शाब्दबोधे मीमांसकमतम् 4.6/5 (5)

0
90 views

Sandeep kumar
Assistant Professor (Ad-hoc)
Sanskrit Department ZHDC, DU

       शाब्दबोधे आख्यातार्थभावना मुख्यविशेष्यं भवतीति तस्यामेव वाक्यघटकभूतानां सर्वेषामेव पदार्थानामन्वयः  यद्युच्यते चैत्रः पचति इत्यादौ प्रथमान्तं चैत्रादिकं प्रति भावनायाः प्रकाररुपेणान्वयः भवति। अतः प्रथमान्तपदवाची चैत्रादिरेव मुख्यविशेष्यं न तु भावनामुख्यं विशेष्यमिति। तन्न ‘स्थाल्यां पचति’, ‘काष्ठैः पचति’, ‘खादिरो वीर्यकामस्य यूपं कुर्यात्’ इत्यादिवाक्येषु प्रथमान्तपदाभावेऽपि शाब्दबोधस्य सत्त्वात्। न तत्र भावना-प्रकारके शाब्दबोधे प्रथमान्तपदस्य हेतुतेति।
      न च प्रथमान्तकर्तृवाचकपदस्य अध्याहारः क्रियते। संख्यायाः समानपदोपस्थाप्ये कर्तरि अन्वयसंभवात् अध्याहारापेक्षया लक्षणयैव कर्तृयङ्गीकारे लाघवाच्च। अतः आख्यातार्थविशेष्ये, आख्याततात्पर्यविशेष्ये, प्रथमान्तपदोपस्थाष्ये वाऽपि संख्यायाः अन्वयः भवति। ‘गगनेन स्थीयते’ इत्यत्र प्रथमान्तपदाभावे संख्यायाः अन्वयोऽपि नशक्यः। अन्यथा तु ‘काष्ठैः पचति’ इत्यादिवाक्येष्वपि आख्यातार्थविशेष्यादौ एव संख्यायाः अन्वयः स्यात्, पचति पदे च कृतिविशेष्यकबोधस्याङ्गीकारेण अनुगमस्याप्यसंभवः स्यात्। आख्यातार्थे च विशेष्यत्वादिरूपेणाङ्गीकृते सति तत्र आख्यातजन्योपस्थितेः हेतुतायाः अपेक्षा भविष्यति। तत्र गौरवापत्तिः। एवमेव येषु वाक्येषु आख्यातार्थस्य कर्तरि अभेदसंबन्धेन अन्वयः क्रियते नासौ भावनाविशेष्यरूपः स्यात्। नापि हि इदं वक्तुं पार्यते यत् करकस्यभावनायाम् प्रकारत्वेन अन्वयः भावनायां प्रथमान्तोपस्थापितेऽर्थे अन्वयः भवेदिति अनेकविधक्लिष्टकल्पनायाः प्रसङ्गोपपत्तेः। अतः कारकस्यान्वयः धात्वर्थे तस्य च धात्वर्थस्य वर्तमानत्वादीञ्च भावनायामन्वयः भावनायाश्च प्रथमान्त पदेनोपस्थितपदार्थे प्रकारात्वेनान्वयः स्यात्।
   अन्यञ्च ‘पश्य मृगो धावति’ इत्यत्र दर्शनभावनायां धावनभावनायाः एव कर्मत्वेन अन्वयः भवति। मृगपदस्य प्रथमान्तत्वान्नहि दर्शनस्य भावनान्वयः। यदि कर्मणः अध्याहारेण शाब्दबोधः क्रियते चेत् वाक्यभेदापत्तिर्जायते। तस्याः भावनायाः अन्यत्र विशेषणाभावात् तदेव मुख्यविशेषणं भवेत्। यद्येवमुच्येत यत् मृगगतयत्नस्यानुमेयत्वात् न भावनायाः साक्षात् कर्मत्वमिति। तन्न ज्ञानस्य कर्मत्वसंभवात् भावनयाः आश्रयस्यापि च कर्मसंभवत्वात्। अतः एकवाक्यतायाः अनुपपत्रावपि भावनायाः एव मुख्यं विशेष्यत्वम्।
  एवं साधितेऽपि इदं वक्ति ‘भावप्रधानम् आख्यातम्’  इति। अनेन भावनाया प्राधान्यं सिध्यति। भावनायाः प्राधान्यस्य अनङ्गीकारे स्मृतेरानर्थक्यमापतति। यदि अत्र स्मृतिः भावनायाः प्रधानतायाः पोषिका न मन्यते अपि वैय्याकरणानां परिभाषाया  शुद्धधात्वर्थप्रतिपादितभावनायाः प्राधान्यप्रतिपादिका स्वीक्रियेत तदपि दोषाय भवति। तत्र लिङ्प्रत्ययवाच्यसमानाधिकरण्यस्य भङ्गः भवति इति।
   यदि च सर्वाण्यपि प्रातिपदिकानि आख्यातजानि  इत्यनुशासनवशात् आख्यातार्थः धातुरेवेति सिद्धान्तितं तत्रपि दोषः अस्ति। पाकः इत्यादीनि पदानि आख्यातपदप्रयोगरहितानि भवन्ति। अतः एतानि प्रातिपदिकानि आख्यातजानि इति वक्तुं नार्हाणि। प्रातिपदकस्य निर्वचने आख्यातपदं आख्यातप्रकृतौ लाक्षणिकं भवति। अतः तस्य आख्यातपदेन सह समानाधिकरण्यं न भवति। अतः अनेकाख्यातार्थान् उद्दिश्य विधाने सति भावनाया प्राधान्य सिध्यति। अस्यां च आख्यातवाच्यस्य तल्लत्यस्य व संख्या, भावना, कर्ता, कर्म एतेषां भावनायाः एव प्रधानरूपेण विधानं क्रियते। अन्यथा धात्वर्थनिरूपितप्रधानतायाः विधाने प्रकृत्यर्थप्रत्ययर्थयोः  प्रत्ययार्थस्य प्राधान्यबोधकस्मृतेः प्राप्तिकारणतः भावस्य  प्राधान्यबोधकस्मृते अनुवादिकाभूता आनर्थक्यं भजेत। वैय्याकरणपरिभाषा तु ‘नपुंसके भावे क्तः’  इत्यादौ धात्वर्थग्रहणहेतुका न तु त्वतलादिप्रत्ययग्रहणहेतुका। न चात्र भावाः पदशक्ते ग्राहकाः सन्ति इति।
   एवमेव सत्वप्रधानानां प्रातिपदिकानामपि बोधिकायां स्मृतौ  लावकः पावकः इत्याद्यनेकार्थक प्रातिपदिकानां लिङ्गसंख्ययोः अन्वययोग्यताया सम्पन्नस्य पदार्थस्य प्राधान्यबोधनमेव लक्ष्यम्। घटादिषु पदेष्वपि जातिव्यक्ति उभयोरपि प्राधान्यं भवति। अत एव आकृत्याधिकरणे उभयोरपि बोधस्य प्रतिपादनं क्रियते।
    अतः अनेकार्थानां प्रतिपादकेषु आख्यातेष्वपि भावनायाः प्राधान्यमेव भावप्रधानत्वेनोच्यते स्मृतौ यतः सत्वप्राधान्यस्य प्रतिपादिकायाः स्मृतेः अनेकार्थप्रतिपादकेषु सुबादिप्रत्ययेषु क्रियापदं विना अन्वयज्ञानं न भवति। क्रियायाः अन्वयज्ञानं विना कारकत्वमपि न सिध्यति। प्रधानभूताक्रियायामन्वयेन एव कर्तृत्वादिकारकाणां प्राधान्यनियमः। कारकाणाञ्च प्राधान्यसंख्याद्योः प्रातिपदिकार्थत्वेऽपि प्रत्ययार्थस्य प्राधान्यप्रतिपादिकायाः स्मृतेः वचनादेव करकेऽन्वयः।
   अतः सर्वेषामेव कारकाणां भावनान्वयित्वात् भावनायाः मुख्यविशेष्यता सिध्यति। अतः शाब्दबोधे भावनैव मुख्यविशेष्यं भवति। एवमेव संबोधनविभक्तेः प्रार्थनार्थकत्वात् प्रार्थनायाश्च भावनायामेव अन्वयः भवति। क्त्वा, णमुल्, कृत्वसुच्, नञ्, घञादिप्रत्ययानां कालवृत्यभावादिरूपमर्थनां भावनायाः निमित्तकारणेषु असत्सु अपि कारकाणाम् अनुष्ठापकत्वात् तेषां भावनायामेव अन्वयः भवति। षष्ठ्या अपि विभक्तेः कारकविभक्त्यसत्वे षष्ठ्याः उपपदार्थस्यापि भावनायामेव अन्वयः। वर्तमानादयकाला अपि भवनान्वयिनः भवन्ति। प्रवर्तनाजनकता सम्बन्धेन विधेः भावनान्वयित्वं भवति। भावनया आक्षिप्ते अखण्डोपाधिरूपे कर्तृत्वकर्मत्वयोः संख्यायाः अन्वयः भवति। अत एव यजेत इत्यादिस्थलेषु आश्रय भेदे सत्यपि एकवचनोपपत्तिर्भवति। ‘वसानौ’ इत्यादौ प्रमाणान्तरानुरोधेन लक्षितस्य पदार्थस्य आश्रये संख्यायाः अन्वयः भवति। शब्दिकरणस्थलेषु कर्तरि, यागादिविकरणस्थलेषु कर्मणि च संख्यायाः अन्वयः भवति। कर्तृत्वकर्मत्वयोरपि भावनायाम् अन्वयः भवति। कर्त्राख्यातस्थले आख्यातोपलक्षितकर्तृत्वस्य समानाधिकरण्यसम्बन्धेन, कर्माख्यातस्थले च वाचकेन प्रयत्नप्रयोज्यरूपेण लक्षितस्य फलस्य समानाधिकरण्यसम्बन्धेन भावनायामन्वयः भवति। कर्तृत्वादिना आक्षिप्तस्य आश्रयस्य अभेदसम्बन्धेन प्रथमान्तपदेनोपस्थापितेऽर्थेऽन्वयः भवति।
 अतः कर्माख्यातस्थले ‘तण्डुलभीन्नाश्रितत्वकर्मत्वसमानाधिकरण फलप्रयोजको व्यापारः’ इतिवत् कर्त्राख्यातस्थले च ‘देवदत्तनिष्ठकर्तृत्वसमानाधिकरणपाकानुकूलो यत्नः’ इतिवत् शाब्दबोधः भवति। अत्र कर्तृत्वं तृतीयायाः अर्थः भवति।
 एवमेव ‘पच्यते ओदनः स्वयमेव’ इत्यादिषु कर्तृकर्माख्यातस्थलेषु ओदननिष्ठकर्तृत्वकर्मत्वयोः विवक्षायाम् ‘ओदननिष्ठकर्तृत्वसमानाधिकरण पाकानुकूलो भावना’ इतिवत् शाब्दबोधः भवति। ‘ओदन एव पचति’ इत्यादिप्रयोगेषु अपि न काचिद्विप्रपत्तिरिति, यतः कर्मवत् कर्माणा तुल्यक्रियः  इति सूत्रेण यगादिप्रत्ययविधानात्पूर्वोक्तप्रयोगाः असाधवः सिध्यन्ते। अत एतादृशस्थलीये चैत्रपदे नहि प्रथमा विभक्तिः भवति ना तृतीया, अपितु तत्र षष्ठी विभक्तिः भवति। अतः भावप्रधानतायाः बोधिकायाः स्मृत्याः एव कर्तृत्वादिनिरूपितप्रधानताभावनायाः सिद्धिः भवति।
 अथापि भावप्राधान्यबोधकस्मृत्तेरेव भावनायाः प्राधान्यसिद्धौ प्रधाननिष्ठगुणस्य आक्षेपकतायाः नियमेन भावना एव कर्तृत्वकर्मत्वादीनाम् आक्षेपिका भवति। कर्तृत्वादेस्तु भावनायाः आक्षेपः अनुचितः एव। अनन्यलभ्यः एव शब्दस्य वाच्यार्थः भवतीति  न्यायेन भावनायामेव शक्तिः भवति आक्षेपलभ्ये कर्तृत्वादौ नहि, अपितु आक्षेपककृतौ शक्तिः भवति। अतः यत्र आक्षेपकता नास्ति तत्र अनेकाः शक्तयः भवन्ति यथा- संख्यादयः।
 यद्येवमुच्येत ‘पक्ता’, ‘पचमानः’, ‘पक्वः’ इत्यादौ कर्ता, कर्म, कृत् एतेऽपि लाघवात् भावनायाः एव वाचकाः मन्येरन्। नामी साधवः स्युः। नामार्थस्य परस्पर भेदसम्बन्धेन अन्वयाभावात्। आतो ह्येषु स्थलेषु कर्तरिकृत्  सूत्रबलात् आश्रये शक्तेरङ्गीकारः। अनेन तत्र नामत्वरूपेण सत्वप्राधान्यबोधस्मृत्या लिङ्गसंख्ययोः अन्वययोग्यस्य प्रधानभूतस्याश्रयस्या कृतित्वादाक्षेपकत्वं सिध्यते।
  कर्तृकर्मकृत्सु च कृतिबोधकता शक्तिः वर्तते। ‘पाकः’, ‘यागः’ इत्यादिषु ‘जायते’, ‘क्रियते’ इत्यादि कृतिवाचकपदाध्याहारेण शाब्दबोधः उचितः। अन्यथा धात्वर्थमात्रस्य प्रतीतेः कारकान्वयोपपत्तिरशक्या स्यात्। अतः धात्वर्थमात्रे शक्तेः कृतेश्च आक्षेपः भवति।
 लः कर्मणि  इत्यादि सूत्रस्थं लः पदं षष्ठ्यन्तं सत् ‘द्वयेकयोर्द्विवचनैकवचने’ , ‘बहुषु बहुवचनम्’  इत्यनयोः सूत्रयोः एकवाक्यता भवति। अतः लादेशानां तिबादीनां कर्तृकर्मगतैकत्वादिविवक्षायाम् एवचनादेः विधानपरकं व्याख्यानं भवति। ‘अनभिहिते’  इत्याधिकारे उक्तानि कर्मादीनि शास्त्राण्यपि संख्यायाः अनभिधाने द्वितीया तृतीया विभक्त्योः विधानपरकव्याख्यानानि स्युः।
  ‘कर्तरि कृत्’  सूत्रस्य व्याख्यानं कर्तुरभिधानपरकं स्यात्। कृतेर्व्याख्यानमभिधानपरकं क्रियते अनेन च प्रातिपदिकस्यार्थस्य भेदसम्बन्धेनान्वयस्य नियमोऽपि जायते। आचार्य खण्डदेवोऽपि  वक्ति यत् सर्वेषामपि कारकाणां भावनायामेव अन्वयः भवति अतः शाब्दबोधे भावनैव मुख्यविशेष्या इति। प्रथमान्तपदार्थं प्रति प्रथमान्तपदजन्यपदार्थं प्रति संख्याम् इव भावनायाः अपि विशेषणस्वीकारेण प्रथमान्तपदस्यार्थः मुख्यविशेष्यः न भवितुमर्हति।
  नेदमपिवक्तुं युज्येत यत् प्रथमान्तपदस्यार्थे मुख्येविशेष्ये स्वीकृते सति भावनाप्रारकारकं शाब्दबोधं प्रति प्रथमान्तपदजन्यपदार्थोपस्थित्याः कारणतासम्बन्धीनियमः फलितः स्यादिति। यतः ‘काष्ठैः पचति’ ‘दध्नेन्द्रियकामस्य जुहुयात्’ इत्यादौ प्रथमान्त पदाभावे व्यभिचारो जायते। नहि प्रथमान्तपदस्याध्याहारोऽपि शक्यः कर्तुम्, अध्याहारापेक्षया आनुशासनिकनिरुढलक्षणायाः स्वीकारेलाघवात्। अतः आख्यातेनैव कर्तुः कर्मणश्चापि ज्ञानं लक्षणया कर्तुमुचितम्। लडादे  र्वाच्यं कालादिकं, लिङादेर्वाच्यं प्रवर्तनादिकमपि भवनान्वयसिद्धमेव भवति। संख्या च भावनाक्षिप्ते कर्तृत्वकर्मत्वे अन्वेति।
 नैय्यायिकाः  कालादिव्यतिरिक्तम् आख्यातार्थप्राकारकं शाब्दबोधं प्रति प्रथमान्तपदजन्योपस्थितेः कारणताबलेन प्रथमान्तपदस्य अर्थमेव मुख्यविशेष्यं स्वीकुर्वन्ति। इदं तु अनुचितं यतः प्रथमान्तपदस्यार्थस्यैव कालादेः समानाकृतावन्वयः संभवति। अतस्तेषां पूर्वोक्त कार्यकारणकल्पनायाः अप्रमाणम्। आख्यातार्थभावनायाः प्रथमान्तपदार्थं प्रति अन्वयज्ञानस्य न किमपि प्रमाणम् अस्ति। महर्षिणोः जैमिनिपाणिन्योः अनुभवं विरूध्य अनुभवः अयं प्रतिज्ञामात्रं नाम। नायमनुभवः कस्यापि वस्तुजातस्य साधको भवेत्। ‘तद्भूतानां क्रियार्थेन समाम्नायः’  इति जैमिनिः लः कर्मणि च भावे चाकर्मकेभ्यः  इति च पाणिनिः क्रियामुख्यविशेष्यकं शाब्दबोधमेव प्रमाणयतः। एवं प्रथमान्तार्थबोधकं न किमपि शास्त्रं गौतमेन उक्तम् अस्ति। अतः प्रथमान्ताबोधकः शाब्दबोधः अप्रामाणिकः एव स्वीक्रियते।
 अपरं तु तिङर्थस्य संख्यादेः नामार्थे चैत्रादौ अन्वय न संभवति यतः प्रथमविभक्त्या उक्तसंख्यया तिङर्थसंख्यायाः अवरोधः जायते। नैतदपि वक्तुं युज्यते यत् प्रथमविभक्त्युक्तसंख्या यदि साधुत्वप्रतिपादिका स्याच्चेदवरोधस्य परिहारः भवेदिति। यतः एकपदोपात्तप्रत्यासत्तिन्यायेन प्रथमार्थभूतसंख्यायाः शीघ्रोपस्थितिकारणतः तस्या एव प्रथमोऽन्वयः। अतः विलम्बेन उपस्थितायाः तिङर्थसंख्यायाः एव साधुत्व प्रतिपादकस्वीकारः उचितः। यद्येवमुच्यते ‘चैत्रो मैत्रश्च गच्छतः’ इत्यत्र द्वित्वस्य अन्वयाभावापत्तिरिति चेन्न। द्वित्वस्य अन्वयस्य अनुभववत् एकत्वस्य अनुभवस्य अपि अपलापः न कार्यः। किन्तु उभयानुभवयोः एकस्तु आशाब्दः स्वीकार्यः भवति इति भिन्नपदोक्तं द्वित्वमेव अशाब्दं स्यादिति।
 वस्तुतस्तु लाघवानुरोधात् तिङर्थे कृतौ स्वीकृतेऽपि ‘पचति’ शब्दोच्चारणपरं ‘किदृग्विध’ इति प्रश्नानुरोधात् कर्त्रादीनां निरूढलक्षणया आवश्यकम्। अतस्तत्र कर्त्रादिषु एकपदोपात्तत्वरूप प्रत्यासत्तिन्यायेन संख्यायाः अन्वयः भवति। अतः तस्याः संख्यायाः पुनः न क्वचित् प्रथमान्तपदार्थेऽन्वयः इति। एवमेव एकपदोक्तानां सर्वेषामपि पदानाम् एकमेव औत्सर्गिकम् विशेष्यम्।  इति न्यायेन एककार्यकारणभावकल्पनारूपलाघवानुरोधेन यदि संख्यायाः विशेष्यभावनायामेव अन्वयस्य आग्रहश्चेत् आख्यातस्य लक्ष्ये कर्तरि अन्वयः न भविष्यति। अतः भावनां प्रति प्रथमान्तपदोपस्थापितस्यार्थस्य मुख्यविशेष्यता न भविष्यति।
 तृतीयं मतम् अस्ति नैय्यायिक मतेन कालाद्यतिरिक्तः आख्यातार्थनिष्ठप्रकारतानिरूपितविशेष्यतासम्बन्धेन आख्यातपदज्ञानजन्यः अन्यविशेषणीभूतः अर्थविशेष्यकोपस्थितिरूपः कार्यकारणभावः पर्यवसितः भवति। किन्तु नैतद्विधस्य कार्यकारणभावस्य सम्भवोऽस्ति। यतः ‘पचति चैत्रः’ ‘पचत्यपि चैत्रः’ इत्यादिस्थलेषु आख्यातस्यार्थभावनायाः अन्वयः चैत्रे एव भविष्यति। अतः नञर्थे अभावे, एवकारार्थे अन्ययोगव्यावृतौ एकदेशभेदे, अपिशब्दार्थे च समुच्चये नान्वयः। पूर्वोक्तस्थलेषु चैत्रे संख्यायाः अन्वये सति भावनाविशेष्ये संख्यायाः अन्वयस्य नियमस्य व्यभिचारः भविष्यति।
 अतः निपातासमव्याहतत्वं निपातविशेषणं न, यतः संख्यायाः अन्वयः चैत्रे नास्ति। यद्युच्येत पूर्वोक्तकार्यकारणभावे स्वीकृते सति विशेषणस्थले निपातासमभिव्याह्रतस्थले च संख्यायाः भावनायाश्च पृथक् कार्यकारणभावं मत्वा स्व-स्व विशेष्ये अन्वयोपपत्तिः जायेत। किन्तु नैतद् युक्तम्। अनेककार्यकारणभावकल्पनागौरवात्।
  मीमांसकमते एककार्यकारणभावे स्वीकृतेऽपि सर्वस्यापि भावनायामेवान्वयः सिध्यति। अतः अनेककार्यकारणभावस्य आपत्तिर्नभवति। अपरन्तु सर्वनिपातसाधारण्येन एकरूपता अपि न भवति। यतः ‘चैत्र एव पचति’ ‘घट एव दृश्यते’ इत्यादि स्थलेषु निपातस्य समभिव्याहारे सत्यपि संख्यायाः भावनायाश्च उभयोरपि चैत्रे अन्वयस्य प्रतितिः भवति।
 यदि च क्रियाभिव्याह्रतस्थले एव संख्याभावनयोः अन्वयस्य वैरूप्यं भवेत् अन्यत्र न चेदपि अनियमः इत्युच्यते। नेदं साधीयः। यतः ‘पचति न चैत्रः’, ‘चैत्रो न पचति’ इत्यादिस्थलेषु निपातस्य समभिव्याहारे असमभिव्याहारे सत्यपि वैरूप्यं जायेत। अतः नैय्यायिकमतेन अनेककार्यकारणभावस्य कल्पना, व्यभिचारदोषसद्भावाच्च प्रथमान्तपदोपस्थापितोऽर्थः अर्थभावानां प्रति विशेष्यं न भवितुमर्हति। अतः भावनैव मुख्यविशेष्या भवति तत्रैव च सर्वेषामपि पदजन्यपदार्थानामन्वयः भवति।
 तृतीयं तु ‘ओदनं पचति’ इत्यादि स्थलेषु प्रथमान्तं पदं नास्ति। अतः कारणाभावेन भावनाप्राकारकबोधस्य उपपत्तिः न संभवति। अतः सामग्रीणामुपस्थितेः कारणेनः भावनायाः मुख्यविशेष्यतायां बाधकं तत्वं नास्ति इति। यद्युच्येत अनुभवानुरोधेन भावनाप्राकारकं शाब्दबोधं प्रति आख्यातपदज्ञानस्य कारणतायाः कल्पनां कृत्वा तादृशबोधाय प्रथमान्तपदमध्याहार्यमिति। किन्तु इदं नोचितम्। यतः अस्यानुभवस्य शपथनिर्णेयत्वात् पूर्वोक्त कार्यकारणभावस्य कल्पनायां गौरवं भवेत्।
 यद्युच्यते मीमांसकमतेऽपि ‘पण्डितश्चैत्रः’ इत्यादौ आख्यातपदस्याभावकारणतः प्रथमान्तार्थस्य मुख्यवैशिष्ट्यं भविष्यति। किन्तु इदं न युक्तम्। यतः सुबर्थप्राकारकं शाब्दबोधं प्रति हि सुब्ज्ञानं कारणं भवति। प्रथमापि संख्यायाः अतिरिक्ता अस्ति। अनतिरिक्ताऽपि सति प्रथमान्तप्रतिपदिकोपस्थापितम् अर्थप्राकारकशाब्दबोधं प्रति प्रथमान्तपदं कारणं न सत् तादृशस्थलेषु आख्यातपदस्य अध्याहारस्य उपपत्तिः भविष्यति। अत्र उभयपक्षेऽपि विनिगमनाविरहः न वक्तुं शक्यते, यतः भावनामुख्यविशेष्यके शाब्दबोधे न कोऽपि दोषः सूत्राणाम् आनुगुण्यात्। ‘अस्तिर्भवन्तीपरः प्रथमपुरुषेऽप्रयुज्यमानेऽप्यस्ति’  इत्यनुशासनस्य ज्ञानाभावेऽपि पूर्वोक्तः बोधः ईष्यते।
   चतुर्थमिदं तथ्यमस्ति यत् भावनाकारकशाब्दबोधं प्रति आख्यातपदस्य ज्ञानरुपेण ‘चैत्रेण सुप्यते’ ‘गगनेन स्थीयते’ इत्यादिषु भावाख्यातस्थलेषु प्रथमान्तपदस्य अध्याहारापत्तिर्जायते।
 आख्यातार्थविशेष्यकबोधमेव स्वीकृत्य कारणतावच्छेदके भावभिन्नस्य निवेशे कृतेऽपि गौरवदोषो भवेत्। मीमांसकमते सर्वत्र आख्यातार्थविशेष्यकबोधे जायमाने भावाख्यातस्थलेषु च कर्तुरनभिधाने प्रथमान्तपदस्य प्रसक्तिर्नहि संभवति।
    पञ्चमतथ्यमस्ति अन्ये अविशेषणीभूते प्रथमान्तपदे भावनायाः संख्यायाश्चान्वये ‘चैत्र एव पचति’ ‘घट एव दृश्यते’ इत्यादिस्थलेषु भावनायाः संख्यायाश्च चैत्रादिषु अन्वयः न मातुं शक्यते यतश्चैत्रादेरेवकरस्यार्थभूतस्यान्ययोगव्यावृत्तेरेकदेशभेदे प्रतियोगिताकत्वसम्बन्धेन विशेषणमस्ति।
  एवकारार्थभूते व्यावृतौ प्रतियोगिताकत्वसम्बन्धेन भावनायाः आश्रयतासम्बन्धेन च एवकारार्थभूतेभेदे संख्याया अन्वयोऽपि नो वक्तुं शक्यते। यतः भावनासंख्ये उभेऽपि प्रथमान्तपदोपास्थापितावर्थौ न। यद्युच्येत यथा अव्ययेषु नपुंसकलिङ्गशब्देषु वाऽपि पश्चाद्वर्तिनि सुब्लोपे ‘दधि तिष्ठति’ इत्यादि प्रयोगो निष्पद्यते, तथैव प्रथमन्तत्वस्य न कोऽपि विरोध इति। किन्तु नेदं साधीयः। यतः प्रथमान्तत्वस्य अविरोधेऽपि जायमाने ‘चैत्र एव पचति’ इत्येकवचनमेव प्रयुज्यते। अतः ‘पचति’ शब्दस्य व्युत्पत्तेर्वैचित्र्यात् द्विप्रकारकान्वयस्वीकारेण ‘पाकानुकूलकृतिमच्चैत्राभिन्नपाकानुकूलकृत्यभवाश्रयः’ एवं विधस्य एवकारार्थस्य एकदेशविशेष्यकश्शाब्दबोधोऽपि असंगतः सिध्यते। यतः तत्र बहुत्वस्य सत्त्वात् एकवचनस्यान्वयोऽप्यनुपपन्न एव।
 यद्युच्येत चैत्रपदस्य विशेष्यरूपेणविशेषणरूपेण चेति द्विधा अर्थबोधकता भवेत्। ततः पाकानुकूलकृतिमाश्चैत्रः, पाकानुकूलकृत्यभाववाञ्चैत्रश्चेति द्विविधश्शाब्दबोधस्स्यात्। विशेष्यत्वाभावविशिष्टविशेषणतायाः अभावः एव इतराविशेषणता अस्ति। किन्तु नैतत्समीचीनम् यतः स्वीकृतेऽप्येतद्विधेऽन्वयशाब्दबोधयोः ‘चैत्रो मैत्रश्च गच्छतः’ ‘चैत्रो मैत्रादयश्च गच्छन्ति’ इत्यादि प्रयोगैरिव द्विवचनत्वबहुवचनत्वयोरप्यापत्तिस्स्यात्।
  नैतदपि वक्तुं पार्यते यत् ‘चैत्रो गच्छति, न मैत्र’ इत्यादिप्रयोगवत् एकवचनोपपत्तिरिति। यतः अनेन ‘गच्छति’ पदसम्बन्धभिन्नवाक्यैरिव एतत्स्थलेष्वपि मुख्यविशेष्यभेदेन भिन्नभिन्नवाक्यानि भविष्यन्ति।
  मीमांसकानां मतेन ‘चैत्रवृत्ति चैत्रान्यावृत्तिश्च एककर्तृकाभावना’ इति शाब्दबोधः। भेदे स्वीकृते तु चैत्रप्रतिगिकत्वपश्चाद्भावी अन्वयः भवति। अथवा एवकारस्यैव तत्र लक्षणा भवति। अतः परस्परं विरोधो न जायते। पूर्वोक्तयुक्त्यारेण च भावनामुख्यकश्शाब्दबोधो हि अनुभवसिद्धस्सिध्यते।
  आख्यातलक्षितं  कर्त्रादिकमपि भावनां प्रति विशेष्यं न भवति, किन्तु भावनैव कर्त्रादिकं प्रति विशेष्या भवति। अन्यथा तु ‘पचति, ब्रूते’ इतिवदपि प्रयोगापतिर्जायेतयथैव ‘पक्ता ब्रूते’ इति प्रामाणिकप्रयोगोऽस्ति अथापि ‘पचति भवति’ इति भाष्योदाहृतप्रयोगः अपि असंगतः भवेत्।
  केचन वदन्ति ‘अपाक्षीत् भवति’  ‘पक्ष्यति भवति’ अयमेव भाष्यकारेणोदाहृतः प्रयोगः अस्ति स च भूधातुना युक्तत्वे लक्षणया भूत-भाविनि पाके वर्तमानयुक्ततायाः अश्रयतारूपशाब्दबोधस्य स्वीकारे अपि अयुक्तत्वं न स्यात्। लोकेऽपि युज्यते इत्यर्थे ‘भवति’ इत्यस्य प्रयोगो दृश्यते।        
 एवमेव ‘पचति भवति’ इति प्रयोगोऽपि कर्तुः मुख्यविशेषतापक्षे नोपपद्यते। कर्तुः मुख्यविशेष्यतापक्षे स्वीकृतेऽपि ‘पचन्ति भवन्ति’ इत्यस्यापि आपतिर्भवति। ‘भावप्रधानमाख्यातम्’  इति नियमेन भावतिरिक्तस्याख्यातस्य अर्थमात्रं प्रति भावपदवाच्यायाः भावनायाः एव विशेष्यता उच्यते। अनेनैव नियमेन प्रकृत्यर्थस्य भावनां प्रति प्राधान्यं लक्ष्यते। यतः प्रकृत्यर्थनिरुपितपदार्थस्यप्राधान्यं सुबर्थसाधारणरूपेण सिध्यति। 
  ‘धात्वर्थः केवलशुद्धोभावः’ इत्यभिधीयते। अत्र प्रयुक्तो भावः णिजन्तात् भूधातोः घञि प्रत्यये कृते निष्पद्यते। अतोऽनया व्युत्पत्या भावानुकूलव्यापाररूपा भावनैव भावशब्देनप्रतिपादिता भवति। भावशब्देन धातुरूपः अर्थः न ग्राह्यः भवति। अतः भावशब्दः धातोरर्थ इति न हि स्वीकर्तुं शक्यते। नदी, घि इत्यादिपरिभाषाः इव ईयं परिभाषाविशेषा अस्ति। अत एव व्याकरणशास्त्रम् ‘भावे’  इत्यादि सूत्रेषु प्रवृतं भवति। तदपि भावर्थकेषु त्वतलादिषु अप्रवृत्तत्वात् न सार्वत्रिकम्।
   अत एव ‘सर्वमाख्यातजं नाम’  इत्यादिस्मृतिषु अपि आख्यातशब्दस्य लकारसामान्य एव अर्थ न धातुरिति। पाचकः इत्यादिषु कृदन्तीयस्थलेषु आख्यातशब्दस्य प्रयोगाभावेन तत्रस्थस्याख्यातशब्दस्य धातुः इत्यर्थे लाक्षणिकप्रयोगः स्वीकार्यः न हि मुख्यप्रयोगः। अतः आख्यातस्यानेकार्थकत्वात् तेषु अर्थेषु कस्यार्थस्य गौणता प्राधान्यं वा स्यादिति प्रश्नः उपतिष्ठति। अस्य समाधानार्थम् एव ‘भावप्रधानमाख्यातम्’  इति स्मृतिः उपस्थिता भवति। अनया भावनारिक्ताख्यतार्थं प्रति भावनाया एव प्राधान्यमिति नियमः । आख्यातार्थभूतस्य कालस्यापि नञो समभिव्याहाराभावे कालिकसम्बन्धेन भावनायामेवान्वयः नञो समभिव्याहारे सत्यपि तत्कालीनाभावप्रतियोगितत्वसम्बन्धेन अथवा साक्षात्सम्बन्धेनैव वापि भावनायामेवान्वितं भवति। साक्षात्सम्बन्धेन कर्त्रादिषु अन्वयः भवति। अतः  भावनायाः एव मुख्यविशेष्यता सिध्यति । आख्यातार्थस्य एकत्वादिसंख्यायाः सामानाधिकरण्यसम्बन्धेन भावनायामेव अन्वयः भवति, न तु साक्षात्सम्बन्धेन कर्त्रादिषु अन्वयः इति। इदमेव कारणं यत् भावप्रधानमाख्यातम् इति स्मृतेः संकोचे न किमपि प्रमाणमस्ति अथापि आख्यातर्थनिष्ठतानिरूपितविशेष्यता संबन्धेन शाब्दबोधेकारणान्तर कल्पनायामपि गौरवदोषः सम्भवति। अतः संख्यादीन् प्रत्यपि भावनायाः प्राधान्यं सिद्धं भवति।
  ‘गगनेन स्थीयते’ इति वाक्यस्य ‘गगननिष्ठं स्थितिमत् स्थित्याश्रयत्वम्’ इति शाब्दबोधः भवति। द्वितीयः स्थितिबोधः साधुत्वप्रतिपादनपरः एव। अतः स्थीयते इति पदस्य एकत्वस्य अपि स्वाश्रयीभूतभावरूपधात्वर्थनिरूपितत्वसम्बन्धेन आश्रयत्वादावेव अन्वयः।
   इदमपि न वक्तुं शक्यते यत् धात्वर्थनिष्ठद्विवचनादेर्विवक्षायां द्विवचनप्रयोगादेरेवापत्तिरिति। यतः प्रयोगाभावसहकृतानुशासनबलेन एकवचनस्यैव द्वित्वादौ लक्षणा भविष्यतीति। अतः ‘उष्ट्रसिका आस्यन्ते’ इति महाभाष्यवचनप्रामाण्यात् क्वचित् भावेऽपिबहुत्वमिति।
 एवमेव ‘कर्मवत्कर्मणातुल्यक्रियः’  इति सूत्रेण ‘पच्यते ओदन स्वयमेव्’  इत्यादिस्थलेषु सकर्मकधातुभिः सह या कारकविवक्षा भवति, तत्रस्थाखण्डोपाधिरूपकर्मत्वस्य अविवक्षया एव कर्तृत्वविवक्षा जायते। तेषु स्थलेषु आख्यातेन कर्मत्वस्यैव ग्रहणे सति लक्षणया कथनं भवति। अतः आख्यातेन विवृतानुगुणं शक्तिवृत्या एव कृतेरूपादानं भवति। तत्रैव कृतौ कर्तृत्वस्य ‘स्वनिरूपकविक्लित्तिरूपफलजनकपाकजनकत्वसम्बन्धेन’ अन्वयः भवति। अतः भवनतिरिक्तानां सर्वेषामपि आख्यातार्थानां भावनायां प्रकारता भवत्येव, सा च भावना मुख्यविशेष्यं भवति। अतः सर्वेषामपि पदार्थानां भावनायामेवान्वयः इति स्वीकारणं श्रेयः। संख्यादीनामपि पूर्वोक्तप्रकारेण भावनायामेवान्वयः। अतः समानधिकरण्यसम्बन्धेन एकत्वसंख्याविशिष्टा स्वनिरूपकविक्लिरूपगलजनकपाकजनकत्वविशिष्टकर्तृनिरूपिका  स्वनिष्ठकर्मत्वनिरूपकफलप्रयोजकत्वविशिष्टा ओदननिष्ठा पाकानुकूला वर्तमानकालिकी भावना इतिविधः शाब्दबोधः समुदितः भवति। ‘नश्यति’ इत्यादिस्थलेषु धातोः अर्थः नाशः, प्रत्ययस्य च प्रतियोगित्वरूपोऽर्थः इति लक्षणा भवति। वर्तमानकालस्य ‘स्ववृत्त्युत्पत्तिकनाशीयत्वसम्बन्धेन प्रतियोगितात्वेऽन्वयः भवति। अतः ‘घटवृत्तिनाशप्रत्तियोगित्वं वर्तमानकालोत्पत्तिकनाशीयत्वसम्बन्धेन वर्तमानत्ववद्’ इति शाब्दबोधः भवति। आख्यातस्यैव अर्थभूतत्वात् एकत्वादिसंख्यानां समाधिकरण्यसम्बन्धेन भावनायामेवान्वयः भवति।
  ‘चैत्रः ओदनं पचति’ इत्यादिकर्तृवाच्यवाक्येषु आख्यातस्यार्थः भावना, संख्या, कालश्च भवति। कर्मणि द्वितीयायाः विधानात् तस्याः अर्थः कर्मत्वम् इति भवति। एकत्वसंख्यायाः समाधिकरणसम्बन्धेन भावनायामन्वयः भवति। द्वितीयायाः अर्थे कर्मत्वे ओदनस्य निष्ठत्वसम्बन्धेन अन्वयः भवति। चैत्रपदगतप्रथमायाः चैत्ररूपकर्ता इत्यर्थः भवति, प्रकृतिरूपं चैत्रपदं च तात्पर्यग्राहकं भवति। पाच् धातोरर्थः पाकः तस्य च ओदनोद्देश्यकत्वसम्बन्धेन भावनायामन्वयः भवति। वर्तमानकालोऽपि भावनायामन्वितः भवति। इत्येवं प्रकारेण सम्पूर्णवाक्यस्य ‘चैत्रनिष्ठकर्त्तृतानिरूपिका समानाधिकरण्यसम्बन्धेन एकत्वविशिष्ट ओदनवृत्तिकर्मत्व, स्वनिरूपकपाकानुकूलतासम्बन्धेन कर्मत्वविशिष्टा स्वनिष्ठकारणतानिरूपक ओदनोद्देश्यकत्वसम्बन्धेन पाकविशिष्टा समाधिकरणसम्बन्धेन एकत्वविशिष्टा वर्तमानकालिकी भावना’ इति शाब्दबोध भवति।
 कर्माख्यातस्थले ‘चैत्रेण ओदनः पच्यते’ इत्यादिवाक्येष्वपि ‘पाकेन ओदनः क्रियते’ इति विवरणानुसारम् आख्यातस्य अर्थः भावना भवति। पाके कारणत्वस्य चैत्रे च कर्तृत्वस्य बोधः भवति। आत्मनेपदेन लक्षणया कर्मत्वबोधः भवति। संख्याकालौ अपि पूर्वोक्तवत् आख्यातस्यार्थः। अतः समाधिकरण्यसम्बन्धेन एकत्वविशिष्ट ओदनवृत्तिकर्मत्व, स्वनिरूपक पाकानुकूलतासम्बन्धेन कर्मत्वविशिष्टा स्वनिष्ठकारणतानिरूपकोदनोद्देश्यत्वसम्बन्धेन पाकविशिष्टा वर्तमानकालिकी भावना इति समुदितशाब्दबोध भवति। 
भावाख्यातस्थलेषु ‘चैत्रेण सुप्यत’ इत्यादिवाक्येषु ‘स्वापः क्रियते’ इत्यादिविवरणानुसारम् आख्यातस्य अर्थ भावना भवति। संख्याकालयोः स्थितिः पूर्ववत् भवति। अतः ‘चैत्रकर्तृका एकत्वविशिष्टा स्वापवती भावना’ इति समुदितः शाब्दबोधः निष्पद्यते। द्वितीयवारं स्वापशब्दस्य प्रयोगस्तु शब्दसाधुत्वहेतुकः।
 ‘चैत्र एव पचति’ इत्यादिषु अवधारणार्थकस्थलेषु। समानाधिकरणसम्बन्धावच्छिन्ना एकत्वसंख्याविशिष्टा चैत्रवृत्ति तथा चैत्रान्यावृत्ति पाकानुकूला वर्तमानकालिकी पाकानुकूला भावना इति शाब्दबोधः भवति।
 ‘नीलो घटः’ इत्यादौ ‘अस्ति’ इति क्रियायाः अध्याहारः क्रियते। तत्र प्रकृतेरर्थः सत्ता भवति, आख्यातार्थस्तु पूर्ववत्। सत्तायाः अनुकूलत्वसम्बन्धेन भावनायामन्वयः भवति। संख्यायाः सामानाधिकरण्यसम्बन्धेन कालस्य कालिकसम्बन्धेन भावनायामेवान्वयः भवति। नीलपदं नीलत्वार्थे लाक्षणिकं भवति। इदं नीलत्वावच्छिन्नस्यगुणविशिष्टस्य तात्पर्यग्राहकं भवति। घटपदोत्तरसुविभक्तेः घट एवार्थः घटपदं च तात्पर्यग्राहकं भवति। अतः ‘सामानाधिकरण्यसम्बन्धावच्छिन्ना एकत्वसंख्याविशिष्टा, नीलत्वावच्छिन्नगुणविशिष्टद्रव्याभिन्नघटनिष्ठा वर्तमानकालिकी भावना’ अथवा ‘नीलविशिष्टा सत्तानुकूला भावना’ इति समुदितश्शाब्दबोधः भवति।

आत्मनेपदस्य अर्थस्य अन्वयप्रकारः-
आत्मनेपदस्य कर्तृगामीफलादिरूपोऽर्थः। तस्य कर्मत्वसम्बन्धेन भावनायामेवान्वयः भवति। यद्यपि स्वर्गकामादिपदेन स्वर्गत्वादिरूपेणोक्तं भवति, तथा तस्य कर्तृगामित्वादिरूपेणान्वयः अनुचितः न। अतः ‘पचते’ इत्यादौ सामानाधिकरण्यसम्बन्धावच्छिन्ना एकत्वसंख्याविशिष्टा वर्तमानकालिकी भावना इति शाब्दबोधः भवति। अथवा कर्तृगामित्वादिकमेव आत्मनेपदस्यार्थः मन्येत। तस्य च स्वर्गादिफलकर्मत्वादिसम्बन्धेन भावनायामन्वयः भवति। एतदर्थानुसारं ‘सामानाधिकरण्यसम्बन्धावच्छिन्ना कर्तृगामित्वादिनिरूपिता पाकानुकूला वर्तमानकालिकी भावना’ इति समुदितश्शाब्दबोधः भवति।
नञर्थस्यार्थान्वयप्रकारः-
‘नातिरात्रे षोडशिनं गृह्णाति’ ‘न कलञ्जं भक्षयेत’ इत्यादिवाक्येषु नञर्थः प्रतिबन्धक संसर्गाभावरूपः अस्ति। स चात्यन्ताभावादिरूपः। अतः अत्यन्ताभावस्य नित्यत्वात् अनुमित्या नष्टः न भवितुमर्हति, तथापि प्रतियोगिसत्तायाः अभावसम्बन्धस्य नाशकः भवति। अतः अभावीयविशेषणतासम्बन्धरूपकारणतावच्छेदकसम्बन्धप्रतियोगितायां सत्यां नश्यति। अतः लिङर्थस्य ‘स्वविषयकज्ञानजन्यानुमितिजन्यत्वस्वनिरूपिकारणतावच्छेदकीभूतसम्बन्धनाशकालीनभावप्रतियोगित्वसम्बन्धेन’ आख्यातार्थभावनायामन्वयः भवति।
नञ् समभिव्याहृतस्थलेषु लिङः अर्थः निवारणरूपः निवर्तनारूपः वा भवति। नञ् पदं स्वार्थस्य अभावस्य प्रतियोगितासंसर्गेण आख्यातस्यार्थभावनायामन्वयस्यानुवादकः भवति, लिङादीनमर्थाश्च तात्पर्यग्राहकाः भवन्ति। अतः ‘चैत्रो न पचति’ इत्यादिनिषेधस्थलेषु संख्या, कालः भावना चेत्यर्थः भवति आख्यातस्य। अथ च पूर्वोक्तसम्बन्धैः सर्वेषामपि भावनायामन्वयः भवति। अतः सामानाधिकरण्यसम्बन्धावच्छिन्ना एकत्वसंख्याविशिष्टा चैत्रकर्तृका अभावप्रतियोगिनी पाकानुकूला वर्तमानकालिकी भावना इति समुदितश्शाब्दबोधः भवति। अनेन प्रकारेण मीमांसकमतानुसारं भावनामुख्यविशेष्यकः शाब्दबोध इति प्रमाणितं भवति।
सन्दर्भ-सूचीः
• अष्टाध्यायी, पाणिनिः, रामलाल कपूर ट्रस्ट, रेवली, सोनीपत, २००९.
• निरूक्तम्, यास्कः, परोपकारिणी सभा, अजमेर, १९९८.
• न्यायदर्शन(न्यायभाष्यसहित), व्या० ढुण्ढिराज शास्त्री, चौखम्भा संस्कृत भवन, वाराणसी; वि. सं. २०६४.
• न्यायसिद्धान्तमुक्तावली, विश्वनाथ पञ्चानन, (दिनकरी-रामरुद्री सहित), सं० हरिराम शुक्ल, चौखम्भा संस्कृत संस्थान, वाराणसी, १९८९.
• भाट्टरहस्यम्, खण्डदेवमिश्रः, सम्पा.श्रीसुब्रह्मण्यशास्त्री, मोतीलाल बनारसीदास, वाराणसी. १९७३.
• भाट्टदीपिका, खण्डदेव, प्रं. सं. मण्डन मिश्र, सं. श्रीसंपन्नारयणाचार्य, राष्ट्रीय संस्कृत संस्थान, दिल्ली, १९९२.
• मीमांसा शाबरभाष्य , शबरस्वामी, सं. एवं अनु. युधिष्ठिर मीमांसक, रामलाल कपूर ट्रस्ट, बहालगढ़(सोनीपत-हरियाणा); १९८७.
• मीमांसा श्लोकवार्तिक , कुमारिलभट्ट, हिन्दी व्याख्या- दुर्गाधर झा शर्मा, कामेश्वर सिंह दरभंगा संस्कृत विश्वविद्यालय, दरभंगा; १९७९.
• शाब्दशक्तिप्रकाशिका, जगदीश, चौखम्बा संस्कृत सीरीज वाराणसी. १९८७.
• ताताचार्य, एन० एस० रामानुज: शाब्दबोधमीमांसा, राष्ट्रियसंस्कृतसंस्थान, नई दिल्ली, २००६.
• नेने, सोमनाथ : मीमांसा-दर्शन-विमर्श, प्रतिभा प्रकाशन दिल्ली, २००८.
• बिजल्वान, चक्रधर: भारतीय न्यायशास्त्र, उत्तर प्रदेश हिन्दी संस्थान, लखनऊ,१९९८.

Please rate this Research Paper

Leave a Reply