शब्दार्थसम्बन्धस्य विविधपक्षा: 4/5 (2)

0
62 views

शब्दार्थसम्बन्धस्य विविधपक्षा:

 

श्याम-सुन्दर-शर्मा

शोधच्छात्र:,

संस्कृत-विभागे

दिल्ली-विश्वविद्यालय:

sssharmasanskrit@gmail.com

शोधपत्रसार:

शब्दश्रवणानन्तरं कस्यचिदर्थस्य ज्ञानञ्जायते, कस्यचिदर्थस्य च न जायते। अत: शब्दविशेषस्य अर्थविशेषेण सह सम्बन्ध अवश्यमेवास्ति। यस्य ज्ञानेनैव शाब्दबोध: सम्भवति। नैयायिकानां, मीमांसकानां, वेदान्तिनां, साहित्यिकानां, तथा वैयाकरणानाञ्च शब्दार्थसम्बन्धे ये राद्धान्ता: सन्ति तेषामुल्लेख: शोधपत्रेsस्मिन् विद्यत इति।

 प्रस्तावना

लोकेऽस्मिन् ‘गौरागच्छति’ इत्यादि वाक्येभ्यो गवागमनरूपार्थप्रतीति:। तथैव ‘अश्व: आगच्छति’ इत्यादि वाक्येभ्य: अश्वागमनरूपार्थप्रतीतिश्च दृश्यते। घटशब्दोच्चारणे घटरूपार्थस्यैव प्रतीतिर्भवति न तु पटरूपार्थस्य। तेन ज्ञायते यत् शब्दार्थयोरस्ति कश्चन विशेषसम्बन्ध:। अत: शब्द: स्वसम्बन्धार्थमेव उद्बोधयति। अत: शब्दार्थयो: कश्चन विशेषसम्बन्ध: स्वीकर्तव्य:। तदभावे घटशब्दात् पटशब्दस्य बोधापत्ति: स्यात्। तथा चान्ये विद्वाँस:

गिरा अरथ जल बीचि सम कहियत भिन्न न भिन्न।[1]

तथा च

वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये।

जगत: पितरौ वन्दे पार्वती परमेश्वरौ।।[2]

इत्यादिना  सर्वैरेव शास्त्रज्ञैरेकस्वरेण शब्दार्थसन्बन्ध: स्वीक्रियते। तस्य शब्दार्थसन्बन्धस्य स्वरूपं किम्? इति प्रश्ने उदिते सति आह – स च शब्दार्थसम्बन्ध: तत्त्वविद्भि: वृत्तिरित्त्युच्यते। वृतिस्तु त्रिधा शक्ति-लक्षणा–व्यञ्जनाश्चेति। परञ्च शब्दार्थशक्तिव्याख्याने विदुषां मतवैपरीत्यमवलोक्यते तद्यथा –

नैयायिका: –

प्राच्यनैयायिका: अस्माच्छब्दादयमर्थो बोधव्य इति अर्थविशेष्यिका, इदं पदं इममर्थं बोधयतु इति शब्दविशेष्यिका वा ईश्वरेच्छा शक्ति:। सा च आधुनिके नाम्नि अपि स्वीक्रियत एव।

नव्यनैयायिकानां मते तु – ईच्छासामान्यैव शक्ति:, न तु ईश्वरेच्छारूपा। तेन आधुनिकसङ्केतितेऽपि अस्मदादीनाम् इच्छाया: सत्त्वात् तत्रापि शक्तिरस्त्येव हि[3]

मीमांसका: –

अनुभाव्य-अनुभावकत्वं, प्रत्याय्य-प्रत्यायकभावापरपर्यायं शब्दार्थयोस्सम्बन्धं स्वीकुर्वन्ति। एतदुक्तम्  –  ‘भवति पदानि, पदसमुदायात्मकानि वाक्यानि, श्रूयमाणानि अर्थविशेषं प्रत्यापयन्ति’। तत्र शब्द: अर्थस्य प्रत्यापक:, अर्थश्च शब्दस्य प्रत्याय्य: । अनुभाव्य-अनुभावकव्यवहारस्तु पदार्थस्मृतावतिव्याप्तिवारणाय।

वेदान्तिन:

वेदान्तिना मुख्यवृत्तित्वरूपे शक्ति: प्रतिपादिता  – ‘तत्रशक्तिर्नाम पदानामर्थेषु मुख्या वृत्ति:’[4]। तत्र मुख्यत्वञ्च वृत्तौ शक्त्या प्रतियोगित्वात्। तेन शक्य सम्बन्धरूपलक्षणाया: शक्तित्वं न स्यात्।

साहित्यिका: –

एतेषाम्मते सङ्केत एव शक्ति: ‘साक्षात्सङ्केतितं योsर्थमभिधत्ते स: वाचक:’[5] । स च सङ्केत: ईश्वरकृत:, आधुनिको वा । अत एवोक्तं मम्मटेन – ‘सङ्केतितश्चतुर्थभेदो जात्यादिजातिरेव वा’[6] इत्यत्र व्याकरणभाष्यकारस्य पतञ्जले: ‘चतुष्टयी शब्दानां प्रवृत्ति:’ इत्यनेन वाक्येनाभिप्रेरितो भूत्वा जात्यादिना जाति – गुण – क्रिया – यद्रच्छा च सङ्गृह्यते । एतदेव हि शब्दार्थसम्बन्धस्य सन्दर्भे अलङ्कारशास्त्रीणां मतम्।

कौण्डभट्टमतम् –

एतेषां मते बोधजनकतैव  शक्ति: यथा – ‘तथा शब्दानामपि अर्थै: सह तद्बोधकारणतैव योग्यता सैव शक्ति:’[7]। सा तु बोधकारणता अनादिभूता। यथा घटादिविषयकचाक्षुषादिज्ञाननिरूपिता इन्द्रियनिष्ठा योग्यता (कारणता) अनादिस्तथार्थविषयकज्ञाननिरूपिता शब्दनिष्ठापि योग्यता (कारणता) अनादिरेवेति।

यथा –

इन्द्रियाणां स्वविषयेष्वनादिर्योग्यता यथा

अनादिरर्थै: शब्दानां सम्बन्धो योग्यता तथा ।।[8]

नागेशमतम् –

नागेश: शक्तिविषये स्वमतं प्रस्तौति – तस्मात् पदपदार्थयो: सम्बन्धान्तरमेव शक्ति: वाच्यवाचकभावापर्पार्या। तद् ग्राहकञ्चेतरेतराध्यासमूलकं तादात्म्यम्। तदेव सम्बन्ध:। उभयनिरुपिततादात्म्यैवानुभय इति अर्थ पदयोर्व्यवहारात्। शक्तेरपि कार्यजनकत्वे सम्बन्धस्यैव नियामकत्वात्[9]

भर्तृहरिमतम्:-

नित्या: शब्दार्थसम्बन्धा: समाम्नाता: महर्षिभि:।

सूत्राणां सानुतन्त्राणां भाष्याणाञ्च प्रणेतृभि:।।[10]

ज्ञानं प्रयोक्तुरर्थश्च त्रितयमवगम्यते।

शब्दैरुच्चारितैस्तेषां सम्बन्ध: समवस्थित:।।[11]

उपकार: स यत्रास्ति धर्मस्तत्रानुगम्यते।

शक्तीनामप्यसौ शक्तिर्गुणानामप्यसौ गुण:।।[12]

सति प्रत्यय हेतुत्त्वं सम्बन्धमुपपद्यते।

शब्दस्यार्थे यतस्तत्र सम्बन्धोऽस्तीति गम्यते।।[13]

उपसंहार: –

पूर्वोक्तदिशा प्राच्यनैयायिका:, नव्यनैयायिका:, मीमांसका:, वेदान्तिन:, साहित्यिका:, वैयाकरणेषु कौण्डभट्ट;, नागेश:, भतृहरिश्चादय: यस्मिन् सिद्धान्ते विश्वसन्ति ते नामत: प्रस्तुता: सन्ति।

सन्दर्भग्रन्थसूची

  1. कालिदास:, रघुवंशम्, चौखम्बा-सुरभारति-प्रकाशनम्, वाराणासी, 2015.
  2. कौण्डभट्ट:, वैयाकरणभूषणसार:, सम्पादक: – तारकेश्वर: चतुर्वेदी, चौखम्बा-संस्कृत-सीरीज, वाराणसी 1947.
  3. तुलसीदास:, रामचरितमानसम्, गीता-प्रेस, गोरक्षपुरम्.
  4. धर्मराजाध्वरीन्द्र:, वेदान्तपरिभाषा, रामकृष्णमिशन, बैलूरमठम्, हावडा, तृतीयं संस्करणम्, 1963.
  5. नागेशभट्ट:, परमलघुमञ्जूषा, सम्पादक: – आचार्यलोकमणिदहाल:, चौखम्बा-सुरभारती-प्रतिष्ठानम्, वाराणसी, 2001.
  6. भर्तृहरि:, वाक्यपदीयम्, सम्पादक: – के. वी. अभयङ्कर: & वी. पी. लिमये, पूना विश्वविद्यालय, पूना, 1965.
  7. मम्मट:, काव्यप्रकाश:, सम्पादक: – आचार्यविश्वेश्वर:, ज्ञान-मण्डल-प्रकाशनम्, वाराणसी, 2011.
  8. विश्वनाथपञ्चाननभट्टाचार्य:, न्यायसिद्धान्तमुक्तावली, सम्पादक: हरिरामशुक्ल:, चौखम्बा-संस्कृत-संस्थान-प्रकाशनम्, वाराणसी.

[1]  तुलसीदास:, रामचरितमानसम्, बालकाण्ड:, दोहा-18

[2]  कालिदास:, रघुवंशम्, प्रथमसर्ग:, श्लोक:-01

[3]  न्यायसिद्धान्तमुक्तावली,शब्दखण्ड:, श्लोक:-81, पृ. 265.

[4]  वेदान्तपरिभाषा, आगमपरिच्छेद:

[5]  काव्यप्रकाश:,द्वितीय उल्लास:, सूत्र-09, श्लोक:-07, पृ. 42.

[6]  काव्यप्रकाश:, द्वितीय उल्लास:, सूत्र-10, श्लोक:-08, पृ. 43.

[7]  वैयाकरणभूषणसार:, शक्तिनिर्णय:  पृ. 316.

[8]  वैयाकरणभूषणसार:, शक्तिनिर्णय:, श्लोक:-01, पृ. 115.

[9]  परमलघुमञ्जूषा, शक्तिनिर्णय:, पृ. 28.

[10] वाक्यपदीयम्, ब्रह्माकाण्ड, कारिका 23

[11] वाक्यपदीयम्, वाक्यकाण्ड, संबन्धसमुद्देश:, कारिका 01

[12] वाक्यपदीयम्, वाक्यकाण्ड, संबन्धसमुद्देश:, कारिका 05

[13] वाक्यपदीयम्, वाक्यकाण्ड, संबन्धसमुद्देश:, कारिका 37

Please rate this Research Paper

Leave a Reply