संस्कृतवाङ्मये नारीसशक्तिकरणम् 4.5/5 (6)

0
112 views

Sandeep kumar
Assistant Professor (Ad-hoc)
Sanskrit Department ZHDC, DU

     साम्प्रतं नारीसशक्तिकरणविषये सर्वे विज्ञाः प्रबुद्धजनाश्च जागरुकाः दृश्यन्ते। विविधेषु देशेषु समाजशास्त्रिणः नेतारश्च नारीणामधिकारार्थं सशक्तिकरणाय च अनेकानि कार्याणि कुर्वन्ति । यतोहि नारी समाजस्याभिन्नाङ्गं भवति । नार्याः उन्नतिं विना सुराष्ट्रस्य कल्पनाऽपि न सम्भवा । यस्मिन् देशे समाजे वा नारीणामधिकाराः पुरुषतुल्या न भवन्ति तत्र प्रगतिः कदापि न भवितुं शक्नोति । अतः मनुना उक्तम्-

“ यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः।
यत्रैतास्तु न पूज्यन्ते सर्वास्तत्राफला क्रियाः॥”
नारीसशक्तिकरणस्योत्कर्षोऽयं यत् भारतदेशस्य सर्वोच्चपदे महामहिममण्डिता प्रतिभापाटिलमहाभागा विराजते । अस्य वर्तमाननारीसशक्तिकरणस्य आधारः कः? यदि वर्तमाननारीसशक्तिकरणस्याध्ययनं कर्तुमिच्छान्ति तर्हि संस्कृतवाङ्मयस्याध्ययनपि आवश्यकम् ।
संस्कृतवाङ्मये नारीणां गाथा गौरवमयी वर्तते । तत्र नारी हि समाजस्य आधारशिला समाजस्य विभिन्नेषु कार्येषु तस्या योगदानमधिकारश्च प्रायः पुरुषवदेवासन् । सा धार्मिकराजनैतिकार्थिकक्षेत्रेषु सक्रिया आसीत् ।

नारीणां धार्मिकाधाराः-
संस्कृतवाङ्मये नारी धार्मिकाधिकारयुक्ता आसीत्। संस्कृतवाङ्मयानां पर्यावलोचनेन ज्ञायते यत् स्त्रियः धर्मानुष्ठानानां पालनं स्वतन्त्रतापूर्वकं कुर्वन्ति स्म । विविधयज्ञेषु तस्याः उपस्थितिः अनिवार्या आसीत् । ऋग्वेदे उक्तम्-
हे अग्ने! देवपत्नीं यज्ञम् आनयतु ।
अस्मिन् गृहे धर्माय जागृहि ।
अथर्ववेदे स्त्रीणां यज्ञे प्रथमागमनमुक्तम् । तत्र स्त्रियः अमृततत्वाय अपि प्रयत्नं कृतवत्यः । यजुर्वेदेऽपि स्त्रीणां यज्ञे अनिवार्यता उक्ता यत् स्त्रियः अस्मिन् यज्ञे आगच्छन्तु ।
“देवी अस्माकं यज्ञं पूरयतु।”
ऋग्वेदे नारीणां यज्ञोपवीतसंस्कारकरणाय उपदेशोऽस्ति ।
महाभारते वर्णितमस्ति यत् महर्षिणः उद्दालकस्य शिष्यः कुहोडः अत्यन्तमेधावी आसीत् । तस्य भार्या वेदश्रवणमकरोत् अतस्तस्य पुत्रः अष्टावक्रः वेदशास्त्राणाम् असाधारणो विद्वान् बभूव ।
रामायणे उल्लिख्यते रामलक्षमणाभ्यां सह सीता नियमेन सन्ध्यावन्दनं करोति स्म । सीताहरणप्रसंगे रामस्येदं कथनं नितान्तमहत्वपूर्णमस्ति- “यदि सीता अत्रैव अस्ति चेदवश्यम् अत्र नदीतीरं सन्ध्यायै अवश्यमागमिष्यति ।
पत्युः अनुपस्थितौ अपि पत्नी एकाकिनी अपि यज्ञादिकं निर्वहति स्म-
“ If the husband was away on journey, the wife alone performed the various sacrifices, which the couple has to offer jointly.’’
नारीणां शैक्षिकाधिकाराः-
संस्कृतवाङ्मये नारीणां शिक्षाधिकाराः अपि प्रायः पुरुषवत् एव दृश्यन्ते । स्त्रियः पुरुषवत् भेदभावं विना शिक्षां प्राप्नुवन्ति स्म । यमस्मृतौ उक्तम्-
“पुराकाले तु नारीणां मौञ्जीबन्धनमिष्यते।
अध्यापनं च वेदानां सावित्रीवचनं तथा॥”
एवमेव हारीतस्मृतावपि भणितम्- “द्विविधा स्त्रियः ब्रह्मवादिन्यः सद्योवध्वश्च।” तत्र ब्रह्मवादिनामुपनयनाग्नीबन्धनं स्वगृहे भिक्षाचर्या चेति ।
ऋग्वेदे(२४)चतुर्विंशतिः, अथर्ववेदे(५)पञ्च, ऋषिकाणामुल्लेखो प्राप्यते । वेदेषु ऋषिकाभिः साक्षात्कृतानां मन्त्राणां संख्या (४२२) द्वाविंशत्युत्तरचतुश्शतं स्वीक्रियते । ऋग्वेदस्य मन्त्रद्रष्ट्रयः ऋषिकाः सन्ति-

“घोषा गोधा विश्ववारा अपालोपनिषन्निषत्।
ब्रह्मजाया जुहूर्नाम अगस्त्यस्य स्वसादितिः॥
इन्द्राणी चेन्द्रमाता च सरमा रोमशोर्वशी ।
लोपामुद्रा च नद्यश्च यमी नारी च शश्वती॥
श्रीर्लाक्षा सार्पराज्ञी वाक् श्रद्धा मेधा च दक्षिणा ।
रात्री सूर्या च सावित्री ब्रह्मवादिन्य ईरिताः॥
वाक्-अम्भृणि ऋषेः पुत्री वाक् वाक्सूक्तस्य अधिष्ठात्री वाग्देवी अस्ति । तत्त्वमसि अहं ब्रह्मास्मि इति दिव्यरुपस्य साक्षात्कारं कृत्वा वागाम्भृणी कथयति-
“अहं रुद्रेभिर्वसुभिश्चराम्यहमादित्यैरुत विश्वेदेवैः।
अहं मित्रावरुणोभा बिभर्म्यहमिन्द्राग्नी अहमश्विनोभा॥”
ऋग्वेदे ऋषिकाणां सूक्तानां सार्वकालिकं सार्वभौमं महत्वं विद्यते । वाक्सूक्तस्य भाषावैज्ञानिकदृष्ट्या ऋद्धासूकतस्य मनोवैज्ञानिकदृष्ट्या इन्द्राणीसूक्तस्य सामाजिकदृष्ट्या सूर्यासावित्रीसूक्तस्य सांस्कृतिकदृष्ट्या महत्वं विद्यते तथा च आधुनिकयुगे तेषां प्रासंगिकताऽस्ति ।
राजशेखरः नारीणां कवित्वसन्दर्भे उक्तवान्- “ पुरुषवत् योषितोऽपि कवयित्र्यः भवेयुः । संस्कारो ह्यात्मनि समवैति न स्त्रैणं पौरुषं वा विभागमपेक्षते । श्रूयन्ते दृश्यन्ते च राजपुत्र्यो महामात्यदुहितरो गणिकाः कौतुकिभार्याश्च शास्त्रप्रहतबुद्धयः कवयश्च ।”
बृहदारण्यकोपनिषदि उल्लेखः अस्ति यत् ऋषेः याज्ञवल्क्यस्य द्वे पत्न्यौ अवर्तताम् । मैत्रैयी कात्यायनी च । अनयोः मैत्रेयी उच्चकोट्याः विदुषी आसीत् । असौ याज्ञवल्क्यम् आत्मतत्वसम्बद्धान् गूढप्रश्नान् पप्रच्छ । अत्रैवोपनिषदि उल्लेख प्राप्यते यत् विदेहराजजनकस्य राजसभायामपि अनेकाः विदूष्यः स्त्रियः आसन् । तत्र गार्गी वाचक्नवी विशिष्टे आस्ताम् । प्रश्नोतरप्रसंगे सा याज्ञवल्क्यमपि अजयत्। याज्ञवल्क्यः तस्या प्रश्नान् आकर्ण्य तूष्णीम् अभवत् ।
पाणिनीयायाम् अष्टाध्याय्यां पाततञ्जलमहभाष्ये च उल्लिखतमस्ति यत् क्रैस्तपूर्वं द्वितीयशताब्दीं यावत् उच्चशिक्षायाः आधिकारोऽवर्तत स्त्रीणाम् । यजुर्वेदस्य कठशाखायाः अध्येत्री कठी ऋग्वेदस्य च बह्वृच शाखायाः अध्येत्री बह्वृची औच्येताम् । एवमेव अपिशलव्याकरणस्येत्री आपिशला औच्यत । महाभाष्येणेदमपि ज्ञातं भवति यत् मीमांसादर्शनसदृशं कठिनविषयम् अपि स्त्रियः अधीयन्ते स्म ।
महाभारते माता सर्वश्रेष्ठः गुरुः उक्ता अस्ति । महाभारतस्य कथनमस्ति यत् सत्यात् परः कोऽपि धर्मः नास्ति अथ च मातुः श्रेष्ठः कोऽपि गुरुः नास्ति- “नास्ति मातृसमो गुरुः।”
रामायणेमहाभारते च अध्ययने कृते ज्ञातं भवति यत् तस्मिन् काले स्त्रीणां कृते उचितशिक्षाव्यवस्था अवर्तत । तासामध्यापनं प्रायः अनुभविनः विद्वांसः कुर्वन्ति स्म। दमयन्तीस्वयंवरप्रसंगे सा स्वविद्याबलाद् एव इन्द्रं पर्यचिनोत्। दमयन्ती स्वशिक्षणस्य परिचयं वदन्ती आह यत् वृद्धेभ्यः अहं अधीतवती न कोऽपि अप्राप्तकालः म्रियते इति। एवं कुन्ती अपि युधिष्ठिरं क्षात्रधर्मं शिक्षितवती।
द्रौपद्याः अपि अनेन वचनेन यत् पत्नी पत्युः रक्षिणी भवति, तस्याः शिक्षणं ज्ञायते। सा कर्मफलमपि व्याख्याति यत् सुखदुःखे रथचक्रमिव परिवर्तनशीले स्तः।
रामायणे रामसीताभ्यां सह वनगमनपरं लक्ष्मणं सुमित्रा कर्तव्यमुपदिदेश, सः सदा अग्रजानुरागी स्यादिति तस्याः उपदेशैः ज्ञायते यत् सा सुशिक्षिता विदुषी च आसीदिति ।
“The women of those days had access to highest knowledge and played their part in the intellectual life of the country as Brahmavadinis like Gargi and Mattreyi.’’
नारीणां राजनैतिकाधिकाराः :-
संस्कृतवाङ्मये एतद्दृश्यते यत् पुरा नारीसशक्तिकरणाय ताभ्यः राजनैतिकाधिकाराः अपि प्रदताः। अथर्ववेदे एक्स्मिन् मन्त्रे उक्तं यत् स्त्रियः राजसभासु स्वविचारन् प्रस्तुतवन्ति स्म। तैत्तिरीयसंहितायामुक्तम्- “इन्द्राणी वै सेनायै देवता। सैवास्य सेनां संश्यति।” तत्र नारीणां शत्रुविजयिनीरुपस्य वर्णनं कृतम्। अतः स्त्रियै सहस्त्रवीर्या शब्दस्य प्रयोगोऽभवत्। तत्र स्त्री पाराक्रमिणी अजेया सशक्ता आसीत्। नार्यः युद्धं गत्वा शत्रुसेनां जयन्ति स्म। नारीणां स्वतन्त्रसेनायाः चर्चा ऋग्वेदे विद्यते।
महर्षिदयानन्दः स्वयजुर्वेदभाष्ये अकथयत्- “यदि पत्नी शूरवीरा स्यात् तर्हि तया सह योद्धारः संग्रामे विजयाय गच्छेयुः।”
सा नेतृरुपे युद्धे अग्रणिन्यासीत्।
सा सेनापतिरुपे अधिरथं शत्रून् हन्ति स्म।
इन्द्राणी कदापि अबला नासीत्।
पाणिनेः अनुसारं भारतस्य राजतन्त्रे पट्टमहादेव्याः महीष्याः वापि वैधानिकी उपस्थितिः अवर्तत। राज्ञा सह अस्याः अपि सिंहासने महाभिषेकः क्रियते स्म। महिष्यै सम्मानरुपेण धनप्राप्तिः अपि भवति स्म।
रामायणेऽस्य सन्दर्भाः सन्ति यत् स्त्रियोऽपि शासनं कुर्वन्ति स्म। रामायणेऽयं प्रस्तावः अपि कृतः अस्ति यत् रामे वनं गते सति सतया सिंहासने स्थीयेत अथापि शासनेन कृतं स्यातः।
“आत्मा हि दारा सर्वेषां दारसंग्रहवर्तिनाम्।
आत्मेयमिति रामस्य पालयिष्यति मेदिनीम्॥”
महाभारते राज्ञ्या विदुलया कृतं प्रबोधनं प्रसिद्धमस्ति। सा युद्धविरताय स्वपुत्राय क्षात्र धर्मस्य शिक्षां ददौ। तयोक्तम्- ’उत्थाय स्वकर्मणि रतः स्याः साफल्यमेष्यसि नूनम्’।
विदुलायाः उपदेशैः संजयः युद्धञ्चकार सिन्धुराजस्य पराजयञ्च अकरोत्। महाभारते कुन्ती युधिष्ठिरमुपदिशति यत् शक्त्याः उपयोगेन स्वाधिकारः प्राप्तः भवति। राजा एव कालस्य निर्माता अस्ति न हि कालः राज्ञः।
वेदे बहूत्र स्त्रियः पुरन्धि शब्देन सम्बोधिताः सन्ति अस्यार्थः भवति- “पुरं नगरं दधातीति पुरंधि।” अर्थात् या नगरं रक्षति पोषोयतीति वा।
स्त्रियः सभायाः समित्याश्चापि सदस्याः भवितुमर्हन्ति स्म।
इति वेदस्य निम्न मन्त्रै ज्ञायते-
“अहं वदामि नेत्वं सभायामह त्वं वद।”
“यत्समित्यां यदा वदा अनृतं वित्तकाम्या।”
अन्याधिकाराः-
वैदिकवाङ्मये नारीणामन्ये अधिकाराः अपि आसन् यथा आर्थिकाधिकारः- ऋग्वेदस्य एकस्मिन् मन्त्रे उक्तं यत् मातुरार्थिकाधिकाराः पितृवत् भवन्ति। सा स्वेच्छया स्वधनं दातुं शक्नोति। “ज्येष्ठा माता सूनवे भागमाधात्।” परिवारे पत्युः सम्पत्तौ पत्न्याः पूर्णाधिकारः आसीत्। अविवाहिता कन्यापि पैतृकसम्पतौ अधिकारिणी भवति स्म।
स्वयम्वराधिकारः
कन्यानां यौवनप्राप्ते सति विवाहाधिकारः-
“इमानि त्रीणि विषट्या तानीन्द्रिवि रोहयः।
शिरस्ततस्योर्वरामादिदं म उपोदरे॥”
मातृत्वरुपस्य स्वाभिमानः-
“आ ते योनिं भर्ग एतु…..आवीरोऽत्र जायताम्।”
“मक्षुस्थिरं शेवृधं सृतमाता।”
अतः वयं इदं वक्तुं पारयामः यत् नारीसशक्तिकरणरुपोऽयं वृक्षः योऽद्य भारते पल्लवितः दृश्यते तस्य बीजं संस्कृतवाङ्मये लीनमस्ति। कालिदासः रघुवंशे स्त्रियः उच्चस्थानं निर्दिशन् आह-
“गृहिणी सचिवः सखी मिथः।
प्रियशिष्या ललिते कलाविधौ॥
परवर्तिनः आचार्याः अपि स्त्रीणां विशिष्टं स्थानं कल्पयामासुः। शंकराचार्यः मण्डनमिश्रश्च भारतीं शास्त्रार्थे मध्यस्थां नियुक्तम् अकुरुताम्। अतः परमपि नारीसशक्तिकरणस्य किमुदाहरणं स्यात्। मनुः स्त्रियः श्रेष्ठतामाह-
“ब्राह्मणाः पादतो मेध्या गावो मेध्याश्च पृष्ठतः।
अजाश्वाः मुखतो मेध्याः स्त्रियो मेध्यास्तु सर्वतः॥

                           सन्दर्भ-ग्रन्थ

१. अथर्ववेद संहिता : सायणभाष्य, निर्णय सागर प्रेस, बम्बई, १८९५ ।
२. ऋग्वेद संहिता : सायणभाष्य, (भाग १ से ५) वैदिक संशोधन मण्डल पूना।
३. बृहदारण्यक उपनिषद्, निर्णय सागर प्रेस, बम्बई, १९३२ ।
४. मनुस्मृति : हिन्दी अनुवाद, श्री हरिगोविन्द शास्त्री, चौखम्बा सिरीज वाराणसी ।
५. महाभारत : हिन्दी अनुवाद, रामनारायणदत्त शास्त्री, गीता प्रेस, गोरखपुर ।
६. यजुर्वेद संहिता : भाष्य- स्वामी दयानन्द, अजमेर सं० १९८६ ।
७. याज्ञवल्क्य स्मृति : मिताक्षरा सहित, दुर्गाप्रसाद, लखनऊ १८९० ।
८. रामायण : निर्णयसागर प्रेस, बम्बई १९२९ ।
९. पाणिनीकालीन भारत : वासुदेवशरण अग्रवाल, दिल्ली ।
१०. रघुवंश : कलीदास, चौखम्वा सिरीज वाराणसी ।
११. अभिज्ञानशाकुन्तल : कालीदास, मोतीलाल बनारसीदास, दिल्ली ।
१२. वेद और धर्मशास्त्र में नारी : श्रीमती डा० एस० कुजूर १९८१ ।
१३. नारी-धर्म : जयदयाल गोयनका, गीताप्रेस गोरखपुर, सं० २०३० ।
१४. प्राचीन भारत की सामाजिक संस्कृति : रामजी उपाध्याय, इलाहबाद ।
१५. स्मृतियों मे नारी : डा० भारती आर्य, विश्वभारती अनुसन्धान परिषद्, ज्ञानपुर(भिदोही) ।
१६. Position of Women in Hindu Civilization : A.S.Altekar, Motilal Banarasi Das, Delhi, 1962.

Please rate this Research Paper

Leave a Reply