भावनायाः वैशिष्ट्यम् एवं प्रयोजनम् 4.5/5 (4)

0
51 views

Sandeep kumar
Assistant Professor (Ad-hoc)
Zakir Husain Delhi College, DU

      वाक्यार्थबोधस्य क्षेत्रे भावनायाः स्थानं महत्वपूर्णम् अस्ति। भाव्यतेऽनया इति भावना इति विग्रहानुसारं भावनायाः अर्थः भवति- यया क्रियां वस्तु वाऽपि भवितुं प्रेरणा क्रियते सा भावना भवति। भावनाशब्दस्य निष्पतिः भू सत्तायामिति धातोर्हेतुमति चेति णिच् प्रत्यये, ल्युटि, टापि च सति भवति।  प्रयोजकपुरुषस्य शब्दस्य वाऽपि व्यापारभूतत्वात् एव भावना णिजन्तशब्देन उच्यते। भावना वस्तुतः उत्पद्यमानं वस्तु प्रति प्रयोज्यपुरुषस्य प्रवृतिं कारयति। भावना एका शक्तिरस्ति यस्याः सामर्थ्येन विधेः प्रेरणाकार्यस्य निर्वाहः भवति। भावना लौकिकवाक्यानां वैदिकवाक्यानां च उभयप्रकारकवाक्यानामर्थबोधने सहायिका अस्ति। अतः ईयं भावना विधेः पृथक् पदार्थ नास्ति प्रत्युत भावनात्वरूपेण विधेरवच्छेदिका अस्ति। अर्थात् भावनारूपसोपानेन विधि पुरुषं पुरुषार्थं प्रापयति। अत ईयं विधेरवच्छिन्नम् अङ्गं सिध्यति। 
      भावना यद्यपि मीमांसाव्याकरणन्यायेषु त्रिषु अपि दर्शनेषु स्वीकृता अस्ति। तथापि एषु त्रिषु दर्शनेषु स्वीकृतं भावनायाः स्वरूपं भिन्न-भिन्नम् अस्ति। वैय्याकरणा धात्वर्थमुख्यकं शाब्दबोधं स्वीकुर्वाणाः भावनां धात्वर्थगतां मन्वते तथैव नैय्यायिकाः भावनाम् आख्यातं क्रियावाचिनीं वा स्वीकुर्वन्ति। यद्यपि मीमांसकाः भावनां विधिप्रत्ययस्य अर्थं स्वीकुर्वन्ति। यद्यपि मीमांसकाः भावनां विधिप्रत्ययस्य अर्थं स्वीकुर्वन्ति। तथापि ते नैय्यायिकैरिव आख्यातार्थमात्रं न मत्वा विधिप्रत्ययस्य लिङ्त्वाख्यातत्वेत्युभयांशयोस्स्वीकुर्वन्ति। अनेन इदं स्पष्टं भवति यत् मीमांसादर्शने स्वीकृतं भावनायाः स्वरूपं व्यापकतरम् इति।
     मीमांसादर्शने उत्पद्यमानवस्तुनः उत्पत्यनुकूलः भावयितुः उत्पादयितुः वा विशेषव्यापारः भावना उच्यते।  यथा ‘ओदनं पच’ इति देवदत्तप्रयुक्ते लौकिकवाक्ये ओदनस्य उत्पत्तिः अर्थात् पाकानुकूलप्रयोजकस्य देवदत्तस्य ओदनसिद्धिकारकः व्यापारविशेषः एव भावना इत्यभिहितः भवति। अत्र वाक्ये उत्पद्यमाना यज्ञदत्तस्य पाकादिक्रियायां प्रवृत्तिः अस्ति, अस्या उत्पादयिता च देवदत्तः अस्ति। देवदत्तस्य अभिप्रायविशेषः एव यज्ञदत्तस्य प्रवृत्यनुकूलः व्यापारविशेषः अस्ति। यथा- ‘ओदनं पच’ इति वाक्ये देवदत्तस्याभिप्रायविशेषः एव यज्ञदत्ते पाकानुकूलप्रवृत्तिमुत्पादयति। अतः प्रेरकस्य देवदत्तस्यः उक्तः अभिप्रायविशेषः एव भावना उच्यते। वस्तुतः अत्र यज्ञदत्तस्य प्रवृत्तेः कारणं भावना अस्ति। ईयमेव भावना मीमांसाशास्त्रे भवनानुकूलः व्यापारविशेषः इत्युच्यते। अयं विशिष्टव्यापारः भावना उत्पादनादिभिः नामभिः विख्यातः अस्ति। यथैवोच्यते- व्यापारो भावना सैवोत्पादना सैव च क्रिया।  
      प्राचीनमीमांसकमते विधेः ईयं भावनाशक्तिः लिङ्-लोट्-तव्य-अनीयर्-आदिभिः प्रत्ययैर्युक्तवाक्येषु प्रतीयते, अथापि एभ्यः विधायकप्रत्ययभिन्नप्रत्ययैः युक्तक्रियावाचकपदेषु अस्याः प्रतीतिः न भवति। प्राचीनमतेन ईयं भावना प्रयोक्तरि पुरूषे भवति। यतः अयं प्रेरयिपुरूषगतः अभिप्रायविशेषः भवति। वैदिकवाक्येषु ईयं भावना विधिवाक्यगता अत एव शब्दनिष्ठा भवति। अनेनैव कारणेन ईयं सामान्यतः शाब्दीभावना अप्युच्यते।
      भावनायाः पूर्वोक्तं लक्षणं न केवलं वैदिकवाक्येषु अपितु यजेत स्वर्गकामः आदिषु वैदिकविधिवाक्येषु अपि चरितार्थं भवति। वस्तुतः एषु वैदिकवाक्येषु स्वर्गादिकमुद्दिश्य पुरुषस्य यागादिक्रियासु प्रवृत्तिर्विहिता अस्ति ‘यजेत स्वर्गकामः’ इति वाक्ये प्रयुक्तं ‘यजेत’ इति पदमंशद्वयोपेतं वर्तते- १. यज् धातो धात्वर्थः, २. त इति विधायकप्रत्ययः। मीमांसाशास्त्रे ‘त’ इतिविधायकप्रत्ययस्यापि अंशद्वयं स्वीक्रियते। तद्यथा- १.आख्यातत्वम्, २.लिङ्त्वञ्चेति। तत्र आख्यातत्वं दशलकारसामान्यं भवति, लिङ्त्वञ्च केवलं विधायकलकारेषु एव भवति। तद्यथा- विधिलिङ्, लोट्, लेट् आदिषु। यतः लिङ्त्वं विधायकलिङ्लकारस्यैव विशेषधर्मः अस्ति। लोट् लेट् एतावपि विध्यर्थावेव प्रयुक्तौ भवतः। लिङर्थे लेट्, लोट् च इति नियमेन ‘यजेत’ इतिपदे यज् धातु यागस्य सामान्यरूपं बोधयति, तप्रत्यश्च भावना अर्थात् अनुष्ठानस्य बोधकः अस्ति। यद्यपि अयं तप्रत्ययः अनुष्ठानातिरिक्तान् पुरुषसंख्याकाललकारान् अपि बोधयति। तथापि मुख्यत्वात् अत्र प्रत्ययेन भावनायाः एव ग्रहणम् अभीष्टम् अस्ति।
     ‘यजेत स्वर्गकामः’ इतिवाक्ये ‘यजेत’ इतिपदगततप्रत्यये विद्यमानं लिङत्वमेव अत्र भावयिता उत्पादयिता वा अस्ति। यतः वैदिकवाक्यानि पुरुषकृतानि न सन्ति अतः पुरुषः अत्र भावयिता प्रेरयिता वा न भवति। लिङंशः प्रेरयिता भावयिता एतदर्थमपि भवति यत् प्रचर्तना प्रेरणा वा लिङंशे एव तिष्ठति। तप्रत्ययस्थः आख्यातत्वांशः भावयिता न मन्यते यतः आख्यातत्वं दशलकारसाधारणं सत् क्रियासामान्यस्यैव बोधकं भवति न तु विशेषक्रियायाः। तथैव प्रत्ययरहितः यजशोऽपि भावयिता न मन्यते, यतः यजंशः प्रेरणायाः बोधकः न भवति। अत्र ईयं शङ्का अपि उचिता नास्ति यत् स्वर्गकामो यजेत इत्यत्र ‘स्वर्गकामः’ इति पदं यागानुष्ठानस्याधिकारिणः पुरुषस्य विशेषणम् अस्ति। अतः ‘स्वर्गकामो यजेत’ इतिवाक्येन स्वर्गकामीपुरुषोत्पना यागानुष्ठानविषयकप्रवृत्तिः भावना वेत्येवंरूपोऽर्थबोधः भवति।
     प्राचीनमीमांसककैर्यत् भवितुर्भवनानुकूलः भावयितुर्व्यापारविशेषः भावनेति लक्षितम् तदेव मण्डनमिश्रादिभिः नव्यमीमांसकैः भाव्यभावनसामर्थ्यं भावना उच्यते। ईयं व्यापाररूपा भावना अन्य अर्थात् कार्योत्पादनस्य अनुकूलस्वरूपा साध्यरूपा च भवतीति। विधायकप्रत्ययस्य धात्वर्थेन सह संयोगे सत्येव भावनायाः बोधः भवतीति।  यथोच्यते-

“धात्वर्थव्यतिरेकेण यद्यप्येषा न लभ्यते।
तथापि सर्वसामान्यरूपेणैवावगम्यते॥”
मण्डनमिश्रस्य मतानुसारं ‘भावयतीति भावना’ इतिव्युत्पत्या भावितस्य, साधितस्य वा पदार्थस्यानुकूलः भावकस्य प्रयोजकस्य व्यापारः एव भावना भवति। प्रयोजकस्यायं व्यापारः प्रयोज्यपुरुषस्य प्रवृत्यनुकूलां भूमिं निर्माति। “एकसम्बन्धिज्ञाननमपरसम्बन्धिस्मारकम्” इति न्यायेन यथा लोके एकस्य सम्बन्धिनः ज्ञानमपरस्य सम्बन्धिनः स्मरणं कारयति तथैव भावनायाः वाचकः शाब्दभावनारूपिणमर्थमपि स्मारयति। अपरसम्बन्धिस्मारकरूपायाः भावनायाः इदं स्वरूपं यद्यपि न्यायव्याकरणदर्शनयोरपि स्वीकृतमस्ति तथापि वाक्यगतः कतमोंऽशः भावनायाः वाचकोऽस्ति इत्यत्र मतभेदः वर्तते। नैय्यायिकाः भावनाम् आख्यातप्रत्यवाच्यां मन्वते। तथैव वैय्याकरणाः धात्वर्थवाच्यां स्वीकुर्वन्ति। यद्यपि धातोः आख्यातस्य क्रियायाः वा बोधे धातूत्तरवर्ती आख्यातप्रत्ययः सहायकः भवति, किन्तु केवलम् आख्यातप्रत्ययः भावनायाः वाचकः न भवितुम् अर्हति। कतिपयविदुषां मतमिदमस्ति यत् धातुप्रत्यययोः समुदायः अर्थात् उभयोरेकत्र स्थितिरेव भावनायाः वाचिका भवति, तत्र धातुमात्रेण प्रत्ययमात्रेण वा भावनायाः बोधः न भवितुमर्हति इति। ‘न केवला प्रकृतिः प्रयोक्तव्या नापि केवलः प्रत्ययः’ इत्यादीनामुक्तीमामिदमेव तात्पर्यं विद्यते।
तात्पर्यमिदमस्ति यत् ‘पाकः’ इति पदे पच् धातोः प्रयोगे सति अपि पाकक्रियानुकूलभावनायाः बोधः न भवति। यदि वैय्याकरणसम्मतः धात्वर्थः भावना मन्यते चेत् अनेन पदेन भावनायाः बोधः अवश्यं भवेत्। तथैव अस्ति-भवति-विद्यति-आदिभिः सत्तार्थकधातुभिरपि पचादिधातुप्रयोगाभावे भावनायाः प्रतीतिः न भवति। अतः धात्वर्थस्य आख्यातप्रत्ययस्य च एकत्र स्थितिः भावनायाः बोधिका भवति इति मतं युक्तमस्ति, किन्तु इदमपि ध्यातव्यं भवति यत् विशेषकप्रकारकधातूनां प्रत्ययानाञ्च समुदायः भावनायाः बोधने समर्थः भवति।
भावनायाः लक्षणे प्रयुक्तानि भावयिता, भवन, भावना, भविता आदीनि सर्वाणि पदानि सत्तार्थकात् भूधातोर्निष्पन्नः अस्ति। येषा क्रियोत्पादनाय प्रेर्यते सा भावना अस्ति यश्चोत्पत्तये प्रेरयति स भावयिता उच्यते। उत्पद्यमानं कार्यं(साध्यं) भवति शब्दवाच्यम् अस्ति। भविता अर्थात् उत्पस्यमानक्रियायाः उत्पादकस्य पुरुषस्य कृति-इच्छादिरूपव्यापाराः अपि भावनायाः अर्थे सङ्गृह्यन्ते। ईयं कृति इच्छादिः वा क्वचित् प्रयोजकस्य व्यापारः भवति क्वचित् च प्रयोज्यस्य व्यापारः भवति। अर्थात् ईयं भावना शाब्दीभावना वा लिङ्त्वांशे प्रयोजकस्य शब्दस्य वा व्यापारविशेषे आख्यातत्वांशे (आर्थीभावनायां) च प्रयोज्यपुरुषस्य व्यापारः भवति। भावनां वर्णयन् कुमारिलभट्टः श्लोकवार्तिके आह-
भावनावाचिनस्तावत् तां स्मारयति लोकवत्।
अन्वयव्यतिरेकाभ्यां प्रत्ययार्थस्तु सेष्यते॥
अर्थात् यथा लोके एकः सम्बन्धी अपरस्य सम्बन्धिनः स्मरणं कारयति, तथैव भावनाशब्दः तस्य लक्ष्यार्थेन सह वाच्यार्थस्य अपि बोधकः भवति। सा भावना अन्वयव्यतिरेकनियमाभ्यां प्रत्ययार्थे एव स्थिता भवति। अतः प्रत्ययर्थः एव भावनायाः बोधकः भवति न तु धात्वर्थः।
अनेनायं निष्कर्षः उत्पद्यते यत् भावना वाक्यार्थबोधे विधेः साहाय्यमाचरन्ती सापानश्रेणिः भवति। भावना प्रयोजकपुरुषे शब्दे वापि विद्यमाना प्रयोज्यपुरुषे प्रवृत्त्युत्पादने समर्था भवति। वस्तुतः विधेः प्रेरकत्वशक्तिः एव भावना प्रेरणा प्रवर्तना इत्यादिभिः संज्ञाभिः अभिहिता भवति। ईयं भावना मीमांसकमतेन विधिप्रत्ययस्या स्वीक्रियते। अस्यां भावनायां साध्यं साधनम् इतिकर्तव्यता चेति अंशत्रयं कल्प्यते। इमा च त्र्यंशसमन्विता भावनैव वाक्यार्थबोधने समर्था भवति। एते त्रयोंऽशाः परस्परं साकांक्षाः भवन्ति। तेषां कमप्यन्यतरं विना भावना यथार्थबोधिका न भवति। अतः विधिप्रत्ययेन वाक्यार्थबोधं कारयन्ती साध्यसाधनेतिकर्तव्यतेति अंशत्रयोपेता विधिप्रत्ययस्य शक्तिरूपा भावना अतिमहत्वपूर्णा मन्यते मीमांसाशास्त्रे।

सन्दर्भ-सूचीः
• अर्थसंग्रह, लौगाक्षिभाष्कर, (पं० पट्टाभिराम शास्त्रिप्रणीत अर्थालोक टीका सहित),व्या० वाचस्पति उपाध्याय, चौखम्बा पब्लिशर्स, वाराणसी,२००५.
• न्यायभाष्यवार्तिकम् ,उद्योतकर, सं. अनन्तलाल ठाकुर, आई. सी. पी. आर., नई-दिल्ली; १९९७.
• न्यायसिद्धान्तमुक्तावली, विश्वनाथ पञ्चानन, (दिनकरी-रामरुद्री सहित), सं० हरिराम शुक्ल, चौखम्भा संस्कृत संस्थान, वाराणसी, १९८९.
• मीमांसादर्शन(तर्कपाद),जैमिनि, शाबरभाष्यसहित,हिन्दीव्याख्यासहित, व्याख्याकार उमाशङ्कर शर्मा ’ऋषि’, चौखम्बा सुरभारती प्रकाशन, वाराणसी, २००८.
• मीमांसा श्लोकवार्तिक , कुमारिलभट्ट, हिन्दी व्याख्या- दुर्गाधर झा शर्मा, कामेश्वर सिंह दरभंगा संस्कृत विश्वविद्यालय, दरभंगा; १९७९.
• मुसलगाँवकर, गजानन शास्त्री: मीमांसा दर्शन का विवेचनात्मक इतिहास, चौखम्बा विद्याभवन, वाराणसी; १९९२.

Please rate this Research Paper

Leave a Reply