्कारः, रीतिः, वक्रोक्तिः, औचित्यम्, ध्वनिः रसश्च। कविप्रतिभामवाप्य इमानि तत्त्वानि काव्ये अपूर्वं सौन्दर्यं उत्पादयन्ति।

इदमुच्यते यच्छिक्षाकल्पव्याकरणनिरुक्तच्छन्दोज्योतिषां वेदोपस्कारकत्वात्तदङ्गत्वं यथा सिध्यति तथैवालङ्कारशास्त्रस्यापि वेदोपकारकत्वात्सप्तमं वेद‌ाङ्गत्वं सिध्यतीति। सत्यमेवैतद्यदलङ्कारशास्त्रं काव्यस्वरूपविवेचकत्वाल्लौकिकसाहित्यसम्बद्धं किन्तु तत्प्रयोजनीभूतस्य काव्यसाहित्यस्य तु प्रियासम्मततया प्रवृत्तिनिवृत्युपदेशद्वारेण भावशोधनपूर्वकं सकुकुमारमतीनामपि प्रतिभाविशदीकरेण वेदशास्त्रादौ सम्मुखीकरणाद्वेदाङ्गत्वं सिध्यत्येव।

साम्प्रतं अस्माभिः वैदिकवाङ्मये वर्णित‌ानि काव्यतत्त्वानि समुपस्थातव्य‌ानि। ऋग्वेदे वृत्त्यनुप्रासश्छैकानुप्रासो यमकञ्चेत्यलङ्कारत्रयं पदे पदे नयनगोचरां याति। दिङ्मात्रं यथा-

हंसः शुचिषद् वसुरन्तरिक्षसद् धोता वेदिषदतिर्थिर्दुरोणसत्।

नृषद् वरसदृतसद् व्योमसदबजा गोजा ऋतजा अद्रिजा ऋतम्।।[10]

वैदिकमन्त्रेषु अलङ्कारस्य शोभा अवलोकनीया अस्ति।उपमालङ्कारस्य सौन्दर्यं भावप्रवणत्वञ्च नूनमावर्जयति चित्तं सहृदयानाम्। तद्यथा-

उत त्वः पश्यन्न ददर्श वाचमुत त्वः शृण्वन्न शृणोत्येनाम्।

उतो त्वस्मै तन्वं विसस्रे जायेव पत्य उशती सुवास‌ाः।।[11]

अत्र पूर्णा श्रौती वाक्यगा उपमा। लुप्तोपमाया नैक‌ानि निदर्शनानि दृग्गोचरीभवन्ति। दिङ्मात्रं यथा-

अधा मित्रो न सुधितः पावकोऽग्निर्दीदाय मानुषीषु विक्षु।[12]

कस्यापि राष्ट्रस्य सम‌जस्य च संस्कृतेः सभ्यताया धर्मस्य दर्शनादिकस्य च विशदं चित्रं वयं तदीयसाहित्ये प्रयक्तासु उपमासु सम्यगवलोकयितुं पारयामः। ऋग्वेदीयोपमानामाधारेण तदानीन्तनसमाजस्य छविदर्शनं नूनमेव मनः रञ्जयति। दृशाऽनया उपमानां विभाजनमेवं विधातुं पार्यते-

  1. देवतासम्बन्ध्यपमानवत्य उपमाः
  2. पुराणेतिहासाभ्यामात्तोपम‌नशालिन्य उपमाः
  3. यज्ञसम्बन्ध्युपमानयुक्ता उपमाः
  4. मानवक्षेत्रादात्तोपमानवत्य उपमाः
  5. पशुसम्बन्ध्युपमानवत्य उपमाः
  6. युद्धक्षेत्राद‌ात्तोपमानशालिन्य उपमाः
  7. प्राकृतिकोपम‌ानवत्य उपमाः

एतेऽपि भेदाः पुनर्नैकेषूपभेदेषु संविभक्तुं पार्यन्ते। तद्यथा- मानवक्षेत्रीयोपमानानां विचारप्रसङ्गे जातेर्ज्ञातेश्चात्तान्युपमानानि। गृहप्रास‌ादादीनामलङ्काराणां वेशभूषाणां मनोरञ्जनसाधनानां कलानाञ्चोपमानत्वेन प्रयोग इत्यादि। उपरिलिखितप्रकारेणोपमानामध्ययनेन वैदिकसमाजविषये च नैकानि महत्त्वपूर्णानि तथ्यानि समासादयामः।

ऋग्वेदस्य अयं मन्त्रः उपमाचतुष्टयसम्पन्नोऽस्ति-

अभ्रातेव पुंस एति प्रतीची गतीरुगिव सनये धनानाम्।

जायेव पत्य उशती सुवासा उषा हंसेव निरणीते अप्सः।।[13]

उपमाया अनन्तरं ऋग्वेदे रूपकमेव महत्त्वपूर्णोऽलङ्कारः, उपमाया अतिशयसामीप्यञ्च अत्र हेतुः। यथाकथमपि साम्याभिव्यञ्जनमेव वैदिकरूपकस्य वैशिष्ट्यं वर्तते। तद्यथा-

उदुत्यं जातवेदसं देवं वहन्ति केतवः।[14]

अत्र सूर्यरश्मिषु अश्वस्यारोपः।

तं नाकमर्यो अगृभीतशोचिषं।

रशत् पिप्पलं मसतोवि धुनुथ।[15]

अत्र नभसि वृक्षत्वारोपः।

तथापि नैकेषां रूपकाणां काव्यीयसौन्दर्यं निभालनीयमेव-

दिवो सर्वत्र उरुपक्षा उदेति।

मध्ये निहितः पृथ्विरश्मा।।

अधोलिखिते मन्त्रे किमपि शोभनमेकदेशविवर्तिरूपकं दृश्यते-

प्राता रथो नवो योजि सस्निश्चतुर्युगस्रिकशः सप्तरश्मिः।

दशारित्रो मनुष्यः स्वर्षाः स दृष्टिभिर्मतिभी रंह्यो भूत्।।[16]

एवमेवाग्निसूक्तेषु ‘घृतपृष्ठः’, ‘घृतकेशः’, ‘शोचिष्केशः’, ‘हिरण्यदन्तः’ इत्यादिषु मनोहारि रूपकं दरीदृश्यते।

विरोधाभासस्य कमनीयता यथा-

नीचा वर्तन्ते उपरि स्फुरन्त्य अहस्तासो हस्तवन्तं सहन्ते।

दिव्या अंगारा हरिणे न्युप्ताः शीता सन्तो हृदयं निर्दहन्ति।।[17]

अर्थात् नीचैः तिष्ठन्ति तथापि स्फुरणं कुर्वन्ति, हस्तरहिताः सन्ति तथापि हस्तवन्तः वशीकुर्वन्ति। दिव्या अंगाराः सन्ति परन्तु यदा ते निक्षिप्यन्ते तदा ते शीतला भूत्वा हृदयं निर्दहन्ति।

अतिशयोक्त्यलंकारस्य शोभा द्रष्टव्या मन्त्रेऽस्मिन्-

द्वा सुपर्णा सयुजा सखाया समानं वृक्षं परिषस्वजाते।

तयोरन्यः पिप्पलः स्वाद्वत्त्यनश्नन्नन्यो अभिचाकशीति।।[18]

परमसारगर्भितोऽयं मन्त्रः। अत्र मानवशरीरं पिप्पलवृक्षेव प्रदर्शितमस्ति। ईश्वरः जीवश्च द्वौ पक्षिणौ इव मित्रवत् अस्य शरीररूपवृक्षस्य हृदयनीडे निवसतः। प्रारब्धानुसारं यानि सुखदुःखरूपाणि कर्मफलानि उपलभ्यन्ते तान्येव पिप्पलस्यास्य फलानि सन्ति। तत्र जीवात्मरूपः एकः पक्षी तत्फलं प्रेम्णा आस्वादयति।हर्षविषादं चानुभवन् स्वकर्मफलं भुङ्क्ते। अपरः ईश्वररूपपक्षी कदापि इमानि फल‌ानि न अश्नाति, केवलं तत् विलोकयन् तिष्ठति।अर्थात् ईश्वरः शरीरे प्राप्तसुखदुःखादीनां नास्ति भोक्ता। स केवलं साक्षिरूपेण विराजते। प्रायः सर्वे काव्यालङ्काराः वैदिकवाङ्मये उपलभ्यन्ते।

सुप्रसिद्धेऽक्षसूक्ते विभावनया मनोहारि उदाहरणं वर्तते-

नीचाः वर्तन्त उपरिस्फुरन्त्यहस्तासो हस्तवन्तं सहन्ते।

दिव्या अङ्गारा हरिणे न्युप्ताः शीताः सन्तो हृदयं निर्दहन्ति।।

एवमेव विख्याते-

इन्द्रं मित्रं वरुणमग्निमाहुरथो दिव्यः स सुपर्णो गुरुत्मान्।

एकं सद्विप्रा बहुधा वदन्ति अग्निं यमं मातरिश्वानमाहुः।।[19]

रससिद्धान्तस्य यादृशं सर्वग्राह्यवचनानि वैदिकवाङ्मये उपलभ्यन्ते तादृशानि अन्यत्र दुर्लभानि। तत्र आत्मविवेचनं भूयिष्ठं उपपादितमास्ते। निष्कर्ष‌तः इदं प्रदर्श्यते यत् आत्मसाक्षात्कार एव आत्यन्तिकसुखस्य मूलमस्ति। एतत्कृते ‘रस’ शब्दस्य प्रयोगो विहितोऽस्ति-

रसो वै सः

रस ह्येवायं लब्ध्वाऽऽनन्दीभवति

वेदमन्त्रेषु शृङ्गारादीनां रसानां परिपाकः सहृदयजनान् आह्लादयति। शृङ्गाररसस्य प्रसङ्गः वर्तते मन्त्रेऽस्मिन्-

बतो बतासि यम नैव ते मनो हृदयं चाविदाम।

अन्या किल त्वा कक्ष्येव युक्तं परिष्वजाते लिदुजेव वृक्षम्।।[20]

उषःसूक्तेषु शृङ्गाररसस्य छटा दर्शनीयैव। तथाहि-

‘कन्येव तन्वा शाशदानां एषि देवि देवमियक्षमाणम्।

सस्मयमाना युवतिः पुरस्तादाविर्वक्षांसि कृणुषे विभाती।।‘[21]

स्ववल्लभं सूर्यं दृष्ट्वा तरुण्या उषसो मनो नृत्यदास्ते स्मयमानवदना च स‌ा दयिताभिमुखं प्रतिष्ठते, प्रवृत्ते च रत्युत्सवे स्वकीयं वक्षः विवृणोति। अत्र स्थायिभावो रतिः। आलम्बनं सूर्यः। स्मितमभिसरणञ्चानुभावः हर्षश्च सञ्चारी।

ऋग्वेद एव श्यायाश्वो नाम कश्चिद् ऋषिर्विरहविह्वलो राजानं रथवीतिनं प्रति तस्य दुहितरमभिलक्ष्य रात्र्या स्वप्रणयसन्देशं प्रेषयति। प्रकरणेऽत्र विप्रलम्भशृङ्गारवर्णनं बलात् स्पृशति चेतस्सचेतसाम् एतादृशानि नानाविधानि प्रकरणानि ऋग्वेदे दृष्टिपथमुपयान्ति।

वीरकाव्यस्य रोमहर्षकरं वर्णनं वयमिन्द्रसूक्तेषु लभामहे। ऋतचक्रप्रर्वतयितारं राजानं वरुणं प्रति निजापराधशङ्कया भक्तो भक्तिभावनया ओतः प्रोतश्च सन् उच्चैर्निनाद-

उदुत्तमं मुमुग्धि नो वि पाशं मध्यमं चृत।

अवाधमानि जीवसे।।[22]

अपां मध्ये तस्थिवांसं तृष्णाविदज्जरितारम्।

मृडा सुक्षत्र मृडय।।[23]

वीररसस्य परिपाकः वर्तते अत्र-

यस्मान्न ऋते विजयन्ते जनासो यं युध्यम‌ाना अवसे हवन्ते।

यो विश्वस्य प्रतिमानं बभूव यो अच्युतच्युत जनास इन्द्रः।।[24]

एतत्सर्वमाधारीकृत्यैव काव्यशास्त्रप्रणेत‌ारः क‌ाव्ये रसस्यैव प्राधान्यं स्वीकृतम्। वाग्देवतावतारः आचार्यमम्मटः प्रतिपादयति- पानकरसन्यायेन चर्व्यमाणः पुर इव परिष्फुरन् हृदयमिव प्रविशन् सर्वाङ्गीणमिवालिङ्गन् अन्यत् सर्वमिव तिरोदधत् ब्रह्मास्वादमिवानुभावयन् अलौकिकचमत्कारी शृङ्गारादिको रसः।[25]

वेदेभ्यः एव रसनिष्यन्दिनः नाट्यकाव्यस्य समुत्पत्तिः सञ्जाताऽस्ति इति दृढं मन्यते भारतीयाचार्यैः। आचार्यप्रवरो भरतमुनिः कल्पस्थायिनि नाट्यशास्त्रे रहस्यमिदं विशदं विवृणोति। सामान्यजनानां क्लेशापनयनार्थं यथेष्टशान्तिप्रदानार्थं च देवानां प्रार्थनाम् उरीकृत्य ब्रह्मा चतुर्वेदाङ्गसंभवं सर्ववर्णरुचिकरं पञ्चमं वेदं नाट्यशास्त्रं नाट्यवेदं वा रचयामास। स वेदचतुष्टयाद् नाट्यशास्त्रोपयुक्तं तत्त्वचतुष्टयं गृहीतवान्। ऋग्वेदात् पाठ्यम्, सामवेदात् गीतं, यजुर्वेदात् अभिनयम्, अथर्ववेदाच्च रसतत्त्वम्। एवं पञ्चमोऽयं वेदः सर्ववर्णमनोरञ्जकत्वेन आविर्भवत्। उक्तं च नाट्यशास्त्रे-

तस्मात् सृजापरं वेदं पञ्चमं सार्ववर्णिकम्।।

एवं सङ्कल्प्य भगवान् सर्ववेदाननुस्मरन्।

नाट्यवेदं ततश्चक्रे चतुर्वेदाङ्गसम्भवम्।।

जग्राह पाठ्यमृग्वेदात् सामभ्यो गीतमेव च।

यजुर्वेदादभिनयान् रसानाथर्वणादपि।।[26]

मुनिना भरतेन ऋग्वेदादिवेदभागान्नाट्यतत्त्वमादाय विरचितं महनीयं नाट्यशास्त्रं निहितं च यत्र बीजं पाठ्यस्य गीतस्याभिनयस्य रसस्य चापि। ऋग्वेदस्य संवादसूक्तेषु नाट्यतत्त्वानां मूलं दृग्गोचरी भवति। तेषु च यथा अगस्त्य-लोपामुद्रा[27], यम-यमी[28], पुरूरवो-उर्वशी[29] इति। ऋग्वेदस्य संवादसूक्तान्येव नाट्यतत्त्वानामुत्पत्तिस्थानानि। श्रव्यकाव्ये च गद्यपद्यगीतिकाव्यानामुत्सोऽपि विद्यते। ऋग्यजुस्सामपदं चास्य विभागस्यैव प्रयोजकं तत्र। ऋगिति पद्यकाव्यस्य यजुसिति गद्यकाव्यस्य साम इति च गीतिकाव्यस्याभिदायकं पदम्।

काव्यशास्त्रे काव्यस्यात्मा ध्वनिः इति बहुमान्यसिद्धान्तोऽस्ति। अस्यापि बीजं वैदिकवाङ्मये विद्यते। श्रीमद्भागवतमहापुराणं तथ्यमिदं विशदं प्रकाशयति-

परोक्षवादवेदोऽयं बालानामनुशासनम्।[30]

अर्थात् वेदः परोक्षवादात्मको (यत्र शब्दार्थः कश्चिदन्यः प्रतिभाति तस्य तात्पर्यायः कश्चिद् विलक्षण एव प्रतीयते स परोक्षवादः निगद्यते) वरीवर्ति। अयं कर्मणां निवृत्त्यर्थं कर्मविधानं करोति। यथा बालकाय मोदकस्य प्रलोभं प्रदाय कट्वौषधिं दीयते तथैव वदः तत्त्वज्ञानविहीनेभ्यः स्वर्ग‌ादिसुखस्य प्रलोभं प्रदाय तान् श्रेष्ठकर्मकरणे प्रवर्तयति। वस्तुतः वेदेषु यत् स्वर्गादिरूपफलस्य वर्णनमास्ते तस्य आशयः नास्ति फलस्य सत्यप्रतिपादनम् अपितु तदभिप्रायोऽस्ति सत्कर्मसु रुचिजननम्-

वेदोक्तमेव कुर्वाणो निःसङ्गोऽर्पितमश्वरे।

नैष्कर्म्यां लभते सिद्धिं रोचनार्थाफलश्रुतिः।।[31]

इत्थं सुस्पष्टमिदं तथ्यमिदमस्ति यत् सर्वे वेदाः ध्वनिप्रधानाः।

वक्रोक्तिः काव्यजीवितम् इत्ययमपि सिद्धान्तः विशदीकृतः आचार्यकुन्तकेन। अस्यापि आधारः वैदिकमन्त्रा एव। यथा हि अयं मन्त्रः-

चत्वारि शृङ्गा त्रयोऽस्य पाद‌ा द्वे शीर्षे सप्तहस्तासोऽस्य।

त्रिधाबद्धो वृषभो रोरवीति महो देवो मर्त्यमाविवेश।।[32]

भिन्नाः भिन्न‌ाः शास्त्रकर्तारः स्वशास्त्रानुसारम् अस्य अर्थं निरूपयन्ति। वेदभाष्यकारः आचार्यसायणः यज्ञानुरूपस्य व्याख्यां कृतवानस्ति। महाभाष्यकारः पतञ्जलिः व्याकरणसम्मतम् अस्य अर्थं प्रकाशयति। नाट्यशास्त्रप्रणेता भरतमुनिः नाट्यस्य दृष्ट्वा मन्त्रस्यास्य मीमांसां कृतवानस्ति। एवमेव वेदेषु अनेके मन्त्राः विद्यन्ते ये विभिन्नार्थबोधका वर्तन्ते। एतादृशान्येव मन्त्रान् आधारीकृत्य वक्रोक्तिः विशदीक्रियते।

वेदानाम् अभिव्यक्तिः प्रायः प्रसादगुणयुक्ता वर्तते। अत्र गूढविषया अपि अतिरोचकशब्दैः निरूपिताः सन्ति। एतत्कारणात् ऋचाम् अर्थबोधने सौविध्यं भवति।

साहित्यस्य चरमं लक्ष्यमस्ति मानवान् प्रेयात् पराङ्मुखं विधाय श्रेयसं प्रति उन्मुखीकरणम्। वैदिकवाङ्मये निःश्रेयससिद्धये बहवः उपायाः निरूपिताः सन्ति। पुनश्च अस्माकं काव्यसाहित्यं साम्यवादस्यापि परिपोषकः वर्तते। वैदिकवाङ्मये अपि आध्यात्मिकसाम्यवादः सम्यक् निरूपितोऽस्ति। सर्वे मानवाः समानाः सन्ति। कविः विश्वबन्धुत्वस्य अभिलाषं करोति। अयमपि सिद्धान्तः वैदिकवाङ्मयेन एव गृहीतः-

यस्तु सर्वाणि भूतानि आत्मन्येवानुपश्यति।

सर्वभूतेषु चात्मानं ततो न विजुगुप्सते।।

यस्मिन् सर्वाणि भूतानि आत्मैवाभूद् विजानतः।

तत्र को मोहः कः शोकः एकत्वमनुपश्यतः।।[33]

काव्यं रचना भवति कविश्च रचनाकर्ता। द्वावपि इमौ शब्दौ अनादिवैदिककालादेव अस्मिन्नेवार्थे प्रयुज्येते।वेदेषु जगत्स्रष्टुः नाम कविरस्ति-

कविर्मनीषी परिभूः स्वयंभू[34]

तस्य स्रष्टुः अजरामररचनायाः नाम क‌ाव्यम् वर्तते-

पश्यदेवस्य काव्यं न ममार न जीर्यति[35]

इत्थं तथ्यमिदं स्पष्टं भवति यत् वैदिकवाङ्मये सकलकाव्यतत्त्वानि विद्यन्ते। तानि एव तत्त्वानि काव्येषु नाटकादिषु काव्यशास्त्रग्रन्थेषु च सविस्तरं प्रकाशितानि सन्ति। वस्तुत विभिन्नरचनां विधाय रचयितारः वैदिकवाङ्मयस्य उपबृंहणं कुर्वन्ति।

[1] ॠग्वेदे-3/2/17

[2] तत्रैव-1/1/5

[3] तत्रैव-3/1/18

[4] तत्रैव-3/1/96

[5] तत्रैव-9/96/6

[6] तत्रैव-10/129/5

[7] तत्रैव-6/32/1

[8] तत्रैव-6/8/1

[9] तत्रैव-10/89/3

[10] तत्रैव-4/40/5

[11] तत्रैव-10/71/4

[12] तत्रैव-4/6/7

[13] तत्रैव-1/124/7

[14] तत्रैव-1/50/1

[15] तत्रैव-5/54/12

[16] तत्रैव-1/18/1

[17] तत्रैव-10/34/9

[18] तत्रैव-1/164/20

[19] तत्रैव-1/164/46

[20] तत्रैव-10/10/13

[21] तत्रैव-1/123/10

[22] तत्रैव-1/25/21

[23] तत्रैव-7/89/4

[24] तत्रैव-2/12/9

[25] काव्यप्रकाशे-चतुर्थ उल्लासे

[26] नाट्यशास्त्रे-1/12, 16, 17

[27] ऋग्वेदे-1/165

[28] तत्रैव-10/10

[29] तत्रैव-

[30] भागवते-11/4/44

[31] तत्रैव-11/4/46

[32] ऋग्वेदे-4/58/3

[33] ईशावास्योपनिषदि-6, 7

[34] शुक्लयजुर्वेदे-4/8

[35] सामवेदसंहितायाम् 4/4/3

Please rate this Research Paper

Leave a Reply