वैयाकरणदृष्ट्या वाक्यार्थविचार 5/5 (1)

0
64 views

वैयाकरणदृष्ट्या वाक्यार्थविचार:

नितेश-कुमार-द्विवेदी

शोधच्छात्र:

व्याकरणविभागे

सं वि ध वि संकाय:

काशीहिन्दूविश्वविद्यालय:वाराणसी

जगत्यस्मिन् ‘शब्द’ एव व्यवहारहेतुरिति, शब्दज्ञानाय प्रकृतिप्रत्ययनिष्ठव्याकरणसिद्धशब्दानां प्रयोग: समेषां मानवानां प्रयोगसार्थक्यं बोध्यते। यद्यपि शब्दसाधुत्वे व्याकरणमेव मुख्यं साधनम्। परञ्च व्याकरणरहितशब्दानामपि लोके प्रयोगदर्शनेन तैरपि जनानामवबोधस्तस्माद् तेषामपि महत्वमवलोक्यते। अपभ्रंशेष्वपि शाब्दबोधनद्वारार्थस्य ज्ञानं भवत्येव। परञ्च शब्दैरपशब्दैरर्थावगतावपि समानायां शास्त्रेण धर्मनियमः क्रियत इति यथाह भाष्यकारः पस्पशाह्निके-

‘समानायामर्थावगतौ शब्देनापशब्देन च धर्मनियमः क्रियते।

शब्देनार्थाभिधेयो नापशब्देनेति। एवं क्रियमाणमभ्युदयकारि भवतीति।[1]

अथ च शब्दैरेवार्थावगतौ तैरेवार्थबोधकता लोके जायते। अतो निर्णीयते यत्    वाक्यसमाप्तावेवार्थावगतित्वाद् नु साकाङ्क्षो जनः स्वभावप्रकाशनं सम्यग् विदधाति समापयति च। वाक्यप्रयोगेणैव शाब्दबोधरूपफलनिष्पत्तिर्जायते। अतो लोके वाक्यस्फोट एवार्थबोधक इति राद्धान्तः प्रस्थापितो भवति। तथोक्तं भूषणसारे-

‘वाक्यस्फोटोsतिनिष्कर्षे तिष्ठतीति मतस्थितिः’[2]

स्फुटत्यर्थः यस्मादिति स्फोटः। स्फुटविकसने धातोः ’अकर्तरि च कारके संज्ञायाम्’  इत्यनेनापादाने घञि प्रत्यये कृते स्फोटशब्दस्य निष्पत्तिर्जायते। अयं हि विकसनार्थकः स्फोटशब्दः ब्रह्माभिन्नो ब्रह्मसहोदरो वा भवति, यतो हि विलक्षणप्राणभूतानां जीवानां सुरनरपशुप्रभृतीनां स्वभावप्रकाशने घटपटादिशब्दानां प्रयोगे च स्फोटोऽवभासते।

सोऽयं स्फोटो वर्णपदवाक्यभेदेन त्रिधा भवति। जातिव्यक्तिभेदेनाखण्डपदवाक्यभेदेन चाष्टौ शास्त्रे प्रसिद्धाः। तद्यथा –

  1. वर्णजातिस्फोटः 2. वर्णव्यक्तिस्फोटः 3. पदजातिस्फोटः           4. पदव्यक्तिस्फोटः
  2. वाक्यजातिस्फोटः 6. वाक्यव्यक्तिस्फोटः 7. अखण्डपदस्फोटः       8. अखण्डवाक्यस्फोटः।

तत्र वाक्यस्फोटो मुख्यः। तस्यैव लोकेऽर्थबोधकत्वात्तेनैवार्थसमाप्तिश्चेति। तदाह न्यायभाष्यकारः पदसमूहो वाक्यमर्थसमाप्तौ इति।[3] (this is secondary refferance. find out primary refferance)

मीमासकानां मते तु शब्दो नित्य: एकश्चेति, तथाहि पदभेदेऽपि वर्णानामकारादीनामेकत्वं न निवर्तते। यथा अश्वः, अर्थः इत्यादिष्वकारभिन्नेष्वपि स एवायमकार इति प्रतीतिर्जीयते। तथैव भिन्नभिन्नकालेषु प्राप्तवाक्येषु पदानां भिन्नत्वेऽपि पदमेकमेवेत्यनुभावेन ज्ञायते ।अतः पदमेकेऽपि वर्णत्वमिववाक्यभेदेऽपि पदैकत्वमेवेति भावः। अत उक्तम् –

पदभेदेऽपि वर्णानामेकत्वं न निवर्तते।

वाक्येषु पदमेकञ्च भिन्नेष्वप्युपलभ्यते।।[4]

वर्णेभ्यो भिन्नं पदम्, पदेभ्यो भिन्नं वाक्यमिति न ज्ञातव्यम्। अतो वर्णेभ्यः पृथक् पदानां सत्ता नास्ति। एवञ्च वर्णपदाभ्यां पृथक् वाक्यस्याप्यस्तित्वं नास्ति। वर्णोऽप्येक एव । अतः पदं वाक्यञ्च सिद्धमेकमेव।

वर्णातिरिक्तपदानां वाक्यानाञ्च नास्तित्वमिति मीमांसकाः। तदेवं व्याचक्षते-

न वर्णव्यतिरेकेण पदमन्यच्च विद्यते।

वाक्यं वर्णपदाभ्याञ्च व्यतिरिक्तं न किञ्चन।।[5]

कुमारिलभट्टमतेऽपि वर्णातिरिक्तं पदवाक्यानां सत्ता नास्ति। पदानि वाक्यानि सावयवानि सन्तीति। अतस्तेषां निरवयववर्णानां ज्ञानाय पदवाक्यानां प्रपञ्चोऽयं निर्धारित इति। तथोक्तम् –

यावन्तो यादृशो ये च यदर्थप्रतिपादने ।

वर्णाः प्रज्ञातसामर्थ्यास्ते तथैवावबोधकाः।।[6]

एवं मीमांसकमते वर्णा एव पदत्वेन वाक्यत्वेन च बोध्यन्ते। अतो वर्णातिरिक्तस्य पदस्य वाक्यस्य च मिथ्यात्वं स्वीकुर्वन्ति मीमांसकाचार्याः।

परञ्च वैयाकरणाः सिद्धान्तोऽयं नाङ्गीकुर्वन्ति। तेषां मते वाक्यस्य सत्यत्वम्, वर्णपदयोश्च मिथ्यात्वमिति। तत्र वाक्ये पदानि वर्णाश्च काल्पनिका: दृश्यन्ते। यतो हि वाक्यसत्तातिरिक्तवर्णपदयोः सत्ता नास्ति। अत एवोक्तम्-

पदे न वर्णा विद्यन्ते वर्णेष्वयवा न च।

वाक्यात् पदानामत्यन्तं प्रविवेको न कश्चन।।[7]

वर्णेषु इकारोकारादिषु प्रतीयमाना रेफादयोऽवयवा न सन्ति। एवं पदे प्रतीयमाना अकारादि वर्णा नैव विद्यन्ते। वाक्यात् पदानामत्यन्तं पार्थक्यं पृथक् सत्ता नास्ति। यद्यप्येकोऽखण्डस्फोट एव तथापि वर्णपदादीनां कल्पना जपाकुसुमादिगतोहितपीतादीनां यथा

‘’तथाऽखण्डवाक्यस्फोटेऽपि बोध्यम् वर्णपदादीनामिति ज्ञेयम्। स च यद्यप्येकोऽखण्डश्च, तथापि पदं वाक्यं जपाकुसुमादिलौहित्यपीतत्वादि-व्यञ्जकोपरागवशात् लोहितः पीतः स्फटिकः इति भानवद् वर्णादिव्यङ्यः वर्णरूपः पदरूपो वाक्यरूपश्च  यथा च मुखे मणिकृपाणदर्पणव्यञ्जकोपाधिवशा-द्दैर्घ्यवर्तुलत्वादिभानं तद्वत्”।[8]

यत्र सुबन्ततिङन्तपदजन्यपदार्थबोधनेन चरमवर्णोऽभिव्यञ्जकरूपेणावतिष्ठते तत्र वाक्यस्फोट इति। उक्तञ्च –

हरेऽवेत्यादि दृष्ट्वा च वाक्यस्फोटं विनिश्चिनु।[9]

वाक्यलक्षणं तु यद्यपि ’एकतिङ् वाक्यमित्यप्युक्तं तथापि पश्य मृगो धावति इत्यत्र तिङन्तद्वयसत्वेनैव वाक्यत्वं न स्यादतोऽतिव्याप्तिं निवारणाय परिष्कारः एवं विधत्ते। एकतिङन्तार्थमुख्यविशेष्यकबोधजनकत्वं वाक्यत्वम्। एवं सति तिङन्तद्वयघटितेऽपि वाक्ये दोषो नास्ति। तथा च पश्य मृगो धावतीत्यत्र मृगकर्तृकं यद्धावनं तद् दृशि क्रियायां कर्मत्वेनान्वेति। किन्तु तत्र दृशिक्रियैव प्राधान्येन वर्तते। अतो मृगकर्तृकं यद्धावनकर्मकं मत्प्रेरणाविषयकदर्शनमिति। अतो पचति भवतीतिवदत्रापि तिङन्तद्वयसत्वेऽपि वाक्यैकवाक्यताबोधो जायत एव। एवं हरेऽव, विष्णोऽव इत्यादिस्थलेषु तिङन्तैकवाक्यार्थप्रधानत्वाद् वाक्यस्फोटो निश्चीयत इति। प्रकृतिप्रत्ययविभागः तत्तदर्थविभागश्च सर्वः परिकल्पित एव परमार्थस्तु स्फोट एवार्थवान् इति सिद्धान्त:। उक्तञ्च हरिणा-

उपायःशिक्षमाणानां बालानामुपलालनाः।

असत्ये वर्त्मनि स्थित्वा ततः सत्यं समीहते।।[10]

शब्दरत्नकारोऽप्याह-

पदरूपो वाक्यरूपो वेत्यर्थः। लोकानां तत्रैव शक्तिग्रहणे बोधादिति भावः। अत एव सत्यं परमार्थत्वम्। लोके बोधजनकत्वात्। शास्त्रेण प्रकृतिप्रत्ययविभागव्युत्पादनेन विशिष्टपदस्येक तत्तदर्थबोधनद्वारा विशिष्टे पदे विशिष्टार्थबोधकत्वेन बोध्यते।

तत्र प्रतिवाक्यं सङ्केतग्रहासम्भवाल्लघुतर उपाय: शास्त्रेण शाखाचन्द्रन्यायवत्कल्प्यते। एवञ्च तत्तदवयवानां तत्तदर्थानाञ्च प्रदर्शनं वाचकस्य विशिष्टार्थस्य समुदायस्य च बोधनतात्पर्यकमेवेति भावः।

वाक्यस्यान्यानि लक्षणानि-

आख्यातशब्दः संघातो जातिः संघातवर्तिनी।

एकोऽनवयवः शब्दः क्रमो बुद्ध्यनुसंहृतिः।।

पदमाद्यं पृथक्सर्वपदं साकाङ्क्षमित्यपि।

वाक्यं प्रतिमतिर्भिन्ना बहुधा न्यायवादिनाम्।।[11]

कारिकाद्वयं व्याख्यात्रा पुण्यराजेनाष्टौ वाक्यविकल्पाः तत्र प्रदर्शिताः।

  1. आख्यातशब्दो वाक्यम्। 5. क्रमो वाक्यम् ।
  2. संघातो वाक्यम्। 6. बुद्ध्यनुसंह्रतिर्वाक्यम्।
  3. संघातवर्तिनिजातिर्वाक्यम्। 7. आद्यपदवाक्यम्।
  4. एकोऽनवयवः शब्दो वाक्यम्। 8. पृथक् साकांक्षसर्वपदवाक्यम्।

तत्र पुण्यराजः अष्टविकल्पेषु केषाञ्चित् सम्बन्धः मीमांसादर्शनेन स्वीकरोति। तन्मतानुसारेण संघातवादः क्रमवादश्चेति वाक्यविकल्पद्वयमभिहितान्वयवादिनाम्, आख्यातशब्दवादः, आद्यपदवादः, पृथग् साकाङ्क्षसर्वपदवादश्चेति वाक्यविकल्पत्रयमन्विताभिधानवादिनां वर्तते। परञ्च प्रसिद्धमीमांसकाः कुमारिलभट्ट-शालिकनाथ-सुचरितमिश्रादयः एतेषां वाक्यविकल्पानां सम्बन्धः व्याकरणदर्शनेनैव स्वीकुर्वन्ति।

[1] महाभाष्यम् प्रथममाह्निकम्

[2] वै.भू.सार.स्फोटनिरूपणम्

[3] प.ल.मञ्जूषा, शक्तिनिरूपणम्

[4] वाक्यपदीयम् कारिका 71

[5] वाक्यपदीयम् कारिका 72

[6]  कारिका 169, तर्कभाषाप्रकाशिका, केशवमिश्र: गोवर्धन श्च मिथ्यात्वमिति। तत्र वाक्ये ंt श्च, व्याख्याकार: श्री के. परिमलमिश्र:, परिमल पब्लिकेशन्स, नई

दिल्ली, 2005.

[7] वाक्यपदीयम् ब्र.का.73

[8] प.ल.मञ्जूषा स्फोटनिरूपणम्

[9] वै.भू.सा. स्फोटनिरूपणम् पद्यम् 66

[10] वाक्यपदीयम्  कारिका 1/67

[11] वाक्यपदीयम् कारिका 2/12

Please rate this Research Paper

Leave a Reply